chevron_left शान्ति पर्व अध्याय ७४
भीष्म उवाच:
राज्ञा पुरोहितः कार्यो भवेद्विद्वान्वहुश्रुतः |
१ क
भीष्म उवाच:
उभौ समीक्ष्य धर्मार्थावप्रमेय़ावनन्तरम् ||
१ ख
भीष्म उवाच:
धर्मात्मा धर्मविद्येषां राज्ञां राजन्पुरोहितः |
२ क
भीष्म उवाच:
राजा चैवं गुणो येषां कुशलं तेषु सर्वशः ||
२ ख
भीष्म उवाच:
उभौ प्रजा वर्धय़तो देवान्पूर्वान्परान्पितॄन् |
३ क
भीष्म उवाच:
यौ समेय़ास्थितौ धर्मे श्रद्धेय़ौ सुतपस्विनौ ||
३ ख
भीष्म उवाच:
परस्परस्य सुहृदौ संमतौ समचेतसौ |
४ क
भीष्म उवाच:
व्रह्मक्षत्रस्य संमानात्प्रजाः सुखमवाप्नुय़ुः ||
४ ख
भीष्म उवाच:
विमाननात्तय़ोरेव प्रजा नश्येय़ुरेव ह |
५ क
भीष्म उवाच:
व्रह्मक्षत्रं हि सर्वेषां धर्माणां मूलमुच्यते ||
५ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
६ क
भीष्म उवाच:
ऐलकश्यपसंवादं तं निवोध युधिष्ठिर ||
६ ख
ऐल उवाच:
यदा हि व्रह्म प्रजहाति क्षत्रं; क्षत्रं यदा वा प्रजहाति व्रह्म |
७ क
ऐल उवाच:
अन्वग्वलं कतमेऽस्मिन्भजन्ते; तथावल्यं कतमेऽस्मिन्विय़न्ति ||
७ ख
कश्यप उवाच:
व्यृद्धं राष्ट्रं भवति क्षत्रिय़स्य; व्रह्म क्षत्रं यत्र विरुध्यते ह |
८ क
कश्यप उवाच:
अन्वग्वलं दस्यवस्तद्भजन्ते; ऽवल्यं तथा तत्र विय़न्ति सन्तः ||
८ ख
कश्यप उवाच:
नैषामुक्षा वर्धते नोत उस्रा; न गर्गरो मथ्यते नो यजन्ते |
९ क
कश्यप उवाच:
नैषां पुत्रा वेदमधीय़ते च; यदा व्रह्म क्षत्रिय़ाः सन्त्यजन्ति ||
९ ख
कश्यप उवाच:
नैषामुक्षा वर्धते जातु गेहे; नाधीय़ते सप्रजा नो यजन्ते |
१० क
कश्यप उवाच:
अपध्वस्ता दस्युभूता भवन्ति; ये व्राह्मणाः क्षत्रिय़ान्सन्त्यजन्ति ||
१० ख
कश्यप उवाच:
एतौ हि नित्यसंय़ुक्तावितरेतरधारणे |
११ क
कश्यप उवाच:
क्षत्रं हि व्रह्मणो योनिर्योनिः क्षत्रस्य च द्विजाः ||
११ ख
कश्यप उवाच:
उभावेतौ नित्यमभिप्रपन्नौ; सम्प्रापतुर्महतीं श्रीप्रतिष्ठाम् |
१२ क
कश्यप उवाच:
तय़ोः सन्धिर्भिद्यते चेत्पुराण; स्ततः सर्वं भवति हि सम्प्रमूढम् ||
१२ ख
कश्यप उवाच:
नात्र प्लवं लभते पारगामी; महागाधे नौरिव सम्प्रणुन्ना |
१३ क
कश्यप उवाच:
चातुर्वर्ण्यं भवति च सम्प्रमूढं; ततः प्रजाः क्षय़संस्था भवन्ति ||
१३ ख
कश्यप उवाच:
व्रह्मवृक्षो रक्ष्यमाणो मधु हेम च वर्षति |
१४ क
कश्यप उवाच:
अरक्ष्यमाणः सततमश्रु पापं च वर्षति ||
१४ ख
कश्यप उवाच:
अव्रह्मचारी चरणादपेतो; यदा व्रह्मा व्रह्मणि त्राणमिच्छेत् |
१५ क
कश्यप उवाच:
आश्चर्यशो वर्षति तत्र देव; स्तत्राभीक्ष्णं दुःसहाश्चाविशन्ति ||
१५ ख
कश्यप उवाच:
स्त्रिय़ं हत्वा व्राह्मणं वापि पापः; सभाय़ां यत्र लभतेऽनुवादम् |
१६ क
कश्यप उवाच:
राज्ञः सकाशे न विभेति चापि; ततो भय़ं जाय़ते क्षत्रिय़स्य ||
१६ ख
कश्यप उवाच:
पापैः पापे क्रिय़माणेऽतिवेलं; ततो रुद्रो जाय़ते देव एषः |
