chevron_left द्रोण पर्व अध्याय ९१
सञ्जय़ उवाच:
शृणुष्वैकमना राजन्यन्मां त्वं परिपृच्छसि |
१ क
सञ्जय़ उवाच:
द्राव्यमाणे वले तस्मिन्हार्दिक्येन महात्मना ||
१ ख
सञ्जय़ उवाच:
लज्जय़ावनते चापि प्रहृष्टैश्चैव तावकैः |
२ क
सञ्जय़ उवाच:
द्वीपो य आसीत्पाण्डूनामगाधे गाधमिच्छताम् ||
२ ख
सञ्जय़ उवाच:
श्रुत्वा तु निनदं भीमं तावकानां महाहवे |
३ क
सञ्जय़ उवाच:
शैनेय़स्त्वरितो राजन्कृतवर्माणमभ्ययात् ||
३ ख
सञ्जय़ उवाच:
कृतवर्मा तु हार्दिक्यः शैनेय़ं निशितैः शरैः |
४ क
सञ्जय़ उवाच:
अवाकिरत्सुसङ्क्रुद्धस्ततोऽक्रुध्यत सात्यकिः ||
४ ख
सञ्जय़ उवाच:
ततः सुनिशितं भल्लं शैनेय़ः कृतवर्मणे |
५ क
सञ्जय़ उवाच:
प्रेषय़ामास समरे शरांश्च चतुरोऽपरान् ||
५ ख
सञ्जय़ उवाच:
ते तस्य जघ्निरे वाहान्भल्लेनास्याच्छिनद्धनुः |
६ क
सञ्जय़ उवाच:
पृष्ठरक्षं तथा सूतमविध्यन्निशितैः शरैः ||
६ ख
सञ्जय़ उवाच:
ततस्तं विरथं कृत्वा सात्यकिः सत्यविक्रमः |
७ क
सञ्जय़ उवाच:
सेनामस्यार्दय़ामास शरैः संनतपर्वभिः ||
७ ख
सञ्जय़ उवाच:
साभज्यताथ पृतना शैनेय़शरपीडिता |
८ क
सञ्जय़ उवाच:
ततः प्राय़ाद्वै त्वरितः सात्यकिः सत्यविक्रमः ||
८ ख
सञ्जय़ उवाच:
शृणु राजन्यदकरोत्तव सैन्येषु वीर्यवान् |
९ क
सञ्जय़ उवाच:
अतीत्य स महाराज द्रोणानीकमहार्णवम् ||
९ ख
सञ्जय़ उवाच:
पराजित्य च संहृष्टः कृतवर्माणमाहवे |
१० क
सञ्जय़ उवाच:
यन्तारमव्रवीच्छूरः शनैर्याहीत्यसम्भ्रमम् ||
१० ख
सञ्जय़ उवाच:
दृष्ट्वा तु तव तत्सैन्यं रथाश्वद्विपसङ्कुलम् |
११ क
सञ्जय़ उवाच:
पदातिजनसम्पूर्णमव्रवीत्सारथिं पुनः ||
११ ख
सञ्जय़ उवाच:
यदेतन्मेघसङ्काशं द्रोणानीकस्य सव्यतः |
१२ क
सञ्जय़ उवाच:
सुमहत्कुञ्जरानीकं यस्य रुक्मरथो मुखम् ||
१२ ख
सञ्जय़ उवाच:
एते हि वहवः सूत दुर्निवार्याश्च संय़ुगे |
१३ क
सञ्जय़ उवाच:
दुर्योधनसमादिष्टा मदर्थे त्यक्तजीविताः |
१३ ख
सञ्जय़ उवाच:
राजपुत्रा महेष्वासाः सर्वे विक्रान्तय़ोधिनः ||
१३ ग
सञ्जय़ उवाच:
त्रिगर्तानां रथोदाराः सुवर्णविकृतध्वजाः |
१४ क
सञ्जय़ उवाच:
मामेवाभिमुखा वीरा योत्स्यमाना व्यवस्थिताः ||
१४ ख
सञ्जय़ उवाच:
अत्र मां प्रापय़ क्षिप्रमश्वांश्चोदय़ सारथे |
१५ क
सञ्जय़ उवाच:
त्रिगर्तैः सह योत्स्यामि भारद्वाजस्य पश्यतः ||
१५ ख
सञ्जय़ उवाच:
ततः प्राय़ाच्छनैः सूतः सात्वतस्य मते स्थितः |
१६ क
सञ्जय़ उवाच:
रथेनादित्यवर्णेन भास्वरेण पताकिना ||
