chevron_left अनुशासन पर्व अध्याय ७४
युधिष्ठिर उवाच:
विस्रम्भितोऽहं भवता धर्मान्प्रवदता विभो |
१ क
युधिष्ठिर उवाच:
प्रवक्ष्यामि तु सन्देहं तन्मे व्रूहि पितामह ||
१ ख
युधिष्ठिर उवाच:
व्रतानां किं फलं प्रोक्तं कीदृशं वा महाद्युते |
२ क
युधिष्ठिर उवाच:
निय़मानां फलं किं च स्वधीतस्य च किं फलम् ||
२ ख
युधिष्ठिर उवाच:
दमस्येह फलं किं च वेदानां धारणे च किम् |
३ क
युधिष्ठिर उवाच:
अध्यापने फलं किं च सर्वमिच्छामि वेदितुम् ||
३ ख
युधिष्ठिर उवाच:
अप्रतिग्राहके किं च फलं लोके पितामह |
४ क
युधिष्ठिर उवाच:
तस्य किं च फलं दृष्टं श्रुतं यः सम्प्रय़च्छति ||
४ ख
युधिष्ठिर उवाच:
स्वकर्मनिरतानां च शूराणां चापि किं फलम् |
५ क
युधिष्ठिर उवाच:
सत्ये च किं फलं प्रोक्तं व्रह्मचर्ये च किं फलम् ||
५ ख
युधिष्ठिर उवाच:
पितृशुश्रूषणे किं च मातृशुश्रूषणे तथा |
६ क
युधिष्ठिर उवाच:
आचार्यगुरुशुश्रूषास्वनुक्रोशानुकम्पने ||
६ ख
युधिष्ठिर उवाच:
एतत्सर्वमशेषेण पितामह यथातथम् |
७ क
युधिष्ठिर उवाच:
वेत्तुमिच्छामि धर्मज्ञ परं कौतूहलं हि मे ||
७ ख
भीष्म उवाच:
यो व्रतं वै यथोद्दिष्टं तथा सम्प्रतिपद्यते |
८ क
भीष्म उवाच:
अखण्डं सम्यगारव्धं तस्य लोकाः सनातनाः ||
८ ख
भीष्म उवाच:
निय़मानां फलं राजन्प्रत्यक्षमिह दृश्यते |
९ क
भीष्म उवाच:
निय़मानां क्रतूनां च त्वय़ावाप्तमिदं फलम् ||
९ ख
भीष्म उवाच:
स्वधीतस्यापि च फलं दृश्यतेऽमुत्र चेह च |
१० क
भीष्म उवाच:
इहलोकेऽर्थवान्नित्यं व्रह्मलोके च मोदते ||
१० ख
भीष्म उवाच:
दमस्य तु फलं राजञ्शृणु त्वं विस्तरेण मे |
११ क
भीष्म उवाच:
दान्ताः सर्वत्र सुखिनो दान्ताः सर्वत्र निर्वृताः ||
११ ख
भीष्म उवाच:
यत्रेच्छागामिनो दान्ताः सर्वशत्रुनिषूदनाः |
१२ क
भीष्म उवाच:
प्रार्थय़न्ति च यद्दान्ता लभन्ते तन्न संशय़ः ||
१२ ख
भीष्म उवाच:
युज्यन्ते सर्वकामैर्हि दान्ताः सर्वत्र पाण्डव |
१३ क
भीष्म उवाच:
स्वर्गे तथा प्रमोदन्ते तपसा विक्रमेण च ||
१३ ख
भीष्म उवाच:
दानैर्यज्ञैश्च विविधैर्यथा दान्ताः क्षमान्विताः |
१४ क
भीष्म उवाच:
दाता कुप्यति नो दान्तस्तस्माद्दानात्परो दमः ||
१४ ख
भीष्म उवाच:
यस्तु दद्यादकुप्यन्हि तस्य लोकाः सनातनाः |
१५ क
भीष्म उवाच:
क्रोधो हन्ति हि यद्दानं तस्माद्दानात्परो दमः ||
१५ ख
भीष्म उवाच:
अदृश्यानि महाराज स्थानान्ययुतशो दिवि |
१६ क
भीष्म उवाच:
ऋषीणां सर्वलोकेषु यानीतो यान्ति देवताः ||
१६ ख
भीष्म उवाच:
दमेन यानि नृपते गच्छन्ति परमर्षय़ः |
१७ क
भीष्म उवाच:
कामय़ाना महत्स्थानं तस्माद्दानात्परो दमः ||
१७ ख
भीष्म उवाच:
अध्यापकः परिक्लेशादक्षय़ं फलमश्नुते |
१८ क
भीष्म उवाच:
विधिवत्पावकं हुत्वा व्रह्मलोके नराधिप ||
१८ ख
भीष्म उवाच:
अधीत्यापि हि यो वेदान्न्याय़विद्भ्यः प्रय़च्छति |
१९ क
भीष्म उवाच:
गुरुकर्मप्रशंसी च सोऽपि स्वर्गे महीय़ते ||
१९ ख
भीष्म उवाच:
क्षत्रिय़ोऽध्ययने युक्तो यजने दानकर्मणि |
२० क
भीष्म उवाच:
युद्धे यश्च परित्राता सोऽपि स्वर्गे महीय़ते ||
२० ख
भीष्म उवाच:
वैश्यः स्वकर्मनिरतः प्रदानाल्लभते महत् |
