chevron_left भीष्म पर्व अध्याय ७३
सञ्जय़ उवाच:
आत्मदोषात्त्वय़ा राजन्प्राप्तं व्यसनमीदृशम् |
१ क
सञ्जय़ उवाच:
न हि दुर्योधनस्तानि पश्यते भरतर्षभ |
१ ख
सञ्जय़ उवाच:
यानि त्वं दृष्टवान्राजन्धर्मसङ्करकारिते ||
१ ग
सञ्जय़ उवाच:
तव दोषात्पुरा वृत्तं द्यूतमेतद्विशां पते |
२ क
सञ्जय़ उवाच:
तव दोषेण युद्धं च प्रवृत्तं सह पाण्डवैः |
२ ख
सञ्जय़ उवाच:
त्वमेवाद्य फलं भुङ्क्ष्व कृत्वा किल्विषमात्मना ||
२ ग
सञ्जय़ उवाच:
आत्मना हि कृतं कर्म आत्मनैवोपभुज्यते |
३ क
सञ्जय़ उवाच:
इह वा प्रेत्य वा राजंस्त्वय़ा प्राप्तं यथातथम् ||
३ ख
सञ्जय़ उवाच:
तस्माद्राजन्स्थिरो भूत्वा प्राप्येदं व्यसनं महत् |
४ क
सञ्जय़ उवाच:
शृणु युद्धं यथावृत्तं शंसतो मम मारिष ||
४ ख
सञ्जय़ उवाच:
भीमसेनस्तु निशितैर्वाणैर्भित्त्वा महाचमूम् |
५ क
सञ्जय़ उवाच:
आससाद ततो वीरः सर्वान्दुर्योधनानुजान् ||
५ ख
सञ्जय़ उवाच:
दुःशासनं दुर्विषहं दुःसहं दुर्मदं जय़म् |
६ क
सञ्जय़ उवाच:
जय़त्सेनं विकर्णं च चित्रसेनं सुदर्शनम् ||
६ ख
सञ्जय़ उवाच:
चारुचित्रं सुवर्माणं दुष्कर्णं कर्णमेव च |
७ क
सञ्जय़ उवाच:
एतानन्यांश्च सुवहून्समीपस्थान्महारथान् ||
७ ख
सञ्जय़ उवाच:
धार्तराष्ट्रान्सुसङ्क्रुद्धान्दृष्ट्वा भीमो महावलः |
८ क
सञ्जय़ उवाच:
भीष्मेण समरे गुप्तां प्रविवेश महाचमूम् ||
८ ख
सञ्जय़ उवाच:
अथाह्वय़न्त तेऽन्योन्यमय़ं प्राप्तो वृकोदरः |
९ क
सञ्जय़ उवाच:
जीवग्राहं निगृह्णीमो वय़मेनं नराधिपाः ||
९ ख
सञ्जय़ उवाच:
स तैः परिवृतः पार्थो भ्रातृभिः कृतनिश्चय़ैः |
१० क
सञ्जय़ उवाच:
प्रजासंहरणे सूर्यः क्रूरैरिव महाग्रहैः ||
१० ख
सञ्जय़ उवाच:
सम्प्राप्य मध्यं व्यूहस्य न भीः पाण्डवमाविशत् |
११ क
सञ्जय़ उवाच:
यथा देवासुरे युद्धे महेन्द्रः प्राप्य दानवान् ||
११ ख
सञ्जय़ उवाच:
ततः शतसहस्राणि रथिनां सर्वशः प्रभो |
१२ क
सञ्जय़ उवाच:
छादय़ानं शरैर्घोरैस्तमेकमनुवव्रिरे ||
१२ ख
सञ्जय़ उवाच:
स तेषां प्रवरान्योधान्हस्त्यश्वरथसादिनः |
१३ क
सञ्जय़ उवाच:
जघान समरे शूरो धार्तराष्ट्रानचिन्तय़न् ||
१३ ख
सञ्जय़ उवाच:
तेषां व्यवसितं ज्ञात्वा भीमसेनो जिघृक्षताम् |
१४ क
सञ्जय़ उवाच:
समस्तानां वधे राजन्मतिं चक्रे महामनाः ||
१४ ख
सञ्जय़ उवाच:
ततो रथं समुत्सृज्य गदामादाय़ पाण्डवः |
१५ क
सञ्जय़ उवाच:
जघान धार्तराष्ट्राणां तं वलौघमहार्णवम् ||
१५ ख
सञ्जय़ उवाच:
भीमसेने प्रविष्टे तु धृष्टद्युम्नोऽपि पार्षतः |
१६ क
सञ्जय़ उवाच:
द्रोणमुत्सृज्य तरसा प्रय़यौ यत्र सौवलः ||
१६ ख
सञ्जय़ उवाच:
विदार्य महतीं सेनां तावकानां नरर्षभः |
