chevron_left आदि पर्व अध्याय ७४
शुक्र उवाच:
यः परेषां नरो नित्यमतिवादांस्तितिक्षति |
१ क
शुक्र उवाच:
देवय़ानि विजानीहि तेन सर्वमिदं जितम् ||
१ ख
शुक्र उवाच:
यः समुत्पतितं क्रोधं निगृह्णाति हय़ं यथा |
२ क
शुक्र उवाच:
स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्वते ||
२ ख
शुक्र उवाच:
यः समुत्पतितं क्रोधमक्रोधेन निरस्यति |
३ क
शुक्र उवाच:
देवय़ानि विजानीहि तेन सर्वमिदं जितम् ||
३ ख
शुक्र उवाच:
यः समुत्पतितं क्रोधं क्षमय़ेह निरस्यति |
४ क
शुक्र उवाच:
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ||
४ ख
शुक्र उवाच:
यः सन्धारय़ते मन्युं योऽतिवादांस्तितिक्षति |
५ क
शुक्र उवाच:
यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम् ||
५ ख
शुक्र उवाच:
यो यजेदपरिश्रान्तो मासि मासि शतं समाः |
६ क
शुक्र उवाच:
न क्रुध्येद्यश्च सर्वस्य तय़ोरक्रोधनोऽधिकः ||
६ ख
शुक्र उवाच:
यत्कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः |
७ क
शुक्र उवाच:
न तत्प्राज्ञोऽनुकुर्वीत विदुस्ते न वलावलम् ||
७ ख
देवय़ान्यु उवाच:
वेदाहं तात वालापि धर्माणां यदिहान्तरम् |
८ क
देवय़ान्यु उवाच:
अक्रोधे चातिवादे च वेद चापि वलावलम् ||
८ ख
देवय़ान्यु उवाच:
शिष्यस्याशिष्यवृत्तेर्हि न क्षन्तव्यं वुभूषता |
९ क
देवय़ान्यु उवाच:
तस्मात्सङ्कीर्णवृत्तेषु वासो मम न रोचते ||
९ ख
देवय़ान्यु उवाच:
पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च |
१० क
देवय़ान्यु उवाच:
न तेषु निवसेत्प्राज्ञः श्रेय़ोर्थी पापवुद्धिषु ||
१० ख
देवय़ान्यु उवाच:
ये त्वेनमभिजानन्ति वृत्तेनाभिजनेन च |
११ क
देवय़ान्यु उवाच:
तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते ||
११ ख
देवय़ान्यु उवाच:
वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः |
१२ क
देवय़ान्यु उवाच:
न ह्यतो दुष्करतरं मन्ये लोकेष्वपि त्रिषु |
१२ ख
देवय़ान्यु उवाच:
यः सपत्नश्रिय़ं दीप्तां हीनश्रीः पर्युपासते ||
१२ ग