१६ ख
सञ्जय़ उवाच:
तमूहुः सारथेर्वश्या वल्गमाना हय़ोत्तमाः |
१७ क
सञ्जय़ उवाच:
वाय़ुवेगसमाः सङ्ख्ये कुन्देन्दुरजतप्रभाः ||
१७ ख
सञ्जय़ उवाच:
आपतन्तं रथं तं तु शङ्खवर्णैर्हय़ोत्तमैः |
१८ क
सञ्जय़ उवाच:
परिवव्रुस्ततः शूरा गजानीकेन सर्वतः |
१८ ख
सञ्जय़ उवाच:
किरन्तो विविधांस्तीक्ष्णान्साय़काँल्लघुवेधिनः ||
१८ ग
सञ्जय़ उवाच:
सात्वतोऽपि शितैर्वाणैर्गजानीकमय़ोधय़त् |
१९ क
सञ्जय़ उवाच:
पर्वतानिव वर्षेण तपान्ते जलदो महान् ||
१९ ख
सञ्जय़ उवाच:
वज्राशनिसमस्पर्शैर्वध्यमानाः शरैर्गजाः |
२० क
सञ्जय़ उवाच:
प्राद्रवन्रणमुत्सृज्य शिनिवीर्यसमीरितैः ||
२० ख
सञ्जय़ उवाच:
शीर्णदन्ता विरुधिरा भिन्नमस्तकपिण्डकाः |
२१ क
सञ्जय़ उवाच:
विशीर्णकर्णास्यकरा विनिय़न्तृपताकिनः ||
२१ ख
सञ्जय़ उवाच:
सम्भिन्नवर्मघण्टाश्च संनिकृत्तमहाध्वजाः |
२२ क
सञ्जय़ उवाच:
हतारोहा दिशो राजन्भेजिरे भ्रष्टकम्वलाः ||
२२ ख
सञ्जय़ उवाच:
रुवन्तो विविधान्रावाञ्जलदोपमनिस्वनाः |
२३ क
सञ्जय़ उवाच:
नाराचैर्वत्सदन्तैश्च सात्वतेन विदारिताः ||
२३ ख
सञ्जय़ उवाच:
तस्मिन्द्रुते गजानीके जलसन्धो महारथः |
२४ क
सञ्जय़ उवाच:
यत्तः सम्प्रापय़न्नागं रजताश्वरथं प्रति ||
२४ ख
सञ्जय़ उवाच:
रुक्मवर्णकरः शूरस्तपनीय़ाङ्गदः शुचिः |
२५ क
सञ्जय़ उवाच:
कुण्डली मुकुटी शङ्खी रक्तचन्दनरूषितः ||
२५ ख
सञ्जय़ उवाच:
शिरसा धारय़न्दीप्तां तपनीय़मय़ीं स्रजम् |
२६ क
सञ्जय़ उवाच:
उरसा धारय़न्निष्कं कण्ठसूत्रं च भास्वरम् ||
२६ ख
सञ्जय़ उवाच:
चापं च रुक्मविकृतं विधुन्वन्गजमूर्धनि |
२७ क
सञ्जय़ उवाच:
अशोभत महाराज सविद्युदिव तोय़दः ||
२७ ख
सञ्जय़ उवाच:
तमापतन्तं सहसा मागधस्य गजोत्तमम् |
२८ क
सञ्जय़ उवाच:
सात्यकिर्वारय़ामास वेलेवोद्वृत्तमर्णवम् ||
२८ ख
सञ्जय़ उवाच:
नागं निवारितं दृष्ट्वा शैनेय़स्य शरोत्तमैः |
२९ क
सञ्जय़ उवाच:
अक्रुध्यत रणे राजञ्जलसन्धो महावलः ||
२९ ख
सञ्जय़ उवाच:
ततः क्रुद्धो महेष्वासो मार्गणैर्भारसाधनैः |
३० क
सञ्जय़ उवाच:
अविध्यत शिनेः पौत्रं जलसन्धो महोरसि ||
३० ख
सञ्जय़ उवाच:
ततोऽपरेण भल्लेन पीतेन निशितेन च |
३१ क
सञ्जय़ उवाच:
अस्यतो वृष्णिवीरस्य निचकर्त शरासनम् ||
३१ ख
सञ्जय़ उवाच:
सात्यकिं छिन्नधन्वानं प्रहसन्निव भारत |
३२ क
सञ्जय़ उवाच:
अविध्यन्मागधो वीरः पञ्चभिर्निशितैः शरैः ||
३२ ख
सञ्जय़ उवाच:
स विद्धो वहुभिर्वाणैर्जलसन्धेन वीर्यवान् |
