भगवानु उवाच:
सञ्जय़स्य श्रुतं वाक्यं भवतश्च श्रुतं मय़ा |
१ क
भगवानु उवाच:
सर्वं जानाम्यभिप्राय़ं तेषां च भवतश्च यः ||
१ ख
भगवानु उवाच:
तव धर्माश्रिता वुद्धिस्तेषां वैराश्रिता मतिः |
२ क
भगवानु उवाच:
यदय़ुद्धेन लभ्येत तत्ते वहुमतं भवेत् ||
२ ख
भगवानु उवाच:
न च तन्नैष्ठिकं कर्म क्षत्रिय़स्य विशां पते |
३ क
भगवानु उवाच:
आहुराश्रमिणः सर्वे यद्भैक्षं क्षत्रिय़श्चरेत् ||
३ ख
भगवानु उवाच:
जय़ो वधो वा सङ्ग्रामे धात्रा दिष्टः सनातनः |
४ क
भगवानु उवाच:
स्वधर्मः क्षत्रिय़स्यैष कार्पण्यं न प्रशस्यते ||
४ ख
भगवानु उवाच:
न हि कार्पण्यमास्थाय़ शक्या वृत्तिर्युधिष्ठिर |
५ क
भगवानु उवाच:
विक्रमस्व महावाहो जहि शत्रूनरिन्दम ||
५ ख
भगवानु उवाच:
अतिगृद्धाः कृतस्नेहा दीर्घकालं सहोषिताः |
६ क
भगवानु उवाच:
कृतमित्राः कृतवला धार्तराष्ट्राः परन्तप ||
६ ख
भगवानु उवाच:
न पर्याय़ोऽस्ति यत्साम्यं त्वय़ि कुर्युर्विशां पते |
७ क
भगवानु उवाच:
वलवत्तां हि मन्यन्ते भीष्मद्रोणकृपादिभिः ||
७ ख
भगवानु उवाच:
यावच्च मार्दवेनैतान्राजन्नुपचरिष्यसि |
८ क
भगवानु उवाच:
तावदेते हरिष्यन्ति तव राज्यमरिन्दम ||
८ ख
भगवानु उवाच:
नानुक्रोशान्न कार्पण्यान्न च धर्मार्थकारणात् |
९ क
भगवानु उवाच:
अलं कर्तुं धार्तराष्ट्रास्तव काममरिन्दम ||
९ ख
भगवानु उवाच:
एतदेव निमित्तं ते पाण्डवास्तु यथा त्वय़ि |
१० क
भगवानु उवाच:
नान्वतप्यन्त कौपीनं तावत्कृत्वापि दुष्करम् ||
१० ख
भगवानु उवाच:
पितामहस्य द्रोणस्य विदुरस्य च धीमतः |
११ क
भगवानु उवाच:
पश्यतां कुरुमुख्यानां सर्वेषामेव तत्त्वतः ||
११ ख
भगवानु उवाच:
दानशीलं मृदुं दान्तं धर्मकाममनुव्रतम् |
१२ क
भगवानु उवाच:
यत्त्वामुपधिना राजन्द्यूतेनावञ्चय़त्तदा |
१२ ख
भगवानु उवाच:
न चापत्रपते पापो नृशंसस्तेन कर्मणा ||
१२ ग
भगवानु उवाच:
तथाशीलसमाचारे राजन्मा प्रणय़ं कृथाः |
१३ क
भगवानु उवाच:
वध्यास्ते सर्वलोकस्य किं पुनस्तव भारत ||
१३ ख
भगवानु उवाच:
वाग्भिस्त्वप्रतिरूपाभिरतुदत्सकनीय़सम् |
१४ क
भगवानु उवाच:
श्लाघमानः प्रहृष्टः सन्भाषते भ्रातृभिः सह ||
१४ ख
भगवानु उवाच:
एतावत्पाण्डवानां हि नास्ति किञ्चिदिह स्वकम् |
१५ क
भगवानु उवाच:
नामधेय़ं च गोत्रं च तदप्येषां न शिष्यते ||
१५ ख
भगवानु उवाच:
कालेन महता चैषां भविष्यति पराभवः |
१६ क
भगवानु उवाच:
प्रकृतिं ते भजिष्यन्ति नष्टप्रकृतय़ो जनाः ||
१६ ख
भगवानु उवाच:
एताश्चान्याश्च परुषा वाचः स समुदीरय़न् |
१७ क
भगवानु उवाच:
श्लाघते ज्ञातिमध्ये स्म त्वय़ि प्रव्रजिते वनम् ||
१७ ख
भगवानु उवाच:
ये तत्रासन्समानीतास्ते दृष्ट्वा त्वामनागसम् |
१८ क
भगवानु उवाच:
अश्रुकण्ठा रुदन्तश्च सभाय़ामासते तदा ||
१८ ख
भगवानु उवाच:
न चैनमभ्यनन्दंस्ते राजानो व्राह्मणैः सह |
१९ क
भगवानु उवाच:
सर्वे दुर्योधनं तत्र निन्दन्ति स्म सभासदः ||
१९ ख
भगवानु उवाच:
कुलीनस्य च या निन्दा वधश्चामित्रकर्शन |
