वृहदश्व उवाच:
दमय़न्ती तु तच्छ्रुत्वा भृशं शोकपराय़णा |
१ क
वृहदश्व उवाच:
शङ्कमाना नलं तं वै केशिनीमिदमव्रवीत् ||
१ ख
वृहदश्व उवाच:
गच्छ केशिनि भूय़स्त्वं परीक्षां कुरु वाहुके |
२ क
वृहदश्व उवाच:
आव्रुवाणा समीपस्था चरितान्यस्य लक्षय़ ||
२ ख
वृहदश्व उवाच:
यदा च किञ्चित्कुर्यात्स कारणं तत्र भामिनि |
३ क
वृहदश्व उवाच:
तत्र सञ्चेष्टमानस्य संलक्ष्यं ते विचेष्टितम् ||
३ ख
वृहदश्व उवाच:
न चास्य प्रतिवन्धेन देय़ोऽग्निरपि भामिनि |
४ क
वृहदश्व उवाच:
याचते न जलं देय़ं सम्यगत्वरमाणय़ा ||
४ ख
वृहदश्व उवाच:
एतत्सर्वं समीक्ष्य त्वं चरितं मे निवेदय़ |
५ क
वृहदश्व उवाच:
यच्चान्यदपि पश्येथास्तच्चाख्येय़ं त्वय़ा मम ||
५ ख
वृहदश्व उवाच:
दमय़न्त्यैवमुक्ता सा जगामाथाशु केशिनी |
६ क
वृहदश्व उवाच:
निशाम्य च हय़ज्ञस्य लिङ्गानि पुनरागमत् ||
६ ख
वृहदश्व उवाच:
सा तत्सर्वं यथावृत्तं दमय़न्त्यै न्यवेदय़त् |
७ क
वृहदश्व उवाच:
निमित्तं यत्तदा दृष्टं वाहुके दिव्यमानुषम् ||
७ ख
केशिन्यु उवाच:
दृढं शुच्युपचारोऽसौ न मय़ा मानुषः क्वचित् |
८ क
केशिन्यु उवाच:
दृष्टपूर्वः श्रुतो वापि दमय़न्ति तथाविधः ||
८ ख
केशिन्यु उवाच:
ह्रस्वमासाद्य सञ्चारं नासौ विनमते क्वचित् |
९ क
केशिन्यु उवाच:
तं तु दृष्ट्वा यथासङ्गमुत्सर्पति यथासुखम् |
९ ख
केशिन्यु उवाच:
सङ्कटेऽप्यस्य सुमहद्विवरं जाय़तेऽधिकम् ||
९ ग
केशिन्यु उवाच:
ऋतुपर्णस्य चार्थाय़ भोजनीय़मनेकशः |
१० क
केशिन्यु उवाच:
प्रेषितं तत्र राज्ञा च मांसं सुवहु पाशवम् ||
१० ख
केशिन्यु उवाच:
तस्य प्रक्षालनार्थाय़ कुम्भस्तत्रोपकल्पितः |
११ क
केशिन्यु उवाच:
स तेनावेक्षितः कुम्भः पूर्ण एवाभवत्तदा ||
११ ख
केशिन्यु उवाच:
ततः प्रक्षालनं कृत्वा समधिश्रित्य वाहुकः |
१२ क
केशिन्यु उवाच:
तृणमुष्टिं समादाय़ आविध्यैनं समादधत् ||
१२ ख
केशिन्यु उवाच:
अथ प्रज्वलितस्तत्र सहसा हव्यवाहनः |
१३ क
केशिन्यु उवाच:
तदद्भुततमं दृष्ट्वा विस्मिताहमिहागता ||
१३ ख
केशिन्यु उवाच:
अन्यच्च तस्मिन्सुमहदाश्चर्यं लक्षितं मय़ा |
१४ क
केशिन्यु उवाच:
यदग्निमपि संस्पृश्य नैव दह्यत्यसौ शुभे ||
१४ ख
केशिन्यु उवाच:
छन्देन चोदकं तस्य वहत्यावर्जितं द्रुतम् |
१५ क
केशिन्यु उवाच:
अतीव चान्यत्सुमहदाश्चर्यं दृष्टवत्यहम् ||
१५ ख
केशिन्यु उवाच:
यत्स पुष्पाण्युपादाय़ हस्ताभ्यां ममृदे शनैः |
१६ क
केशिन्यु उवाच:
मृद्यमानानि पाणिभ्यां तेन पुष्पाणि तान्यथ ||
१६ ख
केशिन्यु उवाच:
भूय़ एव सुगन्धीनि हृषितानि भवन्ति च |
१७ क
केशिन्यु उवाच:
एतान्यद्भुतकल्पानि दृष्ट्वाहं द्रुतमागता ||
१७ ख
वृहदश्व उवाच:
दमय़न्ती तु तच्छ्रुत्वा पुण्यश्लोकस्य चेष्टितम् |
१८ क
वृहदश्व उवाच:
अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम् ||
१८ ख
वृहदश्व उवाच:
सा शङ्कमाना भर्तारं नलं वाहुकरूपिणम् |
१९ क
वृहदश्व उवाच:
केशिनीं श्लक्ष्णय़ा वाचा रुदती पुनरव्रवीत् ||
१९ ख
वृहदश्व उवाच:
पुनर्गच्छ प्रमत्तस्य वाहुकस्योपसंस्कृतम् |
२० क
वृहदश्व उवाच:
महानसाच्छृतं मांसं समादाय़ैहि भामिनि ||
२० ख
वृहदश्व उवाच:
सा गत्वा वाहुके व्यग्रे तन्मांसमपकृष्य च |
२१ क
वृहदश्व उवाच:
अत्युष्णमेव त्वरिता तत्क्षणं प्रिय़कारिणी |
२१ ख
वृहदश्व उवाच:
दमय़न्त्यै ततः प्रादात्केशिनी कुरुनन्दन ||
२१ ग
वृहदश्व उवाच:
सोचिता नलसिद्धस्य मांसस्य वहुशः पुरा |
२२ क
वृहदश्व उवाच:
प्राश्य मत्वा नलं सूदं प्राक्रोशद्भृशदुःखिता ||
२२ ख
वृहदश्व उवाच:
वैक्लव्यं च परं गत्वा प्रक्षाल्य च मुखं ततः |
२३ क
वृहदश्व उवाच:
मिथुनं प्रेषय़ामास केशिन्या सह भारत ||
२३ ख
वृहदश्व उवाच:
इन्द्रसेनां सह भ्रात्रा समभिज्ञाय़ वाहुकः |
२४ क
वृहदश्व उवाच:
अभिद्रुत्य ततो राजा परिष्वज्याङ्कमानय़त् ||
२४ ख
वृहदश्व उवाच:
वाहुकस्तु समासाद्य सुतौ सुरसुतोपमौ |
२५ क
वृहदश्व उवाच:
भृशं दुःखपरीतात्मा सस्वरं प्ररुदोद ह ||
२५ ख
वृहदश्व उवाच:
नैषधो दर्शय़ित्वा तु विकारमसकृत्तदा |
२६ क
वृहदश्व उवाच:
उत्सृज्य सहसा पुत्रौ केशिनीमिदमव्रवीत् ||
२६ ख
वृहदश्व उवाच:
इदं सुसदृशं भद्रे मिथुनं मम पुत्रय़ोः |
२७ क
वृहदश्व उवाच:
ततो दृष्ट्वैव सहसा वाष्पमुत्सृष्टवानहम् ||
२७ ख
वृहदश्व उवाच:
वहुशः सम्पतन्तीं त्वां जनः शङ्केत दोषतः |
२८ क
वृहदश्व उवाच:
वय़ं च देशातिथय़ो गच्छ भद्रे नमोऽस्तु ते ||
२८ ख