३३ क
सञ्जय़ उवाच:
नाकम्पत महावाहुस्तदद्भुतमिवाभवत् ||
३३ ख
सञ्जय़ उवाच:
अचिन्तय़न्वै स शरान्नात्यर्थं सम्भ्रमाद्वली |
३४ क
सञ्जय़ उवाच:
धनुरन्यत्समादाय़ तिष्ठ तिष्ठेत्युवाच ह ||
३४ ख
सञ्जय़ उवाच:
एतावदुक्त्वा शैनेय़ो जलसन्धं महोरसि |
३५ क
सञ्जय़ उवाच:
विव्याध षष्ट्या सुभृशं शराणां प्रहसन्निव ||
३५ ख
सञ्जय़ उवाच:
क्षुरप्रेण च पीतेन मुष्टिदेशे महद्धनुः |
३६ क
सञ्जय़ उवाच:
जलसन्धस्य चिच्छेद विव्याध च त्रिभिः शरैः ||
३६ ख
सञ्जय़ उवाच:
जलसन्धस्तु तत्त्यक्त्वा सशरं वै शरासनम् |
३७ क
सञ्जय़ उवाच:
तोमरं व्यसृजत्तूर्णं सात्यकिं प्रति मारिष ||
३७ ख
सञ्जय़ उवाच:
स निर्भिद्य भुजं सव्यं माधवस्य महारणे |
३८ क
सञ्जय़ उवाच:
अभ्यगाद्धरणीं घोरः श्वसन्निव महोरगः ||
३८ ख
सञ्जय़ उवाच:
निर्भिन्ने तु भुजे सव्ये सात्यकिः सत्यविक्रमः |
३९ क
सञ्जय़ उवाच:
त्रिंशद्भिर्विशिखैस्तीक्ष्णैर्जलसन्धमताडय़त् ||
३९ ख
सञ्जय़ उवाच:
प्रगृह्य तु ततः खड्गं जलसन्धो महावलः |
४० क
सञ्जय़ उवाच:
आर्षभं चर्म च महच्छतचन्द्रमलङ्कृतम् |
४० ख
सञ्जय़ उवाच:
तत आविध्य तं खड्गं सात्वताय़ोत्ससर्ज ह ||
४० ग
सञ्जय़ उवाच:
शैनेय़स्य धनुश्छित्त्वा स खड्गो न्यपतन्महीम् |
४१ क
सञ्जय़ उवाच:
अलातचक्रवच्चैव व्यरोचत महीं गतः ||
४१ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ सर्वकाय़ावदारणम् |
४२ क
सञ्जय़ उवाच:
शालस्कन्धप्रतीकाशमिन्द्राशनिसमस्वनम् |
४२ ख
सञ्जय़ उवाच:
विस्फार्य विव्यधे क्रुद्धो जलसन्धं शरेण ह ||
४२ ग
सञ्जय़ उवाच:
ततः साभरणौ वाहू क्षुराभ्यां माधवोत्तमः |
४३ क
सञ्जय़ उवाच:
साङ्गदौ जलसन्धस्य चिच्छेद प्रहसन्निव ||
४३ ख
सञ्जय़ उवाच:
तौ वाहू परिघप्रख्यौ पेततुर्गजसत्तमात् |
४४ क
सञ्जय़ उवाच:
वसुन्धरधराद्भ्रष्टौ पञ्चशीर्षाविवोरगौ ||
४४ ख
सञ्जय़ उवाच:
ततः सुदंष्ट्रं सुहनु चारुकुण्डलमुन्नसम् |
४५ क
सञ्जय़ उवाच:
क्षुरेणास्य तृतीय़ेन शिरश्चिच्छेद सात्यकिः ||
४५ ख
सञ्जय़ उवाच:
तत्पातितशिरोवाहुकवन्धं भीमदर्शनम् |
४६ क
सञ्जय़ उवाच:
द्विरदं जलसन्धस्य रुधिरेणाभ्यषिञ्चत ||
४६ ख
सञ्जय़ उवाच:
जलसन्धं निहत्याजौ त्वरमाणस्तु सात्वतः |
४७ क
सञ्जय़ उवाच:
नैषादिं पातय़ामास गजस्कन्धाद्विशां पते ||
४७ ख
सञ्जय़ उवाच:
रुधिरेणावसिक्ताङ्गो जलसन्धस्य कुञ्जरः |
४८ क
सञ्जय़ उवाच:
विलम्वमानमवहत्संश्लिष्टं परमासनम् ||
४८ ख