chevron_left आदि पर्व अध्याय ७५
वैशम्पाय़न उवाच:
ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह |
१ क
वैशम्पाय़न उवाच:
वृषपर्वाणमासीनमित्युवाचाविचारय़न् ||
१ ख
वैशम्पाय़न उवाच:
नाधर्मश्चरितो राजन्सद्यः फलति गौरिव |
२ क
वैशम्पाय़न उवाच:
पुत्रेषु वा नप्तृषु वा न चेदात्मनि पश्यति |
२ ख
वैशम्पाय़न उवाच:
फलत्येव ध्रुवं पापं गुरुभुक्तमिवोदरे ||
२ ग
वैशम्पाय़न उवाच:
यदघातय़था विप्रं कचमाङ्गिरसं तदा |
३ क
वैशम्पाय़न उवाच:
अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम् ||
३ ख
वैशम्पाय़न उवाच:
वधादनर्हतस्तस्य वधाच्च दुहितुर्मम |
४ क
वैशम्पाय़न उवाच:
वृषपर्वन्निवोधेदं त्यक्ष्यामि त्वां सवान्धवम् |
४ ख
वैशम्पाय़न उवाच:
स्थातुं त्वद्विषय़े राजन्न शक्ष्यामि त्वय़ा सह ||
४ ग
वैशम्पाय़न उवाच:
अहो मामभिजानासि दैत्य मिथ्याप्रलापिनम् |
५ क
वैशम्पाय़न उवाच:
यथेममात्मनो दोषं न निय़च्छस्युपेक्षसे ||
५ ख
वृषपर्वो उवाच:
नाधर्मं न मृषावादं त्वय़ि जानामि भार्गव |
६ क
वृषपर्वो उवाच:
त्वय़ि धर्मश्च सत्यं च तत्प्रसीदतु नो भवान् ||
६ ख
वृषपर्वो उवाच:
यद्यस्मानपहाय़ त्वमितो गच्छसि भार्गव |
७ क
वृषपर्वो उवाच:
समुद्रं सम्प्रवेक्ष्यामो नान्यदस्ति पराय़णम् ||
७ ख
शुक्र उवाच:
समुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराः |
८ क
शुक्र उवाच:
दुहितुर्नाप्रिय़ं सोढुं शक्तोऽहं दय़िता हि मे ||
८ ख
शुक्र उवाच:
प्रसाद्यतां देवय़ानी जीवितं ह्यत्र मे स्थितम् |
९ क
शुक्र उवाच:
योगक्षेमकरस्तेऽहमिन्द्रस्येव वृहस्पतिः ||
९ ख
वृषपर्वो उवाच:
यत्किञ्चिदसुरेन्द्राणां विद्यते वसु भार्गव |
१० क
वृषपर्वो उवाच:
भुवि हस्तिगवाश्वं वा तस्य त्वं मम चेश्वरः ||
१० ख
शुक्र उवाच:
यत्किञ्चिदस्ति द्रविणं दैत्येन्द्राणां महासुर |
११ क
शुक्र उवाच:
तस्येश्वरोऽस्मि यदि ते देवय़ानी प्रसाद्यताम् ||
११ ख
देवय़ान्यु उवाच:
यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव |
१२ क
देवय़ान्यु उवाच:
नाभिजानामि तत्तेऽहं राजा तु वदतु स्वय़म् ||
१२ ख
वृषपर्वो उवाच:
यं काममभिकामासि देवय़ानि शुचिस्मिते |
१३ क
वृषपर्वो उवाच:
तत्तेऽहं सम्प्रदास्यामि यदि चेदपि दुर्लभम् ||
१३ ख
देवय़ान्यु उवाच:
दासीं कन्यासहस्रेण शर्मिष्ठामभिकामय़े |
१४ क
देवय़ान्यु उवाच:
अनु मां तत्र गच्छेत्सा यत्र दास्यति मे पिता ||
१४ ख
वृषपर्वो उवाच:
उत्तिष्ठ हे सङ्ग्रहीत्रि शर्मिष्ठां शीघ्रमानय़ |
१५ क
वृषपर्वो उवाच:
यं च कामय़ते कामं देवय़ानी करोतु तम् ||
१५ ख
वैशम्पाय़न उवाच:
ततो धात्री तत्र गत्वा शर्मिष्ठां वाक्यमव्रवीत् |
१६ क
वैशम्पाय़न उवाच:
उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह ||
१६ ख
वैशम्पाय़न उवाच:
त्यजति व्राह्मणः शिष्यान्देवय़ान्या प्रचोदितः |
१७ क
वैशम्पाय़न उवाच:
सा यं कामय़ते कामं स कार्योऽद्य त्वय़ानघे ||
१७ ख
शर्मिष्ठो उवाच:
सा यं कामय़ते कामं करवाण्यहमद्य तम् |
१८ क
शर्मिष्ठो उवाच:
मा त्वेवापगमच्छुक्रो देवय़ानी च मत्कृते ||
१८ ख
वैशम्पाय़न उवाच:
ततः कन्यासहस्रेण वृता शिविकय़ा तदा |
१९ क
वैशम्पाय़न उवाच:
पितुर्निय़ोगात्त्वरिता निश्चक्राम पुरोत्तमात् ||
१९ ख
शर्मिष्ठो उवाच:
अहं कन्यासहस्रेण दासी ते परिचारिका |
२० क
शर्मिष्ठो उवाच:
अनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता ||
२० ख
देवय़ान्यु उवाच:
स्तुवतो दुहिता तेऽहं वन्दिनः प्रतिगृह्णतः |
२१ क
देवय़ान्यु उवाच:
स्तूय़मानस्य दुहिता कथं दासी भविष्यसि ||
२१ ख
शर्मिष्ठो उवाच:
येन केनचिदार्तानां ज्ञातीनां सुखमावहेत् |
२२ क
शर्मिष्ठो उवाच:
अतस्त्वामनुय़ास्यामि यत्र दास्यति ते पिता ||
२२ ख
वैशम्पाय़न उवाच:
प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः |
२३ क
वैशम्पाय़न उवाच:
देवय़ानी नृपश्रेष्ठ पितरं वाक्यमव्रवीत् ||
२३ ख
वैशम्पाय़न उवाच:
प्रविशामि पुरं तात तुष्टास्मि द्विजसत्तम |
२४ क
वैशम्पाय़न उवाच:
अमोघं तव विज्ञानमस्ति विद्यावलं च ते ||
२४ ख
वैशम्पाय़न उवाच:
एवमुक्तो दुहित्रा स द्विजश्रेष्ठो महाय़शाः |
२५ क
वैशम्पाय़न उवाच:
प्रविवेश पुरं हृष्टः पूजितः सर्वदानवैः ||
२५ ख