१७ क
सञ्जय़ उवाच:
आससाद रथं शून्यं भीमसेनस्य संय़ुगे ||
१७ ख
सञ्जय़ उवाच:
दृष्ट्वा विशोकं समरे भीमसेनस्य सारथिम् |
१८ क
सञ्जय़ उवाच:
धृष्टद्युम्नो महाराज दुर्मना गतचेतनः ||
१८ ख
सञ्जय़ उवाच:
अपृच्छद्वाष्पसंरुद्धो निस्वनां वाचमीरय़न् |
१९ क
सञ्जय़ उवाच:
मम प्राणैः प्रिय़तमः क्व भीम इति दुःखितः ||
१९ ख
सञ्जय़ उवाच:
विशोकस्तमुवाचेदं धृष्टद्युम्नं कृताञ्जलिः |
२० क
सञ्जय़ उवाच:
संस्थाप्य मामिह वली पाण्डवेय़ः प्रतापवान् ||
२० ख
सञ्जय़ उवाच:
प्रविष्टो धार्तराष्ट्राणामेतद्वलमहार्णवम् |
२१ क
सञ्जय़ उवाच:
मामुक्त्वा पुरुषव्याघ्र प्रीतिय़ुक्तमिदं वचः ||
२१ ख
सञ्जय़ उवाच:
प्रतिपालय़ मां सूत निय़म्याश्वान्मुहूर्तकम् |
२२ क
सञ्जय़ उवाच:
यावदेतान्निहन्म्याशु य इमे मद्वधोद्यताः ||
२२ ख
सञ्जय़ उवाच:
ततो दृष्ट्वा गदाहस्तं प्रधावन्तं महावलम् |
२३ क
सञ्जय़ उवाच:
सर्वेषामेव सैन्यानां सङ्घर्षः समजाय़त ||
२३ ख
सञ्जय़ उवाच:
तस्मिंस्तु तुमुले युद्धे वर्तमाने भय़ानके |
२४ क
सञ्जय़ उवाच:
भित्त्वा राजन्महाव्यूहं प्रविवेश सखा तव ||
२४ ख
सञ्जय़ उवाच:
विशोकस्य वचः श्रुत्वा धृष्टद्युम्नोऽपि पार्षतः |
२५ क
सञ्जय़ उवाच:
प्रत्युवाच ततः सूतं रणमध्ये महावलः ||
२५ ख
सञ्जय़ उवाच:
न हि मे विद्यते सूत जीवितेऽद्य प्रय़ोजनम् |
२६ क
सञ्जय़ उवाच:
भीमसेनं रणे हित्वा स्नेहमुत्सृज्य पाण्डवैः ||
२६ ख
सञ्जय़ उवाच:
यदि यामि विना भीमं किं मां क्षत्रं वदिष्यति |
२७ क
सञ्जय़ उवाच:
एकाय़नगते भीमे मय़ि चावस्थिते युधि ||
२७ ख
सञ्जय़ उवाच:
अस्वस्ति तस्य कुर्वन्ति देवाः साग्निपुरोगमाः |
२८ क
सञ्जय़ उवाच:
यः सहाय़ान्परित्यज्य स्वस्तिमानाव्रजेद्गृहान् ||
२८ ख
सञ्जय़ उवाच:
मम भीमः सखा चैव सम्वन्धी च महावलः |
२९ क
सञ्जय़ उवाच:
भक्तोऽस्मान्भक्तिमांश्चाहं तमप्यरिनिषूदनम् ||
२९ ख
सञ्जय़ उवाच:
सोऽहं तत्र गमिष्यामि यत्र यातो वृकोदरः |
३० क
सञ्जय़ उवाच:
निघ्नन्तं मामरीन्पश्य दानवानिव वासवम् ||
३० ख
सञ्जय़ उवाच:
एवमुक्त्वा ततो वीरो यय़ौ मध्येन भारतीम् |
३१ क
सञ्जय़ उवाच:
भीमसेनस्य मार्गेषु गदाप्रमथितैर्गजैः ||
३१ ख
सञ्जय़ उवाच:
स ददर्श ततो भीमं दहन्तं रिपुवाहिनीम् |
३२ क
सञ्जय़ उवाच:
वातं वृक्षानिव वलात्प्रभञ्जन्तं रणे नृपान् ||
३२ ख
सञ्जय़ उवाच:
ते हन्यमानाः समरे रथिनः सादिनस्तथा |
३३ क
सञ्जय़ उवाच:
पादाता दन्तिनश्चैव चक्रुरार्तस्वरं महत् ||
३३ ख
सञ्जय़ उवाच:
हाहाकारश्च सञ्जज्ञे तव सैन्यस्य मारिष |
३४ क
सञ्जय़ उवाच:
वध्यतो भीमसेनेन कृतिना चित्रय़ोधिना ||
३४ ख
सञ्जय़ उवाच:
ततः कृतास्त्रास्ते सर्वे परिवार्य वृकोदरम् |
३५ क
सञ्जय़ उवाच:
अभीताः समवर्तन्त शस्त्रवृष्ट्या समन्ततः ||
३५ ख
सञ्जय़ उवाच:
अभिद्रुतं शस्त्रभृतां वरिष्ठं; समन्ततः पाण्डवं लोकवीरैः |
३६ क
सञ्जय़ उवाच:
सैन्येन घोरेण सुसङ्गतेन; दृष्ट्वा वली पार्षतो भीमसेनम् ||
३६ ख
सञ्जय़ उवाच:
अथोपगच्छच्छरविक्षताङ्गं; पदातिनं क्रोधविषं वमन्तम् |
३७ क
सञ्जय़ उवाच:
आश्वासय़न्पार्षतो भीमसेनं; गदाहस्तं कालमिवान्तकाले ||
३७ ख
सञ्जय़ उवाच:
निःशल्यमेनं च चकार तूर्ण; मारोपय़च्चात्मरथं महात्मा |
३८ क
सञ्जय़ उवाच:
भृशं परिष्वज्य च भीमसेन; माश्वासय़ामास च शत्रुमध्ये ||
३८ ख
सञ्जय़ उवाच:
भ्रातॄनथोपेत्य तवापि पुत्र; स्तस्मिन्विमर्दे महति प्रवृत्ते |
३९ क
सञ्जय़ उवाच:
अय़ं दुरात्मा द्रुपदस्य पुत्रः; समागतो भीमसेनेन सार्धम् |
३९ ख
सञ्जय़ उवाच:
तं यात सर्वे सहिता निहन्तुं; मा वो रिपुः प्रार्थय़तामनीकम् ||
३९ ग
सञ्जय़ उवाच:
श्रुत्वा तु वाक्यं तममृष्यमाणा; ज्येष्ठाज्ञय़ा चोदिता धार्तराष्ट्राः |
४० क
सञ्जय़ उवाच:
वधाय़ निष्पेतुरुदाय़ुधास्ते; युगक्षय़े केतवो यद्वदुग्राः ||
४० ख
सञ्जय़ उवाच:
प्रगृह्य चित्राणि धनूंषि वीरा; ज्यानेमिघोषैः प्रविकम्पय़न्तः |
४१ क
सञ्जय़ उवाच:
शरैरवर्षन्द्रुपदस्य पुत्रं; यथाम्वुदा भूधरं वारिजालैः |
४१ ख
सञ्जय़ उवाच:
निहत्य तांश्चापि शरैः सुतीक्ष्णै; र्न विव्यथे समरे चित्रय़ोधी ||
४१ ग
सञ्जय़ उवाच:
समभ्युदीर्णांश्च तवात्मजांस्तथा; निशाम्य वीरानभितः स्थितान्रणे |
४२ क
सञ्जय़ उवाच:
जिघांसुरुग्रं द्रुपदात्मजो युवा; प्रमोहनास्त्रं युय़ुजे महारथः |
४२ ख
सञ्जय़ उवाच:
क्रुद्धो भृशं तव पुत्रेषु राज; न्दैत्येषु यद्वत्समरे महेन्द्रः ||
४२ ग
सञ्जय़ उवाच:
ततो व्यमुह्यन्त रणे नृवीराः; प्रमोहनास्त्राहतवुद्धिसत्त्वाः |
४३ क
सञ्जय़ उवाच:
प्रदुद्रुवुः कुरवश्चैव सर्वे; सवाजिनागाः सरथाः समन्तात् |
४३ ख
सञ्जय़ उवाच:
परीतकालानिव नष्टसञ्ज्ञा; न्मोहोपेतांस्तव पुत्रान्निशम्य ||
४३ ग
सञ्जय़ उवाच:
एतस्मिन्नेव काले तु द्रोणः शस्त्रभृतां वरः |
४४ क
सञ्जय़ उवाच:
द्रुपदं त्रिभिरासाद्य शरैर्विव्याध दारुणैः ||
४४ ख
सञ्जय़ उवाच:
सोऽतिविद्धस्तदा राजन्रणे द्रोणेन पार्थिवः |
४५ क
सञ्जय़ उवाच:
अपाय़ाद्द्रुपदो राजन्पूर्ववैरमनुस्मरन् ||
४५ ख
सञ्जय़ उवाच:
जित्वा तु द्रुपदं द्रोणः शङ्खं दध्मौ प्रतापवान् |
४६ क
सञ्जय़ उवाच:
तस्य शङ्खस्वनं श्रुत्वा वित्रेसुः सर्वसोमकाः ||
४६ ख
सञ्जय़ उवाच:
अथ शुश्राव तेजस्वी द्रोणः शस्त्रभृतां वरः |
४७ क
सञ्जय़ उवाच:
प्रमोहनास्त्रेण रणे मोहितानात्मजांस्तव ||
४७ ख