१७ क
कश्यप उवाच:
पापैः पापाः सञ्जनय़न्ति रुद्रं; ततः सर्वान्साध्वसाधून्हिनस्ति ||
१७ ख
ऐल उवाच:
कुतो रुद्रः कीदृशो वापि रुद्रः; सत्त्वैः सत्त्वं दृश्यते वध्यमानम् |
१८ क
ऐल उवाच:
एतद्विद्वन्कश्यप मे प्रचक्ष्व; यतो रुद्रो जाय़ते देव एषः ||
१८ ख
कश्यप उवाच:
आत्मा रुद्रो हृदय़े मानवानां; स्वं स्वं देहं परदेहं च हन्ति |
१९ क
कश्यप उवाच:
वातोत्पातैः सदृशं रुद्रमाहु; र्दावैर्जीमूतैः सदृशं रूपमस्य ||
१९ ख
ऐल उवाच:
न वै वातं परिवृनोति कश्चि; न्न जीमूतो वर्षति नैव दावः |
२० क
ऐल उवाच:
तथाय़ुक्तो दृश्यते मानवेषु; कामद्वेषाद्वध्यते मुच्यते च ||
२० ख
कश्यप उवाच:
यथैकगेहे जातवेदाः प्रदीप्तः; कृत्स्नं ग्रामं प्रदहेत्स त्वरावान् |
२१ क
कश्यप उवाच:
विमोहनं कुरुते देव एष; ततः सर्वं स्पृश्यते पुण्यपापैः ||
२१ ख
ऐल उवाच:
यदि दण्डः स्पृशते पुण्यभाजं; पापैः पापे क्रिय़माणेऽविशेषात् |
२२ क
ऐल उवाच:
कस्य हेतोः सुकृतं नाम कुर्या; द्दुष्कृतं वा कस्य हेतोर्न कुर्यात् ||
२२ ख
कश्यप उवाच:
असन्त्यागात्पापकृतामपापां; स्तुल्यो दण्डः स्पृशते मिश्रभावात् |
२३ क
कश्यप उवाच:
शुष्केणार्द्रं दह्यते मिश्रभावा; न्न मिश्रः स्यात्पापकृद्भिः कथञ्चित् ||
२३ ख
ऐल उवाच:
साध्वसाधून्धारय़तीह भूमिः; साध्वसाधूंस्तापय़तीह सूर्यः |
२४ क
ऐल उवाच:
साध्वसाधून्वातय़तीह वाय़ु; रापस्तथा साध्वसाधून्वहन्ति ||
२४ ख
कश्यप उवाच:
एवमस्मिन्वर्तते लोक एव; नामुत्रैवं वर्तते राजपुत्र |
२५ क
कश्यप उवाच:
प्रेत्यैतय़ोरन्तरवान्विशेषो; यो वै पुण्यं चरते यश्च पापम् ||
२५ ख
कश्यप उवाच:
पुण्यस्य लोको मधुमान्घृतार्चि; र्हिरण्यज्योतिरमृतस्य नाभिः |
२६ क
कश्यप उवाच:
तत्र प्रेत्य मोदते व्रह्मचारी; न तत्र मृत्युर्न जरा नोत दुःखम् ||
२६ ख
कश्यप उवाच:
पापस्य लोको निरय़ोऽप्रकाशो; नित्यं दुःखः शोकभूय़िष्ठ एव |
२७ क
कश्यप उवाच:
तत्रात्मानं शोचते पापकर्मा; वह्वीः समाः प्रपतन्नप्रतिष्ठः ||
२७ ख
कश्यप उवाच:
मिथो भेदाद्व्राह्मणक्षत्रिय़ाणां; प्रजा दुःखं दुःसहं चाविशन्ति |
२८ क
कश्यप उवाच:
एवं ज्ञात्वा कार्य एवेह विद्वा; न्पुरोहितो नैकविद्यो नृपेण ||
२८ ख
कश्यप उवाच:
तं चैवान्वभिषिच्येत तथा धर्मो विधीय़ते |
२९ क
कश्यप उवाच:
अग्र्यो हि व्राह्मणः प्रोक्तः सर्वस्यैवेह धर्मतः ||
२९ ख
कश्यप उवाच:
पूर्वं हि व्राह्मणाः सृष्टा इति धर्मविदो विदुः |
३० क
कश्यप उवाच:
ज्येष्ठेनाभिजनेनास्य प्राप्तं सर्वं यदुत्तरम् ||
३० ख
कश्यप उवाच:
तस्मान्मान्यश्च पूज्यश्च व्राह्मणः प्रसृताग्रभुक् |
३१ क
कश्यप उवाच:
सर्वं श्रेष्ठं वरिष्ठं च निवेद्यं तस्य धर्मतः ||
३१ ख
कश्यप उवाच:
अवश्यमेतत्कर्तव्यं राज्ञा वलवतापि हि |
३२ क
कश्यप उवाच:
व्रह्म वर्धय़ति क्षत्रं क्षत्रतो व्रह्म वर्धते ||
३२ ख