chevron_left भीष्म पर्व अध्याय ७५
सञ्जय़ उवाच:
दुष्कर्णं निहतं दृष्ट्वा पञ्च राजन्महारथाः |
४९ क
सञ्जय़ उवाच:
जिघांसन्तः शतानीकं सर्वतः पर्यवारय़न् ||
४९ ख
सञ्जय़ उवाच:
छाद्यमानं शरव्रातैः शतानीकं यशस्विनम् |
५० क
सञ्जय़ उवाच:
अभ्यधावन्त संरव्धाः केकय़ाः पञ्च सोदराः ||
५० ख
सञ्जय़ उवाच:
तानभ्यापततः प्रेक्ष्य तव पुत्रा महारथाः |
५१ क
सञ्जय़ उवाच:
प्रत्युद्ययुर्महाराज गजा इव महागजान् ||
५१ ख
सञ्जय़ उवाच:
दुर्मुखो दुर्जय़श्चैव तथा दुर्मर्षणो युवा |
५२ क
सञ्जय़ उवाच:
शत्रुञ्जय़ः शत्रुसहः सर्वे क्रुद्धा यशस्विनः |
५२ ख
सञ्जय़ उवाच:
प्रत्युद्याता महाराज केकय़ान्भ्रातरः समम् ||
५२ ग
सञ्जय़ उवाच:
रथैर्नगरसङ्काशैर्हय़ैर्युक्तैर्मनोजवैः |
५३ क
सञ्जय़ उवाच:
नानावर्णविचित्राभिः पताकाभिरलङ्कृतैः ||
५३ ख
सञ्जय़ उवाच:
वरचापधरा वीरा विचित्रकवचध्वजाः |
५४ क
सञ्जय़ उवाच:
विविशुस्ते परं सैन्यं सिंहा इव वनाद्वनम् ||
५४ ख
सञ्जय़ उवाच:
तेषां सुतुमुलं युद्धं व्यतिषक्तरथद्विपम् |
५५ क
सञ्जय़ उवाच:
अवर्तत महारौद्रं निघ्नतामितरेतरम् |
५५ ख
सञ्जय़ उवाच:
अन्योन्यागस्कृतां राजन्यमराष्ट्रविवर्धनम् ||
५५ ग
सञ्जय़ उवाच:
मुहूर्तास्तमिते सूर्ये चक्रुर्युद्धं सुदारुणम् |
५६ क
सञ्जय़ उवाच:
रथिनः सादिनश्चैव व्यकीर्यन्त सहस्रशः ||
५६ ख
सञ्जय़ उवाच:
ततः शान्तनवः क्रुद्धः शरैः संनतपर्वभिः |
५७ क
सञ्जय़ उवाच:
नाशय़ामास सेनां वै भीष्मस्तेषां महात्मनाम् |
५७ ख
सञ्जय़ उवाच:
पाञ्चालानां च सैन्यानि शरैर्निन्ये यमक्षय़म् ||
५७ ग
सञ्जय़ उवाच:
एवं भित्त्वा महेष्वासः पाण्डवानामनीकिनीम् |
५८ क
सञ्जय़ उवाच:
कृत्वावहारं सैन्यानां यय़ौ स्वशिविरं नृप ||
५८ ख
सञ्जय़ उवाच:
धर्मराजोऽपि सम्प्रेक्ष्य धृष्टद्युम्नवृकोदरौ |
५९ क
सञ्जय़ उवाच:
मूर्ध्नि चैतावुपाघ्राय़ संहृष्टः शिविरं यय़ौ ||
५९ ख