chevron_left अनुशासन पर्व अध्याय ७३
इन्द्र उवाच:
जानन्यो गामपहरेद्विक्रीय़ाद्वार्थकारणात् |
१ क
इन्द्र उवाच:
एतद्विज्ञातुमिच्छामि का नु तस्य गतिर्भवेत् ||
१ ख
व्रह्मो उवाच:
भक्षार्थं विक्रय़ार्थं वा येऽपहारं हि कुर्वते |
२ क
व्रह्मो उवाच:
दानार्थं वा व्राह्मणाय़ तत्रेदं श्रूय़तां फलम् ||
२ ख
व्रह्मो उवाच:
विक्रय़ार्थं हि यो हिंस्याद्भक्षय़ेद्वा निरङ्कुशः |
३ क
व्रह्मो उवाच:
घातय़ानं हि पुरुषं येऽनुमन्येय़ुरर्थिनः ||
३ ख
व्रह्मो उवाच:
घातकः खादको वापि तथा यश्चानुमन्यते |
४ क
व्रह्मो उवाच:
यावन्ति तस्या लोमानि तावद्वर्षाणि मज्जति ||
४ ख
व्रह्मो उवाच:
ये दोषा यादृशाश्चैव द्विजय़ज्ञोपघातके |
५ क
व्रह्मो उवाच:
विक्रय़े चापहारे च ते दोषा वै स्मृताः प्रभो ||
५ ख
व्रह्मो उवाच:
अपहृत्य तु यो गां वै व्राह्मणाय़ प्रय़च्छति |
६ क
व्रह्मो उवाच:
यावद्दाने फलं तस्यास्तावन्निरय़मृच्छति ||
६ ख
व्रह्मो उवाच:
सुवर्णं दक्षिणामाहुर्गोप्रदाने महाद्युते |
७ क
व्रह्मो उवाच:
सुवर्णं परमं ह्युक्तं दक्षिणार्थमसंशय़म् ||
७ ख
व्रह्मो उवाच:
गोप्रदानं तारय़ते सप्त पूर्वांस्तथा परान् |
८ क
व्रह्मो उवाच:
सुवर्णं दक्षिणां दत्त्वा तावद्द्विगुणमुच्यते ||
८ ख
व्रह्मो उवाच:
सुवर्णं परमं दानं सुवर्णं दक्षिणा परा |
९ क
व्रह्मो उवाच:
सुवर्णं पावनं शक्र पावनानां परं स्मृतम् ||
९ ख
व्रह्मो उवाच:
कुलानां पावनं प्राहुर्जातरूपं शतक्रतो |
१० क
व्रह्मो उवाच:
एषा मे दक्षिणा प्रोक्ता समासेन महाद्युते ||
१० ख
भीष्म उवाच:
एतत्पितामहेनोक्तमिन्द्राय़ भरतर्षभ |
११ क
भीष्म उवाच:
इन्द्रो दशरथाय़ाह रामाय़ाह पिता तथा ||
११ ख
भीष्म उवाच:
राघवोऽपि प्रिय़भ्रात्रे लक्ष्मणाय़ यशस्विने |
१२ क
भीष्म उवाच:
ऋषिभ्यो लक्ष्मणेनोक्तमरण्ये वसता विभो ||
१२ ख
भीष्म उवाच:
पारम्पर्यागतं चेदमृषय़ः संशितव्रताः |
१३ क
भीष्म उवाच:
दुर्धरं धारय़ामासू राजानश्चैव धार्मिकाः |
१३ ख
भीष्म उवाच:
उपाध्याय़ेन गदितं मम चेदं युधिष्ठिर ||
१३ ग
भीष्म उवाच:
य इदं व्राह्मणो नित्यं वदेद्व्राह्मणसंसदि |
१४ क
भीष्म उवाच:
यज्ञेषु गोप्रदानेषु द्वय़ोरपि समागमे ||
१४ ख
भीष्म उवाच:
तस्य लोकाः किलाक्षय़्या दैवतैः सह नित्यदा |
१५ क
भीष्म उवाच:
इति व्रह्मा स भगवानुवाच परमेश्वरः ||
१५ ख