२१ क
भीष्म उवाच:
शूद्रः स्वकर्मनिरतः स्वर्गं शुश्रूषय़ार्च्छति ||
२१ ख
भीष्म उवाच:
शूरा वहुविधाः प्रोक्तास्तेषामर्थांश्च मे शृणु |
२२ क
भीष्म उवाच:
शूरान्वय़ानां निर्दिष्टं फलं शूरस्य चैव ह ||
२२ ख
भीष्म उवाच:
यज्ञशूरा दमे शूराः सत्यशूरास्तथापरे |
२३ क
भीष्म उवाच:
युद्धशूरास्तथैवोक्ता दानशूराश्च मानवाः ||
२३ ख
भीष्म उवाच:
वुद्धिशूरास्तथैवान्ये क्षमाशूरास्तथापरे |
२४ क
भीष्म उवाच:
आर्जवे च तथा शूराः शमे वर्तन्ति मानवाः ||
२४ ख
भीष्म उवाच:
तैस्तैस्तु निय़मैः शूरा वहवः सन्ति चापरे |
२५ क
भीष्म उवाच:
वेदाध्ययनशूराश्च शूराश्चाध्यापने रताः ||
२५ ख
भीष्म उवाच:
गुरुशुश्रूषय़ा शूराः पितृशुश्रूषय़ापरे |
२६ क
भीष्म उवाच:
मातृशुश्रूषय़ा शूरा भैक्ष्यशूरास्तथापरे ||
२६ ख
भीष्म उवाच:
साङ्ख्यशूराश्च वहवो योगशूरास्तथापरे |
२७ क
भीष्म उवाच:
अरण्ये गृहवासे च शूराश्चातिथिपूजने |
२७ ख
भीष्म उवाच:
सर्वे यान्ति पराँल्लोकान्स्वकर्मफलनिर्जितान् ||
२७ ग
भीष्म उवाच:
धारणं सर्ववेदानां सर्वतीर्थावगाहनम् |
२८ क
भीष्म उवाच:
सत्यं च व्रुवतो नित्यं समं वा स्यान्न वा समम् ||
२८ ख
भीष्म उवाच:
अश्वमेधसहस्रं च सत्यं च तुलय़ा धृतम् |
२९ क
भीष्म उवाच:
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ||
२९ ख
भीष्म उवाच:
सत्येन सूर्यस्तपति सत्येनाग्निः प्रदीप्यते |
३० क
भीष्म उवाच:
सत्येन मारुतो वाति सर्वं सत्ये प्रतिष्ठितम् ||
३० ख
भीष्म उवाच:
सत्येन देवान्प्रीणाति पितॄन्वै व्राह्मणांस्तथा |
३१ क
भीष्म उवाच:
सत्यमाहुः परं धर्मं तस्मात्सत्यं न लङ्घय़ेत् ||
३१ ख
भीष्म उवाच:
मुनय़ः सत्यनिरता मुनय़ः सत्यविक्रमाः |
३२ क
भीष्म उवाच:
मुनय़ः सत्यशपथास्तस्मात्सत्यं विशिष्यते |
३२ ख
भीष्म उवाच:
सत्यवन्तः स्वर्गलोके मोदन्ते भरतर्षभ ||
३२ ग
भीष्म उवाच:
दमः सत्यफलावाप्तिरुक्ता सर्वात्मना मय़ा |
३३ क
भीष्म उवाच:
असंशय़ं विनीतात्मा सर्वः स्वर्गे महीय़ते ||
३३ ख
भीष्म उवाच:
व्रह्मचर्यस्य तु गुणाञ्शृणु मे वसुधाधिप |
३४ क
भीष्म उवाच:
आ जन्ममरणाद्यस्तु व्रह्मचारी भवेदिह |
३४ ख
भीष्म उवाच:
न तस्य किञ्चिदप्राप्यमिति विद्धि जनाधिप ||
३४ ग
भीष्म उवाच:
वह्व्यः कोट्यस्त्वृषीणां तु व्रह्मलोके वसन्त्युत |
३५ क
भीष्म उवाच:
सत्ये रतानां सततं दान्तानामूर्ध्वरेतसाम् ||
३५ ख
भीष्म उवाच:
व्रह्मचर्यं दहेद्राजन्सर्वपापान्युपासितम् |
३६ क
भीष्म उवाच:
व्राह्मणेन विशेषेण व्राह्मणो ह्यग्निरुच्यते ||
३६ ख
भीष्म उवाच:
प्रत्यक्षं च तवाप्येतद्व्राह्मणेषु तपस्विषु |
३७ क
भीष्म उवाच:
विभेति हि यथा शक्रो व्रह्मचारिप्रधर्षितः |
३७ ख
भीष्म उवाच:
तद्व्रह्मचर्यस्य फलमृषीणामिह दृश्यते ||
३७ ग
भीष्म उवाच:
मातापित्रोः पूजने यो धर्मस्तमपि मे शृणु |
३८ क
भीष्म उवाच:
शुश्रूषते यः पितरं न चासूय़ेत्कथञ्चन |
३८ ख
भीष्म उवाच:
मातरं वानहंवादी गुरुमाचार्यमेव च ||
३८ ग
भीष्म उवाच:
तस्य राजन्फलं विद्धि स्वर्लोके स्थानमुत्तमम् |
३९ क
भीष्म उवाच:
न च पश्येत नरकं गुरुशुश्रूषुरात्मवान् ||
३९ ख