chevron_left उद्योग पर्व अध्याय ८६
दुर्योधन उवाच:
यदाह विदुरः कृष्णे सर्वं तत्सत्यमुच्यते |
१ क
दुर्योधन उवाच:
अनुरक्तो ह्यसंहार्यः पार्थान्प्रति जनार्दनः ||
१ ख
दुर्योधन उवाच:
यत्तु सत्कारसंय़ुक्तं देय़ं वसु जनार्दने |
२ क
दुर्योधन उवाच:
अनेकरूपं राजेन्द्र न तद्देय़ं कदाचन ||
२ ख
दुर्योधन उवाच:
देशः कालस्तथाय़ुक्तो न हि नार्हति केशवः |
३ क
दुर्योधन उवाच:
मंस्यत्यधोक्षजो राजन्भय़ादर्चति मामिति ||
३ ख
दुर्योधन उवाच:
अवमानश्च यत्र स्यात्क्षत्रिय़स्य विशां पते |
४ क
दुर्योधन उवाच:
न तत्कुर्याद्वुधः कार्यमिति मे निश्चिता मतिः ||
४ ख
दुर्योधन उवाच:
स हि पूज्यतमो देवः कृष्णः कमललोचनः |
५ क
दुर्योधन उवाच:
त्रय़ाणामपि लोकानां विदितं मम सर्वथा ||
५ ख
दुर्योधन उवाच:
न तु तस्मिन्प्रदेय़ं स्यात्तथा कार्यगतिः प्रभो |
६ क
दुर्योधन उवाच:
विग्रहः समुपारव्धो न हि शाम्यत्यविग्रहात् ||
६ ख
वैशम्पाय़न उवाच:
तस्य तद्वचनं श्रुत्वा भीष्मः कुरुपितामहः |
७ क
वैशम्पाय़न उवाच:
वैचित्रवीर्यं राजानमिदं वचनमव्रवीत् ||
७ ख
वैशम्पाय़न उवाच:
सत्कृतोऽसत्कृतो वापि न क्रुध्येत जनार्दनः |
८ क
वैशम्पाय़न उवाच:
नालमन्यमवज्ञातुमवज्ञातोऽपि केशवः ||
८ ख
वैशम्पाय़न उवाच:
यत्तु कार्यं महावाहो मनसा कार्यतां गतम् |
९ क
वैशम्पाय़न उवाच:
सर्वोपाय़ैर्न तच्छक्यं केनचित्कर्तुमन्यथा ||
९ ख
वैशम्पाय़न उवाच:
स यद्व्रूय़ान्महावाहुस्तत्कार्यमविशङ्कय़ा |
१० क
वैशम्पाय़न उवाच:
वासुदेवेन तीर्थेन क्षिप्रं संशाम्य पाण्डवैः ||
१० ख
वैशम्पाय़न उवाच:
धर्म्यमर्थ्यं स धर्मात्मा ध्रुवं वक्ता जनार्दनः |
११ क
वैशम्पाय़न उवाच:
तस्मिन्वाच्याः प्रिय़ा वाचो भवता वान्धवैः सह ||
११ ख
दुर्योधन उवाच:
न पर्याय़ोऽस्ति यद्राजञ्श्रिय़ं निष्केवलामहम् |
१२ क
दुर्योधन उवाच:
तैः सहेमामुपाश्नीय़ां जीवञ्जीवैः पितामह ||
१२ ख
दुर्योधन उवाच:
इदं तु सुमहत्कार्यं शृणु मे यत्समर्थितम् |
१३ क
दुर्योधन उवाच:
पराय़णं पाण्डवानां निय़ंस्यामि जनार्दनम् ||
१३ ख
दुर्योधन उवाच:
तस्मिन्वद्धे भविष्यन्ति वृष्णय़ः पृथिवी तथा |
१४ क
दुर्योधन उवाच:
पाण्डवाश्च विधेय़ा मे स च प्रातरिहेष्यति ||
१४ ख
दुर्योधन उवाच:
अत्रोपाय़ं यथा सम्यङ्न वुध्येत जनार्दनः |
१५ क
दुर्योधन उवाच:
न चापाय़ो भवेत्कश्चित्तद्भवान्प्रव्रवीतु मे ||
१५ ख
वैशम्पाय़न उवाच:
तस्य तद्वचनं श्रुत्वा घोरं कृष्णाभिसंहितम् |
१६ क
वैशम्पाय़न उवाच:
धृतराष्ट्रः सहामात्यो व्यथितो विमनाभवत् ||
१६ ख
वैशम्पाय़न उवाच:
ततो दुर्योधनमिदं धृतराष्ट्रोऽव्रवीद्वचः |
१७ क
वैशम्पाय़न उवाच:
मैवं वोचः प्रजापाल नैष धर्मः सनातनः ||
१७ ख
वैशम्पाय़न उवाच:
दूतश्च हि हृषीकेशः सम्वन्धी च प्रिय़श्च नः |
१८ क
वैशम्पाय़न उवाच:
अपापः कौरवेय़ेषु कथं वन्धनमर्हति ||
१८ ख
भीष्म उवाच:
परीतो धृतराष्ट्राय़ं तव पुत्रः सुमन्दधीः |
१९ क
भीष्म उवाच:
वृणोत्यनर्थं न त्वर्थं याच्यमानः सुहृद्गणैः ||
१९ ख
भीष्म उवाच:
इममुत्पथि वर्तन्तं पापं पापानुवन्धिनम् |
२० क
भीष्म उवाच:
वाक्यानि सुहृदां हित्वा त्वमप्यस्यानुवर्तसे ||
२० ख
भीष्म उवाच:
कृष्णमक्लिष्टकर्माणमासाद्याय़ं सुदुर्मतिः |
२१ क
भीष्म उवाच:
तव पुत्रः सहामात्यः क्षणेन न भविष्यति ||
२१ ख
भीष्म उवाच:
पापस्यास्य नृशंसस्य त्यक्तधर्मस्य दुर्मतेः |
२२ क
भीष्म उवाच:
नोत्सहेऽनर्थसंय़ुक्तां वाचं श्रोतुं कथञ्चन ||
२२ ख
वैशम्पाय़न उवाच:
इत्युक्त्वा भरतश्रेष्ठो वृद्धः परममन्युमान् |
२३ क
वैशम्पाय़न उवाच:
उत्थाय़ तस्मात्प्रातिष्ठद्भीष्मः सत्यपराक्रमः ||
२३ ख