chevron_left द्रोण पर्व अध्याय ७४
सञ्जय़ उवाच:
परिवर्तमाने त्वादित्ये तत्र सूर्यस्य रश्मिभिः |
१ क
सञ्जय़ उवाच:
रजसा कीर्यमाणाश्च मन्दीभूताश्च सैनिकाः ||
१ ख
सञ्जय़ उवाच:
तिष्ठतां युध्यमानानां पुनरावर्ततामपि |
२ क
सञ्जय़ उवाच:
भज्यतां जय़तां चैव जगाम तदहः शनैः ||
२ ख
सञ्जय़ उवाच:
तथा तेषु विषक्तेषु सैन्येषु जय़गृद्धिषु |
३ क
सञ्जय़ उवाच:
अर्जुनो वासुदेवश्च सैन्धवाय़ैव जग्मतुः ||
३ ख
सञ्जय़ उवाच:
रथमार्गप्रमाणं तु कौन्तेय़ो निशितैः शरैः |
४ क
सञ्जय़ उवाच:
चकार तत्र पन्थानं यय़ौ येन जनार्दनः ||
४ ख
सञ्जय़ उवाच:
यत्र यत्र रथो याति पाण्डवस्य महात्मनः |
५ क
सञ्जय़ उवाच:
तत्र तत्रैव दीर्यन्ते सेनास्तव विशां पते ||
५ ख
सञ्जय़ उवाच:
रथशिक्षां तु दाशार्हो दर्शय़ामास वीर्यवान् |
६ क
सञ्जय़ उवाच:
उत्तमाधममध्यानि मण्डलानि विदर्शय़न् ||
६ ख
सञ्जय़ उवाच:
ते तु नामाङ्किताः पीताः कालज्वलनसंनिभाः |
७ क
सञ्जय़ उवाच:
स्नाय़ुनद्धाः सुपर्वाणः पृथवो दीर्घगामिनः ||
७ ख
सञ्जय़ उवाच:
वैणवाय़स्मय़शराः स्वाय़ता विविधाननाः |
८ क
सञ्जय़ उवाच:
रुधिरं पतगैः सार्धं प्राणिनां पपुराहवे ||
८ ख
सञ्जय़ उवाच:
रथस्थितः क्रोशमात्रे यानस्यत्यर्जुनः शरान् |
९ क
सञ्जय़ उवाच:
रथे क्रोशमतिक्रान्ते तस्य ते घ्नन्ति शात्रवान् ||
९ ख
सञ्जय़ उवाच:
तार्क्ष्यमारुतरंहोभिर्वाजिभिः साधुवाहिभिः |
१० क
सञ्जय़ उवाच:
तथागच्छद्धृषीकेशः कृत्स्नं विस्मापय़ञ्जगत् ||
१० ख
सञ्जय़ उवाच:
न तथा गच्छति रथस्तपनस्य विशां पते |
११ क
सञ्जय़ उवाच:
नेन्द्रस्य न च रुद्रस्य नापि वैश्रवणस्य च ||
११ ख
सञ्जय़ उवाच:
नान्यस्य समरे राजन्गतपूर्वस्तथा रथः |
१२ क
सञ्जय़ उवाच:
यथा यय़ावर्जुनस्य मनोभिप्राय़शीघ्रगः ||
१२ ख
सञ्जय़ उवाच:
प्रविश्य तु रणे राजन्केशवः परवीरहा |
१३ क
सञ्जय़ उवाच:
सेनामध्ये हय़ांस्तूर्णं चोदय़ामास भारत ||
१३ ख
सञ्जय़ उवाच:
ततस्तस्य रथौघस्य मध्यं प्राप्य हय़ोत्तमाः |
१४ क
सञ्जय़ उवाच:
कृच्छ्रेण रथमूहुस्तं क्षुत्पिपासाश्रमान्विताः ||
१४ ख
सञ्जय़ उवाच:
क्षताश्च वहुभिः शस्त्रैर्युद्धशौण्डैरनेकशः |
१५ क
सञ्जय़ उवाच:
मण्डलानि विचित्राणि विचेरुस्ते मुहुर्मुहुः ||
१५ ख
सञ्जय़ उवाच:
हतानां वाजिनागानां रथानां च नरैः सह |
१६ क
सञ्जय़ उवाच:
उपरिष्टादतिक्रान्ताः शैलाभानां सहस्रशः ||
१६ ख
सञ्जय़ उवाच:
एतस्मिन्नन्तरे वीरावावन्त्यौ भ्रातरौ नृप |
१७ क
सञ्जय़ उवाच:
सहसेनौ समार्छेतां पाण्डवं क्लान्तवाहनम् ||
