सञ्जय़ उवाच:
ततो द्रोणो राजगृद्धी त्वरितोऽभिय़यौ रणात् |
४८ क
सञ्जय़ उवाच:
तत्रापश्यन्महेष्वासो भारद्वाजः प्रतापवान् |
४८ ख
सञ्जय़ उवाच:
धृष्टद्युम्नं च भीमं च विचरन्तौ महारणे ||
४८ ग
सञ्जय़ उवाच:
मोहाविष्टांश्च ते पुत्रानपश्यत्स महारथः |
४९ क
सञ्जय़ उवाच:
ततः प्रज्ञास्त्रमादाय़ मोहनास्त्रं व्यशातय़त् ||
४९ ख
सञ्जय़ उवाच:
अथ प्रत्यागतप्राणास्तव पुत्रा महारथाः |
५० क
सञ्जय़ उवाच:
पुनर्युद्धाय़ समरे प्रय़युर्भीमपार्षतौ ||
५० ख
सञ्जय़ उवाच:
ततो युधिष्ठिरः प्राह समाहूय़ स्वसैनिकान् |
५१ क
सञ्जय़ उवाच:
गच्छन्तु पदवीं शक्त्या भीमपार्षतय़ोर्युधि ||
५१ ख
सञ्जय़ उवाच:
सौभद्रप्रमुखा वीरा रथा द्वादश दंशिताः |
५२ क
सञ्जय़ उवाच:
प्रवृत्तिमधिगच्छन्तु न हि शुध्यति मे मनः ||
५२ ख
सञ्जय़ उवाच:
त एवं समनुज्ञाताः शूरा विक्रान्तय़ोधिनः |
५३ क
सञ्जय़ उवाच:
वाढमित्येवमुक्त्वा तु सर्वे पुरुषमानिनः |
५३ ख
सञ्जय़ उवाच:
मध्यन्दिनगते सूर्ये प्रय़युः सर्व एव हि ||
५३ ग
सञ्जय़ उवाच:
केकय़ा द्रौपदेय़ाश्च धृष्टकेतुश्च वीर्यवान् |
५४ क
सञ्जय़ उवाच:
अभिमन्युं पुरस्कृत्य महत्या सेनय़ा वृताः ||
५४ ख
सञ्जय़ उवाच:
ते कृत्वा समरे व्यूहं सूचीमुखमरिन्दमाः |
५५ क
सञ्जय़ उवाच:
विभिदुर्धार्तराष्ट्राणां तद्रथानीकमाहवे ||
५५ ख
सञ्जय़ उवाच:
तान्प्रय़ातान्महेष्वासानभिमन्युपुरोगमान् |
५६ क
सञ्जय़ उवाच:
भीमसेनभय़ाविष्टा धृष्टद्युम्नविमोहिता ||
५६ ख
सञ्जय़ उवाच:
न सन्धारय़ितुं शक्ता तव सेना जनाधिप |
५७ क
सञ्जय़ उवाच:
मदमूर्छान्वितात्मानं प्रमदेवाध्वनि स्थिता ||
५७ ख
सञ्जय़ उवाच:
तेऽभिय़ाता महेष्वासाः सुवर्णविकृतध्वजाः |
५८ क
सञ्जय़ उवाच:
परीप्सन्तोऽभ्यधावन्त धृष्टद्युम्नवृकोदरौ ||
५८ ख
सञ्जय़ उवाच:
तौ च दृष्ट्वा महेष्वासानभिमन्युपुरोगमान् |
५९ क
सञ्जय़ उवाच:
वभूवतुर्मुदा युक्तौ निघ्नन्तौ तव वाहिनीम् ||
५९ ख
सञ्जय़ उवाच:
दृष्ट्वा च सहसाय़ान्तं पाञ्चाल्यो गुरुमात्मनः |
६० क
सञ्जय़ उवाच:
नाशंसत वधं वीरः पुत्राणां तव पार्षतः ||
६० ख
सञ्जय़ उवाच:
ततो रथं समारोप्य केकय़स्य वृकोदरम् |
६१ क
सञ्जय़ उवाच:
अभ्यधावत्सुसङ्क्रुद्धो द्रोणमिष्वस्त्रपारगम् ||
६१ ख
सञ्जय़ उवाच:
तस्याभिपततस्तूर्णं भारद्वाजः प्रतापवान् |
६२ क
सञ्जय़ उवाच:
क्रुद्धश्चिच्छेद भल्लेन धनुः शत्रुनिषूदनः ||
६२ ख
सञ्जय़ उवाच:
अन्यांश्च शतशो वाणान्प्रेषय़ामास पार्षते |
६३ क
सञ्जय़ उवाच:
दुर्योधनहितार्थाय़ भर्तृपिण्डमनुस्मरन् ||
६३ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ पार्षतः परवीरहा |
६४ क
सञ्जय़ उवाच:
द्रोणं विव्याध सप्तत्या रुक्मपुङ्खैः शिलाशितैः ||
६४ ख
सञ्जय़ उवाच:
तस्य द्रोणः पुनश्चापं चिच्छेदामित्रकर्शनः |
६५ क
सञ्जय़ उवाच:
हय़ांश्च चतुरस्तूर्णं चतुर्भिः साय़कोत्तमैः ||
६५ ख
सञ्जय़ उवाच:
वैवस्वतक्षय़ं घोरं प्रेषय़ामास वीर्यवान् |
६६ क
सञ्जय़ उवाच:
सारथिं चास्य भल्लेन प्रेषय़ामास मृत्यवे ||
६६ ख
सञ्जय़ उवाच:
हताश्वात्स रथात्तूर्णमवप्लुत्य महारथः |
६७ क
सञ्जय़ उवाच:
आरुरोह महावाहुरभिमन्योर्महारथम् ||
६७ ख
सञ्जय़ उवाच:
ततः सरथनागाश्वा समकम्पत वाहिनी |
६८ क
सञ्जय़ उवाच:
पश्यतो भीमसेनस्य पार्षतस्य च पश्यतः ||
६८ ख
सञ्जय़ उवाच:
तत्प्रभग्नं वलं दृष्ट्वा द्रोणेनामिततेजसा |
६९ क
सञ्जय़ उवाच:
नाशक्नुवन्वारय़ितुं समस्तास्ते महारथाः ||
६९ ख
सञ्जय़ उवाच:
वध्यमानं तु तत्सैन्यं द्रोणेन निशितैः शरैः |
७० क
सञ्जय़ उवाच:
व्यभ्रमत्तत्र तत्रैव क्षोभ्यमाण इवार्णवः ||
७० ख
सञ्जय़ उवाच:
तथा दृष्ट्वा च तत्सैन्यं जहृषे च वलं तव |
७१ क
सञ्जय़ उवाच:
दृष्ट्वाचार्यं च सङ्क्रुद्धं दहन्तं रिपुवाहिनीम् |
७१ ख
सञ्जय़ उवाच:
चुक्रुशुः सर्वतो योधाः साधु साध्विति भारत ||
७१ ग