chevron_left द्रोण पर्व अध्याय ७३
धृतराष्ट्र उवाच:
वाणे तस्मिन्निकृत्ते तु धृष्टद्युम्ने च मोक्षिते |
१ क
धृतराष्ट्र उवाच:
तेन वृष्णिप्रवीरेण युय़ुधानेन सञ्जय़ ||
१ ख
धृतराष्ट्र उवाच:
अमर्षितो महेष्वासः सर्वशस्त्रभृतां वरः |
२ क
धृतराष्ट्र उवाच:
नरव्याघ्रः शिनेः पौत्रे द्रोणः किमकरोद्युधि ||
२ ख
सञ्जय़ उवाच:
सम्प्रद्रुतः क्रोधविषो व्यादितास्यशरासनः |
३ क
सञ्जय़ उवाच:
तीक्ष्णधारेषुदशनः शितनाराचदंष्ट्रवान् ||
३ ख
सञ्जय़ उवाच:
संरम्भामर्षताम्राक्षो महाहिरिव निःश्वसन् |
४ क
सञ्जय़ उवाच:
नरवीरप्रमुदितैः शोणैरश्वैर्महाजवैः ||
४ ख
सञ्जय़ उवाच:
उत्पतद्भिरिवाकाशं क्रमद्भिरिव सर्वतः |
५ क
सञ्जय़ उवाच:
रुक्मपुङ्खाञ्शरानस्यन्युय़ुधानमुपाद्रवत् ||
५ ख
सञ्जय़ उवाच:
शरपातमहावर्षं रथघोषवलाहकम् |
६ क
सञ्जय़ उवाच:
कार्मुकाकर्षविक्षिप्तं नाराचवहुविद्युतम् ||
६ ख
सञ्जय़ उवाच:
शक्तिखड्गाशनिधरं क्रोधवेगसमुत्थितम् |
७ क
सञ्जय़ उवाच:
द्रोणमेघमनावार्यं हय़मारुतचोदितम् ||
७ ख
सञ्जय़ उवाच:
दृष्ट्वैवाभिपतन्तं तं शूरः परपुरञ्जय़ः |
८ क
सञ्जय़ उवाच:
उवाच सूतं शैनेय़ः प्रहसन्युद्धदुर्मदः ||
८ ख
सञ्जय़ उवाच:
एतं वै व्राह्मणं क्रूरं स्वकर्मण्यनवस्थितम् |
९ क
सञ्जय़ उवाच:
आश्रय़ं धार्तराष्ट्रस्य राज्ञो दुःखभय़ावहम् ||
९ ख
सञ्जय़ उवाच:
शीघ्रं प्रजवितैरश्वैः प्रत्युद्याहि प्रहृष्टवत् |
१० क
सञ्जय़ उवाच:
आचार्यं राजपुत्राणां सततं शूरमानिनम् ||
१० ख
सञ्जय़ उवाच:
ततो रजतसङ्काशा माधवस्य हय़ोत्तमाः |
११ क
सञ्जय़ उवाच:
द्रोणस्याभिमुखाः शीघ्रमगच्छन्वातरंहसः ||
११ ख
सञ्जय़ उवाच:
इषुजालावृतं घोरमन्धकारमनन्तरम् |
१२ क
सञ्जय़ उवाच:
अनाधृष्यमिवान्येषां शूराणामभवत्तदा ||
१२ ख
सञ्जय़ उवाच:
ततः शीघ्रास्त्रविदुषोर्द्रोणसात्वतय़ोस्तदा |
१३ क
सञ्जय़ उवाच:
नान्तरं शरवृष्टीनां दृश्यते नरसिंहय़ोः ||
१३ ख
सञ्जय़ उवाच:
इषूणां संनिपातेन शव्दो धाराभिघातजः |
१४ क
सञ्जय़ उवाच:
शुश्रुवे शक्रमुक्तानामशनीनामिव स्वनः ||
१४ ख
सञ्जय़ उवाच:
नाराचैरतिविद्धानां शराणां रूपमावभौ |
१५ क
सञ्जय़ उवाच:
आशीविषविदष्टानां सर्पाणामिव भारत ||
१५ ख
सञ्जय़ उवाच:
तय़ोर्ज्यातलनिर्घोषो व्यश्रूय़त सुदारुणः |
१६ क
सञ्जय़ उवाच:
अजस्रं शैलशृङ्गाणां वज्रेणाहन्यतामिव ||
१६ ख
सञ्जय़ उवाच:
उभय़ोस्तौ रथौ राजंस्ते चाश्वास्तौ च सारथी |
१७ क
सञ्जय़ उवाच:
रुक्मपुङ्खैः शरैश्छन्नाश्चित्ररूपा वभुस्तदा ||