१७ ख
सञ्जय़ उवाच:
तावर्जुनं चतुःषष्ट्या सप्तत्या च जनार्दनम् |
१८ क
सञ्जय़ उवाच:
शराणां च शतेनाश्वानविध्येतां मुदान्वितौ ||
१८ ख
सञ्जय़ उवाच:
तावर्जुनो महाराज नवभिर्नतपर्वभिः |
१९ क
सञ्जय़ उवाच:
आजघान रणे क्रुद्धो मर्मज्ञो मर्मभेदिभिः ||
१९ ख
सञ्जय़ उवाच:
ततस्तौ तु शरौघेण वीभत्सुं सहकेशवम् |
२० क
सञ्जय़ उवाच:
आच्छादय़ेतां संरव्धौ सिंहनादं च नेदतुः ||
२० ख
सञ्जय़ उवाच:
तय़ोस्तु धनुषी चित्रे भल्लाभ्यां श्वेतवाहनः |
२१ क
सञ्जय़ उवाच:
चिच्छेद समरे तूर्णं ध्वजौ च कनकोज्ज्वलौ ||
२१ ख
सञ्जय़ उवाच:
अथान्ये धनुषी राजन्प्रगृह्य समरे तदा |
२२ क
सञ्जय़ उवाच:
पाण्डवं भृशसङ्क्रुद्धावर्दय़ामासतुः शरैः ||
२२ ख
सञ्जय़ उवाच:
तय़ोस्तु भृशसङ्क्रुद्धः शराभ्यां पाण्डुनन्दनः |
२३ क
सञ्जय़ उवाच:
चिच्छेद धनुषी तूर्णं भूय़ एव धनञ्जय़ः ||
२३ ख
सञ्जय़ उवाच:
तथान्यैर्विशिखैस्तूर्णं हेमपुङ्खैः शिलाशितैः |
२४ क
सञ्जय़ उवाच:
जघानाश्वान्सपदातांस्तथोभौ पार्ष्णिसारथी ||
२४ ख
सञ्जय़ उवाच:
ज्येष्ठस्य च शिरः काय़ात्क्षुरप्रेण न्यकृन्तत |
२५ क
सञ्जय़ उवाच:
स पपात हतः पृथ्व्यां वातरुग्ण इव द्रुमः ||
२५ ख
सञ्जय़ उवाच:
विन्दं तु निहतं दृष्ट्वा अनुविन्दः प्रतापवान् |
२६ क
सञ्जय़ उवाच:
हताश्वं रथमुत्सृज्य गदां गृह्य महावलः ||
२६ ख
सञ्जय़ उवाच:
अभ्यद्रवत सङ्ग्रामे भ्रातुर्वधमनुस्मरन् |
२७ क
सञ्जय़ उवाच:
गदय़ा गदिनां श्रेष्ठो नृत्यन्निव महारथः ||
२७ ख
सञ्जय़ उवाच:
अनुविन्दस्तु गदय़ा ललाटे मधुसूदनम् |
२८ क
सञ्जय़ उवाच:
स्पृष्ट्वा नाकम्पय़त्क्रुद्धो मैनाकमिव पर्वतम् ||
२८ ख
सञ्जय़ उवाच:
तस्यार्जुनः शरैः षड्भिर्ग्रीवां पादौ भुजौ शिरः |
२९ क
सञ्जय़ उवाच:
निचकर्त स सञ्छिन्नः पपाताद्रिचय़ो यथा ||
२९ ख
सञ्जय़ उवाच:
ततस्तौ निहतौ दृष्ट्वा तय़ो राजन्पदानुगाः |
३० क
सञ्जय़ उवाच:
अभ्यद्रवन्त सङ्क्रुद्धाः किरन्तः शतशः शरान् ||
३० ख
सञ्जय़ उवाच:
तानर्जुनः शरैस्तूर्णं निहत्य भरतर्षभ |
३१ क
सञ्जय़ उवाच:
व्यरोचत यथा वह्निर्दावं दग्ध्वा हिमात्यये ||
३१ ख
सञ्जय़ उवाच:
तय़ोः सेनामतिक्रम्य कृच्छ्रान्निर्याद्धनञ्जय़ः |
३२ क
सञ्जय़ उवाच:
विवभौ जलदान्भित्त्वा दिवाकर इवोदितः ||
३२ ख
सञ्जय़ उवाच:
तं दृष्ट्वा कुरवस्त्रस्ताः प्रहृष्टाश्चाभवन्पुनः |
३३ क
सञ्जय़ उवाच:
अभ्यवर्षंस्तदा पार्थं समन्ताद्भरतर्षभ ||
३३ ख
सञ्जय़ उवाच:
श्रान्तं चैनं समालक्ष्य ज्ञात्वा दूरे च सैन्धवम् |
३४ क
