chevron_left अनुशासन पर्व अध्याय ७५
युधिष्ठिर उवाच:
विधिं गवां परमहं श्रोतुमिच्छामि तत्त्वतः |
१ क
युधिष्ठिर उवाच:
येन ताञ्शाश्वताँल्लोकानखिलानश्नुवीमहि ||
१ ख
भीष्म उवाच:
न गोदानात्परं किञ्चिद्विद्यते वसुधाधिप |
२ क
भीष्म उवाच:
गौर्हि न्याय़ागता दत्ता सद्यस्तारय़ते कुलम् ||
२ ख
भीष्म उवाच:
सतामर्थे सम्यगुत्पादितो यः; स वै कॢप्तः सम्यगिष्टः प्रजाभ्यः |
३ क
भीष्म उवाच:
तस्मात्पूर्वं ह्यादिकाले प्रवृत्तं; गवां दाने शृणु राजन्विधिं मे ||
३ ख
भीष्म उवाच:
पुरा गोषूपनीतासु गोषु सन्दिग्धदर्शिना |
४ क
भीष्म उवाच:
मान्धात्रा प्रकृतं प्रश्नं वृहस्पतिरभाषत ||
४ ख
भीष्म उवाच:
द्विजातिमभिसत्कृत्य श्वः कालमभिवेद्य च |
५ क
भीष्म उवाच:
प्रदानार्थे निय़ुञ्जीत रोहिणीं निय़तव्रतः ||
५ ख
भीष्म उवाच:
आह्वानं च प्रय़ुञ्जीत समङ्गे वहुलेति च |
६ क
भीष्म उवाच:
प्रविश्य च गवां मध्यमिमां श्रुतिमुदाहरेत् ||
६ ख
भीष्म उवाच:
गौर्मे माता गोवृषभः पिता मे; दिवं शर्म जगती मे प्रतिष्ठा |
७ क
भीष्म उवाच:
प्रपद्यैवं शर्वरीमुष्य गोषु; मुनिर्वाणीमुत्सृजेद्गोप्रदाने ||
७ ख
भीष्म उवाच:
स तामेकां निशां गोभिः समसख्यः समव्रतः |
८ क
भीष्म उवाच:
ऐकात्म्यगमनात्सद्यः कल्मषाद्विप्रमुच्यते ||
८ ख
भीष्म उवाच:
उत्सृष्टवृषवत्सा हि प्रदेय़ा सूर्यदर्शने |
९ क
भीष्म उवाच:
त्रिविधं प्रतिपत्तव्यमर्थवादाशिषः स्तवाः ||
९ ख
भीष्म उवाच:
ऊर्जस्विन्य ऊर्जमेधाश्च यज्ञो; गर्भोऽमृतस्य जगतश्च प्रतिष्ठा |
१० क
भीष्म उवाच:
क्षितौ राधःप्रभवः शश्वदेव; प्राजापत्याः सर्वमित्यर्थवादः ||
१० ख
भीष्म उवाच:
गावो ममैनः प्रणुदन्तु सौर्या; स्तथा सौम्याः स्वर्गय़ानाय़ सन्तु |
११ क
भीष्म उवाच:
आम्नाता मे ददतीराश्रय़ं तु; तथानुक्ताः सन्तु सर्वाशिषो मे ||
११ ख
भीष्म उवाच:
शेषोत्सर्गे कर्मभिर्देहमोक्षे; सरस्वत्यः श्रेय़सि सम्प्रवृत्ताः |
१२ क
भीष्म उवाच:
यूय़ं नित्यं पुण्यकर्मोपवाह्या; दिशध्वं मे गतिमिष्टां प्रपन्नाः ||
१२ ख
भीष्म उवाच:
या वै यूय़ं सोऽहमद्यैकभावो; युष्मान्दत्त्वा चाहमात्मप्रदाता |
१३ क
भीष्म उवाच:
मनश्च्युता मनएवोपपन्नाः; सन्धुक्षध्वं सौम्यरूपोग्ररूपाः ||
१३ ख
भीष्म उवाच:
एवं तस्याग्रे पूर्वमर्धं वदेत; गवां दाता विधिवत्पूर्वदृष्टम् |
१४ क
भीष्म उवाच:
प्रतिव्रूय़ाच्छेषमर्धं द्विजातिः; प्रतिगृह्णन्वै गोप्रदाने विधिज्ञः ||
१४ ख
भीष्म उवाच:
गां ददानीति वक्तव्यमर्घ्यवस्त्रवसुप्रदः |
१५ क
भीष्म उवाच:
ऊधस्या भरितव्या च वैष्णवीति च चोदय़ेत् ||
१५ ख
भीष्म उवाच:
नाम सङ्कीर्तय़ेत्तस्या यथासङ्ख्योत्तरं स वै |
१६ क
भीष्म उवाच:
फलं षड्विंशदष्टौ च सहस्राणि च विंशतिः ||
१६ ख
भीष्म उवाच:
एवमेतान्गुणान्वृद्धान्गवादीनां यथाक्रमम् |
१७ क
भीष्म उवाच:
गोप्रदाता समाप्नोति समस्तानष्टमे क्रमे ||
१७ ख
भीष्म उवाच:
गोदः शीली निर्भय़श्चार्घदाता; न स्याद्दुःखी वसुदाता च कामी |
१८ क
भीष्म उवाच:
ऊधस्योढा भारत यश्च विद्वा; न्व्याख्यातास्ते वैष्णवाश्चन्द्रलोकाः ||
१८ ख
भीष्म उवाच:
गा वै दत्त्वा गोव्रती स्यात्त्रिरात्रं; निशां चैकां संवसेतेह ताभिः |
१९ क
भीष्म उवाच:
काम्याष्टम्यां वर्तितव्यं त्रिरात्रं; रसैर्वा गोः शकृता प्रस्नवैर्वा ||
१९ ख
भीष्म उवाच:
वेदव्रती स्याद्वृषभप्रदाता; वेदावाप्तिर्गोय़ुगस्य प्रदाने |
२० क
भीष्म उवाच:
तथा गवां विधिमासाद्य यज्वा; लोकानग्र्यान्विन्दते नाविधिज्ञः ||
२० ख
भीष्म उवाच:
कामान्सर्वान्पार्थिवानेकसंस्था; न्यो वै दद्यात्कामदुघां च धेनुम् |
२१ क
भीष्म उवाच:
सम्यक्ताः स्युर्हव्यकव्यौघवत्य; स्तासामुक्ष्णां ज्याय़सां सम्प्रदानम् ||
२१ ख
भीष्म उवाच:
न चाशिष्याय़ाव्रताय़ोपकुर्या; न्नाश्रद्दधानाय़ न वक्रवुद्धय़े |
२२ क
भीष्म उवाच:
गुह्यो ह्ययं सर्वलोकस्य धर्मो; नेमं धर्मं यत्र तत्र प्रजल्पेत् ||
२२ ख
भीष्म उवाच:
सन्ति लोके श्रद्दधाना मनुष्याः; सन्ति क्षुद्रा राक्षसा मानुषेषु |
२३ क
भीष्म उवाच:
येषां दानं दीय़मानं ह्यनिष्टं; नास्तिक्यं चाप्याश्रय़न्ते ह्यपुण्याः ||
२३ ख
भीष्म उवाच:
वार्हस्पत्यं वाक्यमेतन्निशम्य; ये राजानो गोप्रदानानि कृत्वा |
२४ क
भीष्म उवाच:
लोकान्प्राप्ताः पुण्यशीलाः सुवृत्ता; स्तान्मे राजन्कीर्त्यमानान्निवोध ||
२४ ख
भीष्म उवाच:
उशीनरो विष्वगश्वो नृगश्च; भगीरथो विश्रुतो यौवनाश्वः |
२५ क
भीष्म उवाच:
मान्धाता वै मुचुकुन्दश्च राजा; भूरिद्युम्नो नैषधः सोमकश्च ||
२५ ख
भीष्म उवाच:
पुरूरवा भरतश्चक्रवर्ती; यस्यान्वय़े भारताः सर्व एव |
२६ क
भीष्म उवाच:
तथा वीरो दाशरथिश्च रामो; ये चाप्यन्ये विश्रुताः कीर्तिमन्तः ||
२६ ख
भीष्म उवाच:
तथा राजा पृथुकर्मा दिलीपो; दिवं प्राप्तो गोप्रदाने विधिज्ञः |
२७ क
भीष्म उवाच:
यज्ञैर्दानैस्तपसा राजधर्मै; र्मान्धाताभूद्गोप्रदानैश्च युक्तः ||
२७ ख
भीष्म उवाच:
तस्मात्पार्थ त्वमपीमां मय़ोक्तां; वार्हस्पतीं भारतीं धारय़स्व |
२८ क
भीष्म उवाच:
द्विजाग्र्येभ्यः सम्प्रय़च्छ प्रतीतो; गाः पुण्या वै प्राप्य राज्यं कुरूणाम् ||
२८ ख
वैशम्पाय़न उवाच:
तथा सर्वं कृतवान्धर्मराजो; भीष्मेणोक्तो विधिवद्गोप्रदाने |
२९ क
वैशम्पाय़न उवाच:
स मान्धातुर्देवदेवोपदिष्टं; सम्यग्धर्मं धारय़ामास राजा ||
२९ ख
वैशम्पाय़न उवाच:
इति नृप सततं गवां प्रदाने; यवशकलान्सह गोमय़ैः पिवानः |
३० क
वैशम्पाय़न उवाच:
क्षितितलशय़नः शिखी यतात्मा; वृष इव राजवृषस्तदा वभूव ||
३० ख
वैशम्पाय़न उवाच:
स नृपतिरभवत्सदैव ताभ्यः; प्रय़तमना ह्यभिसंस्तुवंश्च गा वै |
३१ क
वैशम्पाय़न उवाच:
नृपधुरि च न गामय़ुङ्क्त भूय़; स्तुरगवरैरगमच्च यत्र तत्र ||
३१ ख