१७ ख
सञ्जय़ उवाच:
निर्मलानामजिह्मानां नाराचानां विशां पते |
१८ क
सञ्जय़ उवाच:
निर्मुक्ताशीविषाभानां सम्पातोऽभूत्सुदारुणः ||
१८ ख
सञ्जय़ उवाच:
उभय़ोः पतिते छत्रे तथैव पतितौ ध्वजौ |
१९ क
सञ्जय़ उवाच:
उभौ रुधिरसिक्ताङ्गावुभौ च विजय़ैषिणौ ||
१९ ख
सञ्जय़ उवाच:
स्रवद्भिः शोणितं गात्रैः प्रस्रुताविव वारणौ |
२० क
सञ्जय़ उवाच:
अन्योन्यमभिविध्येतां जीवितान्तकरैः शरैः ||
२० ख
सञ्जय़ उवाच:
गर्जितोत्क्रुष्टसंनादाः शङ्खदुन्दुभिनिस्वनाः |
२१ क
सञ्जय़ उवाच:
उपारमन्महाराज व्याजहार न कश्चन ||
२१ ख
सञ्जय़ उवाच:
तूष्णीम्भूतान्यनीकानि योधा युद्धादुपारमन् |
२२ क
सञ्जय़ उवाच:
ददृशे द्वैरथं ताभ्यां जातकौतूहलो जनः ||
२२ ख
सञ्जय़ उवाच:
रथिनो हस्तिय़न्तारो हय़ारोहाः पदातय़ः |
२३ क
सञ्जय़ उवाच:
अवैक्षन्ताचलैर्नेत्रैः परिवार्य रथर्षभौ ||
२३ ख
सञ्जय़ उवाच:
हस्त्यनीकान्यतिष्ठन्त तथानीकानि वाजिनाम् |
२४ क
सञ्जय़ उवाच:
तथैव रथवाहिन्यः प्रतिव्यूह्य व्यवस्थिताः ||
२४ ख
सञ्जय़ उवाच:
मुक्ताविद्रुमचित्रैश्च मणिकाञ्चनभूषितैः |
२५ क
सञ्जय़ उवाच:
ध्वजैराभरणैश्चित्रैः कवचैश्च हिरण्मय़ैः ||
२५ ख
सञ्जय़ उवाच:
वैजय़न्तीपताकाभिः परिस्तोमाङ्गकम्वलैः |
२६ क
सञ्जय़ उवाच:
विमलैर्निशितैः शस्त्रैर्हय़ानां च प्रकीर्णकैः ||
२६ ख
सञ्जय़ उवाच:
जातरूपमय़ीभिश्च राजतीभिश्च मूर्धसु |
२७ क
सञ्जय़ उवाच:
गजानां कुम्भमालाभिर्दन्तवेष्टैश्च भारत ||
२७ ख
सञ्जय़ उवाच:
सवलाकाः सखद्योताः सैरावतशतह्रदाः |
२८ क
सञ्जय़ उवाच:
अदृश्यन्तोष्णपर्याय़े मेघानामिव वागुराः ||
२८ ख
सञ्जय़ उवाच:
अपश्यन्नस्मदीय़ाश्च ते च यौधिष्ठिराः स्थिताः |
२९ क
सञ्जय़ उवाच:
तद्युद्धं युय़ुधानस्य द्रोणस्य च महात्मनः ||
२९ ख
सञ्जय़ उवाच:
विमानाग्रगता देवा व्रह्मशक्रपुरोगमाः |
३० क
सञ्जय़ उवाच:
सिद्धचारणसङ्घाश्च विद्याधरमहोरगाः ||
३० ख
सञ्जय़ उवाच:
गतप्रत्यागताक्षेपैश्चित्रैः शस्त्रविघातिभिः |
३१ क
सञ्जय़ उवाच:
विविधैर्विस्मय़ं जग्मुस्तय़ोः पुरुषसिंहय़ोः ||
३१ ख
सञ्जय़ उवाच:
हस्तलाघवमस्त्रेषु दर्शय़न्तौ महावलौ |
३२ क
सञ्जय़ उवाच:
अन्योन्यं समविध्येतां शरैस्तौ द्रोणसात्यकी ||
३२ ख
सञ्जय़ उवाच:
ततो द्रोणस्य दाशार्हः शरांश्चिच्छेद संय़ुगे |
३३ क
सञ्जय़ उवाच:
पत्रिभिः सुदृढैराशु धनुश्चैव महाद्युते ||
३३ ख
सञ्जय़ उवाच:
निमेषान्तरमात्रेण भारद्वाजोऽपरं धनुः |
३४ क
सञ्जय़ उवाच:
सज्यं चकार तच्चाशु चिच्छेदास्य स सात्यकिः ||
३४ ख
सञ्जय़ उवाच:
ततस्त्वरन्पुनर्द्रोणो धनुर्हस्तो व्यतिष्ठत |
३५ क
सञ्जय़ उवाच:
सज्यं सज्यं पुनश्चास्य चिच्छेद निशितैः शरैः ||
३५ ख
सञ्जय़ उवाच:
ततोऽस्य संय़ुगे द्रोणो दृष्ट्वा कर्मातिमानुषम् |
३६ क
सञ्जय़ उवाच:
युय़ुधानस्य राजेन्द्र मनसेदमचिन्तय़त् ||
३६ ख
सञ्जय़ उवाच:
एतदस्त्रवलं रामे कार्तवीर्ये धनञ्जय़े |
३७ क
सञ्जय़ उवाच:
भीष्मे च पुरुषव्याघ्रे यदिदं सात्वतां वरे ||
३७ ख
सञ्जय़ उवाच:
तं चास्य मनसा द्रोणः पूजय़ामास विक्रमम् |
३८ क
सञ्जय़ उवाच:
लाघवं वासवस्येव सम्प्रेक्ष्य द्विजसत्तमः ||
३८ ख
सञ्जय़ उवाच:
तुतोषास्त्रविदां श्रेष्ठस्तथा देवाः सवासवाः |
३९ क
सञ्जय़ उवाच:
न तामालक्षय़ामासुर्लघुतां शीघ्रकारिणः ||
३९ ख
सञ्जय़ उवाच:
देवाश्च युय़ुधानस्य गन्धर्वाश्च विशां पते |
४० क
सञ्जय़ उवाच:
सिद्धचारणसङ्घाश्च विदुर्द्रोणस्य कर्म तत् ||
४० ख
सञ्जय़ उवाच:
ततोऽन्यद्धनुरादाय़ द्रोणः क्षत्रिय़मर्दनः |
४१ क
सञ्जय़ उवाच:
अस्त्रैरस्त्रविदां श्रेष्ठो योधय़ामास भारत ||
४१ ख
सञ्जय़ उवाच:
तस्यास्त्राण्यस्त्रमाय़ाभिः प्रतिहन्य स सात्यकिः |
४२ क
सञ्जय़ उवाच:
जघान निशितैर्वाणैस्तदद्भुतमिवाभवत् ||
४२ ख
सञ्जय़ उवाच:
तस्यातिमानुषं कर्म दृष्ट्वान्यैरसमं रणे |
४३ क
सञ्जय़ उवाच:
युक्तं योगेन योगज्ञास्तावकाः समपूजय़न् ||
४३ ख
सञ्जय़ उवाच:
यदस्त्रमस्यति द्रोणस्तदेवास्यति सात्यकिः |
४४ क
सञ्जय़ उवाच:
तमाचार्योऽप्यसम्भ्रान्तोऽय़ोधय़च्छत्रुतापनः ||
४४ ख
सञ्जय़ उवाच:
ततः क्रुद्धो महाराज धनुर्वेदस्य पारगः |
४५ क
सञ्जय़ उवाच:
वधाय़ युय़ुधानस्य दिव्यमस्त्रमुदैरय़त् ||
४५ ख
सञ्जय़ उवाच:
तदाग्नेय़ं महाघोरं रिपुघ्नमुपलक्ष्य सः |
४६ क
सञ्जय़ उवाच:
अस्त्रं दिव्यं महेष्वासो वारुणं समुदैरय़त् ||
४६ ख
सञ्जय़ उवाच:
हाहाकारो महानासीद्दृष्ट्वा दिव्यास्त्रधारिणौ |
४७ क
सञ्जय़ उवाच:
न विचेरुस्तदाकाशे भूतान्याकाशगान्यपि ||
४७ ख
सञ्जय़ उवाच:
अस्त्रे ते वारुणाग्नेय़े ताभ्यां वाणसमाहिते |
४८ क
सञ्जय़ उवाच:
न तावदभिषज्येते व्यावर्तदथ भास्करः ||
४८ ख
सञ्जय़ उवाच:
ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः |
४९ क
सञ्जय़ उवाच:
नकुलः सहदेवश्च पर्यरक्षन्त सात्यकिम् ||
४९ ख
सञ्जय़ उवाच:
धृष्टद्युम्नमुखैः सार्धं विराटश्च सकेकय़ः |
५० क
सञ्जय़ उवाच:
मत्स्याः शाल्वेय़सेनाश्च द्रोणमाजग्मुरञ्जसा ||
५० ख