सञ्जय़ उवाच:
सिंहनादेन महता सर्वतः पर्यवारय़न् ||
३४ ख
सञ्जय़ उवाच:
तांस्तु दृष्ट्वा सुसंरव्धानुत्स्मय़न्पुरुषर्षभः |
३५ क
सञ्जय़ उवाच:
शनकैरिव दाशार्हमर्जुनो वाक्यमव्रवीत् ||
३५ ख
सञ्जय़ उवाच:
शरार्दिताश्च ग्लानाश्च हय़ा दूरे च सैन्धवः |
३६ क
सञ्जय़ उवाच:
किमिहानन्तरं कार्यं ज्याय़िष्ठं तव रोचते ||
३६ ख
सञ्जय़ उवाच:
व्रूहि कृष्ण यथातत्त्वं त्वं हि प्राज्ञतमः सदा |
३७ क
सञ्जय़ उवाच:
भवन्नेत्रा रणे शत्रून्विजेष्यन्तीह पाण्डवाः ||
३७ ख
सञ्जय़ उवाच:
मम त्वनन्तरं कृत्यं यद्वै तत्संनिवोध मे |
३८ क
सञ्जय़ उवाच:
हय़ान्विमुच्य हि सुखं विशल्यान्कुरु माधव ||
३८ ख
सञ्जय़ उवाच:
एवमुक्तस्तु पार्थेन केशवः प्रत्युवाच तम् |
३९ क
सञ्जय़ उवाच:
ममाप्येतन्मतं पार्थ यदिदं ते प्रभाषितम् ||
३९ ख
अर्जुन उवाच:
अहमावारय़िष्यामि सर्वसैन्यानि केशव |
४० क
अर्जुन उवाच:
त्वमप्यत्र यथान्याय़ं कुरु कार्यमनन्तरम् ||
४० ख
सञ्जय़ उवाच:
सोऽवतीर्य रथोपस्थादसम्भ्रान्तो धनञ्जय़ः |
४१ क
सञ्जय़ उवाच:
गाण्डीवं धनुरादाय़ तस्थौ गिरिरिवाचलः ||
४१ ख
सञ्जय़ उवाच:
तमभ्यधावन्क्रोशन्तः क्षत्रिय़ा जय़काङ्क्षिणः |
४२ क
सञ्जय़ उवाच:
इदं छिद्रमिति ज्ञात्वा धरणीस्थं धनञ्जय़म् ||
४२ ख
सञ्जय़ उवाच:
तमेकं रथवंशेन महता पर्यवारय़न् |
४३ क
सञ्जय़ उवाच:
विकर्षन्तश्च चापानि विसृजन्तश्च साय़कान् ||
४३ ख
सञ्जय़ उवाच:
अस्त्राणि च विचित्राणि क्रुद्धास्तत्र व्यदर्शय़न् |
४४ क
सञ्जय़ उवाच:
छादय़न्तः शरैः पार्थं मेघा इव दिवाकरम् ||
४४ ख
सञ्जय़ उवाच:
अभ्यद्रवन्त वेगेन क्षत्रिय़ाः क्षत्रिय़र्षभम् |
४५ क
सञ्जय़ उवाच:
रथसिंहं रथोदाराः सिंहं मत्ता इव द्विपाः ||
४५ ख
सञ्जय़ उवाच:
तत्र पार्थस्य भुजय़ोर्महद्वलमदृश्यत |
४६ क
सञ्जय़ उवाच:
यत्क्रुद्धो वहुलाः सेनाः सर्वतः समवारय़त् ||
४६ ख
सञ्जय़ उवाच:
अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतो विभुः |
४७ क
सञ्जय़ उवाच:
इषुभिर्वहुभिस्तूर्णं सर्वानेव समावृणोत् ||
४७ ख
सञ्जय़ उवाच:
तत्रान्तरिक्षे वाणानां प्रगाढानां विशां पते |
४८ क
सञ्जय़ उवाच:
सङ्घर्षेण महार्चिष्मान्पावकः समजाय़त ||
४८ ख
सञ्जय़ उवाच:
तत्र तत्र महेष्वासैः श्वसद्भिः शोणितोक्षितैः |
४९ क
सञ्जय़ उवाच:
हय़ैर्नागैश्च सम्भिन्नैर्नदद्भिश्चारिकर्शनैः ||
४९ ख
सञ्जय़ उवाच:
संरव्धैश्चारिभिर्वीरैः प्रार्थय़द्भिर्जय़ं मृधे |
५० क
सञ्जय़ उवाच:
एकस्थैर्वहुभिः क्रुद्धैरूष्मेव समजाय़त ||
५० ख