वैशम्पाय़न उवाच:
समावृत्तव्रतं तं तु विसृष्टं गुरुणा तदा |
१ क
वैशम्पाय़न उवाच:
प्रस्थितं त्रिदशावासं देवय़ान्यव्रवीदिदम् ||
१ ख
वैशम्पाय़न उवाच:
ऋषेरङ्गिरसः पौत्र वृत्तेनाभिजनेन च |
२ क
वैशम्पाय़न उवाच:
भ्राजसे विद्यया चैव तपसा च दमेन च ||
२ ख
वैशम्पाय़न उवाच:
ऋषिर्यथाङ्गिरा मान्यः पितुर्मम महाय़शाः |
३ क
वैशम्पाय़न उवाच:
तथा मान्यश्च पूज्यश्च भूय़ो मम वृहस्पतिः ||
३ ख
वैशम्पाय़न उवाच:
एवं ज्ञात्वा विजानीहि यद्व्रवीमि तपोधन |
४ क
वैशम्पाय़न उवाच:
व्रतस्थे निय़मोपेते यथा वर्ताम्यहं त्वय़ि ||
४ ख
वैशम्पाय़न उवाच:
स समावृत्तविद्यो मां भक्तां भजितुमर्हसि |
५ क
वैशम्पाय़न उवाच:
गृहाण पाणिं विधिवन्मम मन्त्रपुरस्कृतम् ||
५ ख
कच उवाच:
पूज्यो मान्यश्च भगवान्यथा तव पिता मम |
६ क
कच उवाच:
तथा त्वमनवद्याङ्गि पूजनीय़तरा मम ||
६ ख
कच उवाच:
आत्मप्राणैः प्रिय़तमा भार्गवस्य महात्मनः |
७ क
कच उवाच:
त्वं भद्रे धर्मतः पूज्या गुरुपुत्री सदा मम ||
७ ख
कच उवाच:
यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव |
८ क
कच उवाच:
देवय़ानि तथैव त्वं नैवं मां वक्तुमर्हसि ||
८ ख
देवय़ान्यु उवाच:
गुरुपुत्रस्य पुत्रो वै न तु त्वमसि मे पितुः |
९ क
देवय़ान्यु उवाच:
तस्मान्मान्यश्च पूज्यश्च ममापि त्वं द्विजोत्तम ||
९ ख
देवय़ान्यु उवाच:
असुरैर्हन्यमाने च कच त्वय़ि पुनः पुनः |
१० क
देवय़ान्यु उवाच:
तदा प्रभृति या प्रीतिस्तां त्वमेव स्मरस्व मे ||
१० ख
देवय़ान्यु उवाच:
सौहार्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम् |
११ क
देवय़ान्यु उवाच:
न मामर्हसि धर्मज्ञ त्यक्तुं भक्तामनागसम् ||
११ ख
कच उवाच:
अनिय़ोज्ये निय़ोगे मां निय़ुनक्षि शुभव्रते |
१२ क
कच उवाच:
प्रसीद सुभ्रु त्वं मह्यं गुरोर्गुरुतरी शुभे ||
१२ ख
कच उवाच:
यत्रोषितं विशालाक्षि त्वय़ा चन्द्रनिभानने |
१३ क
कच उवाच:
तत्राहमुषितो भद्रे कुक्षौ काव्यस्य भामिनि ||
१३ ख
कच उवाच:
भगिनी धर्मतो मे त्वं मैवं वोचः शुभानने |
१४ क
कच उवाच:
सुखमस्म्युषितो भद्रे न मन्युर्विद्यते मम ||
१४ ख
कच उवाच:
आपृच्छे त्वां गमिष्यामि शिवमाशंस मे पथि |
१५ क
कच उवाच:
अविरोधेन धर्मस्य स्मर्तव्योऽस्मि कथान्तरे |
१५ ख
कच उवाच:
अप्रमत्तोत्थिता नित्यमाराधय़ गुरुं मम ||
१५ ग
देवय़ान्यु उवाच:
यदि मां धर्मकामार्थे प्रत्याख्यास्यसि चोदितः |
१६ क
देवय़ान्यु उवाच:
ततः कच न ते विद्या सिद्धिमेषा गमिष्यति ||
१६ ख
कच उवाच:
गुरुपुत्रीति कृत्वाहं प्रत्याचक्षे न दोषतः |
१७ क
कच उवाच:
गुरुणा चाभ्यनुज्ञातः काममेवं शपस्व माम् ||
१७ ख
कच उवाच:
आर्षं धर्मं व्रुवाणोऽहं देवय़ानि यथा त्वय़ा |
१८ क
कच उवाच:
शप्तो नार्होऽस्मि शापस्य कामतोऽद्य न धर्मतः ||
१८ ख
कच उवाच:
तस्माद्भवत्या यः कामो न तथा स भविष्यति |
१९ क
कच उवाच:
ऋषिपुत्रो न ते कश्चिज्जातु पाणिं ग्रहीष्यति ||
१९ ख
कच उवाच:
फलिष्यति न ते विद्या यत्त्वं मामात्थ तत्तथा |
२० क
कच उवाच:
अध्यापय़िष्यामि तु यं तस्य विद्या फलिष्यति ||
२० ख
वैशम्पाय़न उवाच:
एवमुक्त्वा द्विजश्रेष्ठो देवय़ानीं कचस्तदा |
२१ क
वैशम्पाय़न उवाच:
त्रिदशेशालय़ं शीघ्रं जगाम द्विजसत्तमः ||
२१ ख
वैशम्पाय़न उवाच:
तमागतमभिप्रेक्ष्य देवा इन्द्रपुरोगमाः |
२२ क
वैशम्पाय़न उवाच:
वृहस्पतिं सभाज्येदं कचमाहुर्मुदान्विताः ||
२२ ख
वैशम्पाय़न उवाच:
यत्त्वमस्मद्धितं कर्म चकर्थ परमाद्भुतम् |
२३ क
वैशम्पाय़न उवाच:
न ते यशः प्रणशिता भागभाङ्नो भविष्यसि ||
२३ ख