२० क
भगवानु उवाच:
महागुणो वधो राजन्न तु निन्दा कुजीविका ||
२० ख
भगवानु उवाच:
तदैव निहतो राजन्यदैव निरपत्रपः |
२१ क
भगवानु उवाच:
निन्दितश्च महाराज पृथिव्यां सर्वराजसु ||
२१ ख
भगवानु उवाच:
ईषत्कार्यो वधस्तस्य यस्य चारित्रमीदृशम् |
२२ क
भगवानु उवाच:
प्रस्कम्भनप्रतिस्तव्धश्छिन्नमूल इव द्रुमः ||
२२ ख
भगवानु उवाच:
वध्यः सर्प इवानार्यः सर्वलोकस्य दुर्मतिः |
२३ क
भगवानु उवाच:
जह्येनं त्वममित्रघ्न मा राजन्विचिकित्सिथाः ||
२३ ख
भगवानु उवाच:
सर्वथा त्वत्क्षमं चैतद्रोचते च ममानघ |
२४ क
भगवानु उवाच:
यत्त्वं पितरि भीष्मे च प्रणिपातं समाचरेः ||
२४ ख
भगवानु उवाच:
अहं तु सर्वलोकस्य गत्वा छेत्स्यामि संशय़म् |
२५ क
भगवानु उवाच:
येषामस्ति द्विधाभावो राजन्दुर्योधनं प्रति ||
२५ ख
भगवानु उवाच:
मध्ये राज्ञामहं तत्र प्रातिपौरुषिकान्गुणान् |
२६ क
भगवानु उवाच:
तव सङ्कीर्तय़िष्यामि ये च तस्य व्यतिक्रमाः ||
२६ ख
भगवानु उवाच:
व्रुवतस्तत्र मे वाक्यं धर्मार्थसहितं हितम् |
२७ क
भगवानु उवाच:
निशम्य पार्थिवाः सर्वे नानाजनपदेश्वराः ||
२७ ख
भगवानु उवाच:
त्वय़ि सम्प्रतिपत्स्यन्ते धर्मात्मा सत्यवागिति |
२८ क
भगवानु उवाच:
तस्मिंश्चाधिगमिष्यन्ति यथा लोभादवर्तत ||
२८ ख
भगवानु उवाच:
गर्हय़िष्यामि चैवैनं पौरजानपदेष्वपि |
२९ क
भगवानु उवाच:
वृद्धवालानुपादाय़ चातुर्वर्ण्यसमागमे ||
२९ ख
भगवानु उवाच:
शमं चेद्याचमानस्त्वं न धर्मं तत्र लप्स्यसे |
३० क
भगवानु उवाच:
कुरून्विगर्हय़िष्यन्ति धृतराष्ट्रं च पार्थिवाः ||
३० ख
भगवानु उवाच:
तस्मिँल्लोकपरित्यक्ते किं कार्यमवशिष्यते |
३१ क
भगवानु उवाच:
हते दुर्योधने राजन्यदन्यत्क्रिय़तामिति ||
३१ ख
भगवानु उवाच:
यात्वा चाहं कुरून्सर्वान्युष्मदर्थमहापय़न् |
३२ क
भगवानु उवाच:
यतिष्ये प्रशमं कर्तुं लक्षय़िष्ये च चेष्टितम् ||
३२ ख
भगवानु उवाच:
कौरवाणां प्रवृत्तिं च गत्वा युद्धाधिकारिकाम् |
३३ क
भगवानु उवाच:
निशाम्य विनिवर्तिष्ये जय़ाय़ तव भारत ||
३३ ख
भगवानु उवाच:
सर्वथा युद्धमेवाहमाशंसामि परैः सह |
३४ क
भगवानु उवाच:
निमित्तानि हि सर्वाणि तथा प्रादुर्भवन्ति मे ||
३४ ख
भगवानु उवाच:
मृगाः शकुन्ताश्च वदन्ति घोरं; हस्त्यश्वमुख्येषु निशामुखेषु |
३५ क
भगवानु उवाच:
घोराणि रूपाणि तथैव चाग्नि; र्वर्णान्वहून्पुष्यति घोररूपान् |
३५ ख
भगवानु उवाच:
मनुष्यलोकक्षपणोऽथ घोरो; नो चेदनुप्राप्त इहान्तकः स्यात् ||
३५ ग
भगवानु उवाच:
शस्त्राणि पत्रं कवचान्रथांश्च; नागान्ध्वजांश्च प्रतिपादय़ित्वा |
३६ क
भगवानु उवाच:
योधाश्च सर्वे कृतनिश्रमास्ते; भवन्तु हस्त्यश्वरथेषु यत्ताः |
३६ ख
भगवानु उवाच:
साङ्ग्रामिकं ते यदुपार्जनीय़ं; सर्वं समग्रं कुरु तन्नरेन्द्र ||
३६ ग
भगवानु उवाच:
दुर्योधनो न ह्यलमद्य दातुं; जीवंस्तवैतन्नृपते कथञ्चित् |
३७ क
भगवानु उवाच:
यत्ते पुरस्तादभवत्समृद्धं; द्यूते हृतं पाण्डवमुख्य राज्यम् ||
३७ ख