chevron_left अनुशासन पर्व अध्याय ७२
व्रह्मो उवाच:
योऽय़ं प्रश्नस्त्वय़ा पृष्टो गोप्रदानाधिकारवान् |
१ क
व्रह्मो उवाच:
नास्य प्रष्टास्ति लोकेऽस्मिंस्त्वत्तोऽन्यो हि शतक्रतो ||
१ ख
व्रह्मो उवाच:
सन्ति नानाविधा लोका यांस्त्वं शक्र न पश्यसि |
२ क
व्रह्मो उवाच:
पश्यामि यानहं लोकानेकपत्न्यश्च याः स्त्रिय़ः ||
२ ख
व्रह्मो उवाच:
कर्मभिश्चापि सुशुभैः सुव्रता ऋषय़स्तथा |
३ क
व्रह्मो उवाच:
सशरीरा हि तान्यान्ति व्राह्मणाः शुभवृत्तय़ः ||
३ ख
व्रह्मो उवाच:
शरीरन्यासमोक्षेण मनसा निर्मलेन च |
४ क
व्रह्मो उवाच:
स्वप्नभूतांश्च ताँल्लोकान्पश्यन्तीहापि सुव्रताः ||
४ ख
व्रह्मो उवाच:
ते तु लोकाः सहस्राक्ष शृणु यादृग्गुणान्विताः |
५ क
व्रह्मो उवाच:
न तत्र क्रमते कालो न जरा न च पापकम् |
५ ख
व्रह्मो उवाच:
तथान्यन्नाशुभं किञ्चिन्न व्याधिस्तत्र न क्लमः ||
५ ग
व्रह्मो उवाच:
यद्यच्च गावो मनसा तस्मिन्वाञ्छन्ति वासव |
६ क
व्रह्मो उवाच:
तत्सर्वं प्रापय़न्ति स्म मम प्रत्यक्षदर्शनात् |
६ ख
व्रह्मो उवाच:
कामगाः कामचारिण्यः कामात्कामांश्च भुञ्जते ||
६ ग
व्रह्मो उवाच:
वाप्यः सरांसि सरितो विविधानि वनानि च |
७ क
व्रह्मो उवाच:
गृहाणि पर्वताश्चैव यावद्द्रव्यं च किञ्चन ||
७ ख
व्रह्मो उवाच:
मनोज्ञं सर्वभूतेभ्यः सर्वं तत्र प्रदृश्यते |
८ क
व्रह्मो उवाच:
ईदृशान्विद्धि ताँल्लोकान्नास्ति लोकस्ततोऽधिकः ||
८ ख
व्रह्मो उवाच:
तत्र सर्वसहाः क्षान्ता वत्सला गुरुवर्तिनः |
९ क
व्रह्मो उवाच:
अहङ्कारैर्विरहिता यान्ति शक्र नरोत्तमाः ||
९ ख
व्रह्मो उवाच:
यः सर्वमांसानि न भक्षय़ीत; पुमान्सदा यावदन्ताय़ युक्तः |
१० क
व्रह्मो उवाच:
मातापित्रोरर्चिता सत्ययुक्तः; शुश्रूषिता व्राह्मणानामनिन्द्यः ||
१० ख
व्रह्मो उवाच:
अक्रोधनो गोषु तथा द्विजेषु; धर्मे रतो गुरुशुश्रूषकश्च |
११ क
व्रह्मो उवाच:
यावज्जीवं सत्यवृत्ते रतश्च; दाने रतो यः क्षमी चापराधे ||
११ ख
व्रह्मो उवाच:
मृदुर्दान्तो देवपराय़णश्च; सर्वातिथिश्चापि तथा दय़ावान् |
१२ क
व्रह्मो उवाच:
ईदृग्गुणो मानवः सम्प्रय़ाति; लोकं गवां शाश्वतं चाव्ययं च ||
१२ ख
व्रह्मो उवाच:
न पारदारी पश्यति लोकमेनं; न वै गुरुघ्नो न मृषाप्रलापी |
१३ क
व्रह्मो उवाच:
सदापवादी व्राह्मणः शान्तवेदो; दोषैरन्यैर्यश्च युक्तो दुरात्मा ||
१३ ख
व्रह्मो उवाच:
न मित्रध्रुङ्नैकृतिकः कृतघ्नः; शठोऽनृजुर्धर्मविद्वेषकश्च |
१४ क
व्रह्मो उवाच:
न व्रह्महा मनसापि प्रपश्ये; द्गवां लोकं पुण्यकृतां निवासम् ||
१४ ख
व्रह्मो उवाच:
एतत्ते सर्वमाख्यातं नैपुणेन सुरेश्वर |
१५ क
व्रह्मो उवाच:
गोप्रदानरतानां तु फलं शृणु शतक्रतो ||
१५ ख
व्रह्मो उवाच:
दाय़ाद्यलव्धैरर्थैर्यो गाः क्रीत्वा सम्प्रय़च्छति |
१६ क
व्रह्मो उवाच:
धर्मार्जितधनक्रीतान्स लोकानश्नुतेऽक्षय़ान् ||
१६ ख
व्रह्मो उवाच:
यो वै द्यूते धनं जित्वा गाः क्रीत्वा सम्प्रय़च्छति |
१७ क
व्रह्मो उवाच:
स दिव्यमय़ुतं शक्र वर्षाणां फलमश्नुते ||
१७ ख
व्रह्मो उवाच:
दाय़ाद्या यस्य वै गावो न्याय़पूर्वैरुपार्जिताः |
१८ क
व्रह्मो उवाच:
प्रदत्तास्ताः प्रदातॄणां सम्भवन्त्यक्षय़ा ध्रुवाः ||
१८ ख
व्रह्मो उवाच:
प्रतिगृह्य च यो दद्याद्गाः सुशुद्धेन चेतसा |
१९ क
व्रह्मो उवाच:
तस्यापीहाक्षय़ाँल्लोकान्ध्रुवान्विद्धि शचीपते ||
१९ ख
व्रह्मो उवाच:
जन्मप्रभृति सत्यं च यो व्रूय़ान्निय़तेन्द्रिय़ः |
२० क
व्रह्मो उवाच:
गुरुद्विजसहः क्षान्तस्तस्य गोभिः समा गतिः ||
२० ख
व्रह्मो उवाच:
न जातु व्राह्मणो वाच्यो यदवाच्यं शचीपते |
२१ क
व्रह्मो उवाच:
मनसा गोषु न द्रुह्येद्गोवृत्तिर्गोनुकम्पकः ||
२१ ख
व्रह्मो उवाच:
सत्ये धर्मे च निरतस्तस्य शक्र फलं शृणु |
२२ क
व्रह्मो उवाच:
गोसहस्रेण समिता तस्य धेनुर्भवत्युत ||
२२ ख
व्रह्मो उवाच:
क्षत्रिय़स्य गुणैरेभिरन्वितस्य फलं शृणु |
२३ क
व्रह्मो उवाच:
तस्यापि शततुल्या गौर्भवतीति विनिश्चय़ः ||
२३ ख
व्रह्मो उवाच:
वैश्यस्यैते यदि गुणास्तस्य पञ्चाशतं भवेत् |
२४ क
व्रह्मो उवाच:
शूद्रस्यापि विनीतस्य चतुर्भागफलं स्मृतम् ||
२४ ख
व्रह्मो उवाच:
एतच्चैवं योऽनुतिष्ठेत युक्तः; सत्येन युक्तो गुरुशुश्रूषय़ा च |
२५ क
व्रह्मो उवाच:
दान्तः क्षान्तो देवतार्ची प्रशान्तः; शुचिर्वुद्धो धर्मशीलोऽनहंवाक् ||
२५ ख
व्रह्मो उवाच:
महत्फलं प्राप्नुते स द्विजाय़; दत्त्वा दोग्ध्रीं विधिनानेन धेनुम् |
२६ क
व्रह्मो उवाच:
नित्यं दद्यादेकभक्तः सदा च; सत्ये स्थितो गुरुशुश्रूषिता च ||
२६ ख
व्रह्मो उवाच:
वेदाध्याय़ी गोषु यो भक्तिमांश्च; नित्यं दृष्ट्वा योऽभिनन्देत गाश्च |
२७ क
व्रह्मो उवाच:
आ जातितो यश्च गवां नमेत; इदं फलं शक्र निवोध तस्य ||
२७ ख
व्रह्मो उवाच:
यत्स्यादिष्ट्वा राजसूय़े फलं तु; यत्स्यादिष्ट्वा वहुना काञ्चनेन |
२८ क
व्रह्मो उवाच:
एतत्तुल्यं फलमस्याहुरग्र्यं; सर्वे सन्तस्त्वृषय़ो ये च सिद्धाः ||
२८ ख
व्रह्मो उवाच:
योऽग्रं भक्तान्किञ्चिदप्राश्य दद्या; द्गोभ्यो नित्यं गोव्रती सत्यवादी |
२९ क
व्रह्मो उवाच:
शान्तो वुद्धो गोसहस्रस्य पुण्यं; संवत्सरेणाप्नुय़ात्पुण्यशीलः ||
२९ ख
व्रह्मो उवाच:
य एकं भक्तमश्नीय़ाद्दद्यादेकं गवां च यत् |
३० क
व्रह्मो उवाच:
दश वर्षाण्यनन्तानि गोव्रती गोनुकम्पकः ||
३० ख
व्रह्मो उवाच:
एकेनैव च भक्तेन यः क्रीत्वा गां प्रय़च्छति |
३१ क
व्रह्मो उवाच:
यावन्ति तस्य प्रोक्तानि दिवसानि शतक्रतो |
३१ ख
व्रह्मो उवाच:
तावच्छतानां स गवां फलमाप्नोति शाश्वतम् ||
३१ ग
व्रह्मो उवाच:
व्राह्मणस्य फलं हीदं क्षत्रिय़ेऽभिहितं शृणु |
३२ क
व्रह्मो उवाच:
पञ्चवार्षिकमेतत्तु क्षत्रिय़स्य फलं स्मृतम् |
३२ ख
व्रह्मो उवाच:
ततोऽर्धेन तु वैश्यस्य शूद्रो वैश्यार्धतः स्मृतः ||
३२ ग
व्रह्मो उवाच:
यश्चात्मविक्रय़ं कृत्वा गाः क्रीत्वा सम्प्रय़च्छति |
३३ क
व्रह्मो उवाच:
यावतीः स्पर्शय़ेद्गा वै तावत्तु फलमश्नुते |
३३ ख
व्रह्मो उवाच:
लोम्नि लोम्नि महाभाग लोकाश्चास्याक्षय़ाः स्मृताः ||
३३ ग
व्रह्मो उवाच:
सङ्ग्रामेष्वर्जय़ित्वा तु यो वै गाः सम्प्रय़च्छति |
३४ क
व्रह्मो उवाच:
आत्मविक्रय़तुल्यास्ताः शाश्वता विद्धि कौशिक ||
३४ ख
व्रह्मो उवाच:
अलाभे यो गवां दद्यात्तिलधेनुं यतव्रतः |
३५ क
व्रह्मो उवाच:
दुर्गात्स तारितो धेन्वा क्षीरनद्यां प्रमोदते ||
३५ ख
व्रह्मो उवाच:
न त्वेवासां दानमात्रं प्रशस्तं; पात्रं कालो गोविशेषो विधिश्च |
३६ क
व्रह्मो उवाच:
कालज्ञानं विप्र गवान्तरं हि; दुःखं ज्ञातुं पावकादित्यभूतम् ||
३६ ख
व्रह्मो उवाच:
स्वाध्याय़ाढ्यं शुद्धय़ोनिं प्रशान्तं; वैतानस्थं पापभीरुं कृतज्ञम् |
३७ क
व्रह्मो उवाच:
गोषु क्षान्तं नातितीक्ष्णं शरण्यं; वृत्तिग्लानं तादृशं पात्रमाहुः ||
३७ ख
व्रह्मो उवाच:
वृत्तिग्लाने सीदति चातिमात्रं; कृष्यर्थं वा होमहेतोः प्रसूत्याम् |
३८ क
व्रह्मो उवाच:
गुर्वर्थं वा वालसंवृद्धय़े वा; धेनुं दद्याद्देशकाले विशिष्टे ||
३८ ख
व्रह्मो उवाच:
अन्तर्जाताः सुक्रय़ज्ञानलव्धाः; प्राणक्रीता निर्जिताश्चौकजाश्च |
३९ क
व्रह्मो उवाच:
कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च; द्वारैरेतैर्गोविशेषाः प्रशस्ताः ||
३९ ख
व्रह्मो उवाच:
वलान्विताः शीलवय़ोपपन्नाः; सर्वाः प्रशंसन्ति सुगन्धवत्यः |
४० क
व्रह्मो उवाच:
यथा हि गङ्गा सरितां वरिष्ठा; तथार्जुनीनां कपिला वरिष्ठा ||
४० ख
व्रह्मो उवाच:
तिस्रो रात्रीस्त्वद्भिरुपोष्य भूमौ; तृप्ता गावस्तर्पितेभ्यः प्रदेय़ाः |
४१ क
व्रह्मो उवाच:
वत्सैः पुष्टैः क्षीरपैः सुप्रचारा; स्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम् ||
४१ ख
व्रह्मो उवाच:
दत्त्वा धेनुं सुव्रतां साधुवत्सां; कल्याणवृत्तामपलाय़िनीं च |
४२ क
व्रह्मो उवाच:
यावन्ति लोमानि भवन्ति तस्या; स्तावन्ति वर्षाणि वसत्यमुत्र ||
४२ ख
व्रह्मो उवाच:
तथानड्वाहं व्राह्मणाय़ाथ धुर्यं; दत्त्वा युवानं वलिनं विनीतम् |
४३ क
व्रह्मो उवाच:
हलस्य वोढारमनन्तवीर्यं; प्राप्नोति लोकान्दशधेनुदस्य ||
४३ ख
व्रह्मो उवाच:
कान्तारे व्राह्मणान्गाश्च यः परित्राति कौशिक |
४४ क
व्रह्मो उवाच:
क्षेमेण च विमुच्येत तस्य पुण्यफलं शृणु |
४४ ख
व्रह्मो उवाच:
अश्वमेधक्रतोस्तुल्यं फलं भवति शाश्वतम् ||
४४ ग
व्रह्मो उवाच:
मृत्युकाले सहस्राक्ष यां वृत्तिमनुकाङ्क्षते |
४५ क
व्रह्मो उवाच:
लोकान्वहुविधान्दिव्यान्यद्वास्य हृदि वर्तते ||
४५ ख
व्रह्मो उवाच:
तत्सर्वं समवाप्नोति कर्मणा तेन मानवः |
४६ क
व्रह्मो उवाच:
गोभिश्च समनुज्ञातः सर्वत्र स महीय़ते ||
४६ ख
व्रह्मो उवाच:
यस्त्वेतेनैव विधिना गां वनेष्वनुगच्छति |
४७ क
व्रह्मो उवाच:
तृणगोमय़पर्णाशी निःस्पृहो निय़तः शुचिः ||
४७ ख