भगवानु उवाच:
भावं जिज्ञासमानोऽहं प्रणय़ादिदमव्रुवम् |
१ क
भगवानु उवाच:
न चाक्षेपान्न पाण्डित्यान्न क्रोधान्न विवक्षय़ा ||
१ ख
भगवानु उवाच:
वेदाहं तव माहात्म्यमुत ते वेद यद्वलम् |
२ क
भगवानु उवाच:
उत ते वेद कर्माणि न त्वां परिभवाम्यहम् ||
२ ख
भगवानु उवाच:
यथा चात्मनि कल्याणं सम्भावय़सि पाण्डव |
३ क
भगवानु उवाच:
सहस्रगुणमप्येतत्त्वय़ि सम्भावय़ाम्यहम् ||
३ ख
भगवानु उवाच:
यादृशे च कुले जन्म सर्वराजाभिपूजिते |
४ क
भगवानु उवाच:
वन्धुभिश्च सुहृद्भिश्च भीम त्वमसि तादृशः ||
४ ख
भगवानु उवाच:
जिज्ञासन्तो हि धर्मस्य सन्दिग्धस्य वृकोदर |
५ क
भगवानु उवाच:
पर्याय़ं न व्यवस्यन्ति दैवमानुषय़ोर्जनाः ||
५ ख
भगवानु उवाच:
स एव हेतुर्भूत्वा हि पुरुषस्यार्थसिद्धिषु |
६ क
भगवानु उवाच:
विनाशेऽपि स एवास्य सन्दिग्धं कर्म पौरुषम् ||
६ ख
भगवानु उवाच:
अन्यथा परिदृष्टानि कविभिर्दोषदर्शिभिः |
७ क
भगवानु उवाच:
अन्यथा परिवर्तन्ते वेगा इव नभस्वतः ||
७ ख
भगवानु उवाच:
सुमन्त्रितं सुनीतं च न्याय़तश्चोपपादितम् |
८ क
भगवानु उवाच:
कृतं मानुष्यकं कर्म दैवेनापि विरुध्यते ||
८ ख
भगवानु उवाच:
दैवमप्यकृतं कर्म पौरुषेण विहन्यते |
९ क
भगवानु उवाच:
शीतमुष्णं तथा वर्षं क्षुत्पिपासे च भारत ||
९ ख
भगवानु उवाच:
यदन्यद्दिष्टभावस्य पुरुषस्य स्वय़ङ्कृतम् |
१० क
भगवानु उवाच:
तस्मादनवरोधश्च विद्यते तत्र लक्षणम् ||
१० ख
भगवानु उवाच:
लोकस्य नान्यतो वृत्तिः पाण्डवान्यत्र कर्मणः |
११ क
भगवानु उवाच:
एवम्वुद्धिः प्रवर्तेत फलं स्यादुभय़ान्वय़ात् ||
११ ख
भगवानु उवाच:
य एवं कृतवुद्धिः सन्कर्मस्वेव प्रवर्तते |
१२ क
भगवानु उवाच:
नासिद्धौ व्यथते तस्य न सिद्धौ हर्षमश्नुते ||
१२ ख
भगवानु उवाच:
तत्रेय़मर्थमात्रा मे भीमसेन विवक्षिता |
१३ क
भगवानु उवाच:
नैकान्तसिद्धिर्मन्तव्या कुरुभिः सह संय़ुगे ||
१३ ख
भगवानु उवाच:
नातिप्रणीतरश्मिः स्यात्तथा भवति पर्यये |
१४ क
भगवानु उवाच:
विषादमर्छेद्ग्लानिं वा एतदर्थं व्रवीमि ते ||
१४ ख
भगवानु उवाच:
श्वोभूते धृतराष्ट्रस्य समीपं प्राप्य पाण्डव |
१५ क
भगवानु उवाच:
यतिष्ये प्रशमं कर्तुं युष्मदर्थमहापय़न् ||
१५ ख
भगवानु उवाच:
शमं चेत्ते करिष्यन्ति ततोऽनन्तं यशो मम |
१६ क
भगवानु उवाच:
भवतां च कृतः कामस्तेषां च श्रेय़ उत्तमम् ||
१६ ख
भगवानु उवाच:
ते चेदभिनिवेक्ष्यन्ति नाभ्युपैष्यन्ति मे वचः |
१७ क
भगवानु उवाच:
कुरवो युद्धमेवात्र रौद्रं कर्म भविष्यति ||
१७ ख
भगवानु उवाच:
अस्मिन्युद्धे भीमसेन त्वय़ि भारः समाहितः |
१८ क
भगवानु उवाच:
धूरर्जुनेन धार्या स्याद्वोढव्य इतरो जनः ||
१८ ख
भगवानु उवाच:
अहं हि यन्ता वीभत्सोर्भविता संय़ुगे सति |
१९ क
भगवानु उवाच:
धनञ्जय़स्यैष कामो न हि युद्धं न कामय़े ||
१९ ख
भगवानु उवाच:
तस्मादाशङ्कमानोऽहं वृकोदर मतिं तव |
२० क
भगवानु उवाच:
तुदन्नक्लीवय़ा वाचा तेजस्ते समदीपय़म् ||
२० ख