chevron_left भीष्म पर्व अध्याय ७५
सञ्जय़ उवाच:
ततो दुर्योधनो राजा लोहिताय़ति भास्करे |
१ क
सञ्जय़ उवाच:
सङ्ग्रामरभसो भीमं हन्तुकामोऽभ्यधावत ||
१ ख
सञ्जय़ उवाच:
तमाय़ान्तमभिप्रेक्ष्य नृवीरं दृढवैरिणम् |
२ क
सञ्जय़ उवाच:
भीमसेनः सुसङ्क्रुद्ध इदं वचनमव्रवीत् ||
२ ख
सञ्जय़ उवाच:
अय़ं स कालः सम्प्राप्तो वर्षपूगाभिकाङ्क्षितः |
३ क
सञ्जय़ उवाच:
अद्य त्वां निहनिष्यामि यदि नोत्सृजसे रणम् ||
३ ख
सञ्जय़ उवाच:
अद्य कुन्त्याः परिक्लेशं वनवासं च कृत्स्नशः |
४ क
सञ्जय़ उवाच:
द्रौपद्याश्च परिक्लेशं प्रणोत्स्यामि हते त्वय़ि ||
४ ख
सञ्जय़ उवाच:
यत्त्वं दुरोदरो भूत्वा पाण्डवानवमन्यसे |
५ क
सञ्जय़ उवाच:
तस्य पापस्य गान्धारे पश्य व्यसनमागतम् ||
५ ख
सञ्जय़ उवाच:
कर्णस्य मतमाज्ञाय़ सौवलस्य च यत्पुरा |
६ क
सञ्जय़ उवाच:
अचिन्त्य पाण्डवान्कामाद्यथेष्टं कृतवानसि ||
६ ख
सञ्जय़ उवाच:
याचमानं च यन्मोहाद्दाशार्हमवमन्यसे |
७ क
सञ्जय़ उवाच:
उलूकस्य समादेशं यद्ददासि च हृष्टवत् ||
७ ख
सञ्जय़ उवाच:
अद्य त्वा निहनिष्यामि सानुवन्धं सवान्धवम् |
८ क
सञ्जय़ उवाच:
समीकरिष्ये तत्पापं यत्पुरा कृतवानसि ||
८ ख
सञ्जय़ उवाच:
एवमुक्त्वा धनुर्घोरं विकृष्योद्भ्राम्य चासकृत् |
९ क
सञ्जय़ उवाच:
समादाय़ शरान्घोरान्महाशनिसमप्रभान् ||
९ ख
सञ्जय़ उवाच:
षड्विंशत्तरसा क्रुद्धो मुमोचाशु सुय़ोधने |
१० क
सञ्जय़ उवाच:
ज्वलिताग्निशिखाकारान्वज्रकल्पानजिह्मगान् ||
१० ख
सञ्जय़ उवाच:
ततोऽस्य कार्मुकं द्वाभ्यां सूतं द्वाभ्यां च विव्यधे |
११ क
सञ्जय़ उवाच:
चतुर्भिरश्वाञ्जवनाननय़द्यमसादनम् ||
११ ख
सञ्जय़ उवाच:
द्वाभ्यां च सुविकृष्टाभ्यां शराभ्यामरिमर्दनः |
१२ क
सञ्जय़ उवाच:
छत्रं चिच्छेद समरे राज्ञस्तस्य रथोत्तमात् ||
१२ ख
सञ्जय़ उवाच:
त्रिभिश्च तस्य चिच्छेद ज्वलन्तं ध्वजमुत्तमम् |
१३ क
सञ्जय़ उवाच:
छित्त्वा तं च ननादोच्चैस्तव पुत्रस्य पश्यतः ||
१३ ख
सञ्जय़ उवाच:
रथाच्च स ध्वजः श्रीमान्नानारत्नविभूषितः |
१४ क
सञ्जय़ उवाच:
पपात सहसा भूमिं विद्युज्जलधरादिव ||
१४ ख
सञ्जय़ उवाच:
ज्वलन्तं सूर्यसङ्काशं नागं मणिमय़ं शुभम् |
१५ क
सञ्जय़ उवाच:
ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः ||
१५ ख
सञ्जय़ उवाच:
अथैनं दशभिर्वाणैस्तोत्त्रैरिव महागजम् |
१६ क
सञ्जय़ उवाच:
आजघान रणे भीमः स्मय़न्निव महारथः ||
१६ ख
सञ्जय़ उवाच:
ततस्तु राजा सिन्धूनां रथश्रेष्ठो जय़द्रथः |
१७ क
सञ्जय़ उवाच:
दुर्योधनस्य जग्राह पार्ष्णिं सत्पुरुषोचिताम् ||
१७ ख
सञ्जय़ उवाच:
कृपश्च रथिनां श्रेष्ठः कौरव्यममितौजसम् |
१८ क
सञ्जय़ उवाच:
आरोपय़द्रथं राजन्दुर्योधनममर्षणम् ||
१८ ख
सञ्जय़ उवाच:
स गाढविद्धो व्यथितो भीमसेनेन संय़ुगे |
१९ क
सञ्जय़ उवाच:
निषसाद रथोपस्थे राजा दुर्योधनस्तदा ||
१९ ख
सञ्जय़ उवाच:
परिवार्य ततो भीमं हन्तुकामो जय़द्रथः |
२० क
सञ्जय़ उवाच:
रथैरनेकसाहस्रैर्भीमस्यावारय़द्दिशः ||
२० ख
सञ्जय़ उवाच:
धृष्टकेतुस्ततो राजन्नभिमन्युश्च वीर्यवान् |
२१ क
सञ्जय़ उवाच:
केकय़ा द्रौपदेय़ाश्च तव पुत्रानय़ोधय़न् ||
२१ ख
सञ्जय़ उवाच:
चित्रसेनः सुचित्रश्च चित्राश्वश्चित्रदर्शनः |
२२ क
सञ्जय़ उवाच:
चारुचित्रः सुचारुश्च तथा नन्दोपनन्दकौ ||
२२ ख
सञ्जय़ उवाच:
अष्टावेते महेष्वासाः सुकुमारा यशस्विनः |
२३ क
सञ्जय़ उवाच:
अभिमन्युरथं राजन्समन्तात्पर्यवारय़न् ||
२३ ख
सञ्जय़ उवाच:
आजघान ततस्तूर्णमभिमन्युर्महामनाः |
२४ क
सञ्जय़ उवाच:
एकैकं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः |
२४ ख
सञ्जय़ उवाच:
वज्रमृत्युप्रतीकाशैर्विचित्राय़ुधनिःसृतैः ||
२४ ग
सञ्जय़ उवाच:
अमृष्यमाणास्ते सर्वे सौभद्रं रथसत्तमम् |
२५ क
सञ्जय़ उवाच:
ववर्षुर्मार्गणैस्तीक्ष्णैर्गिरिं मेरुमिवाम्वुदाः ||
२५ ख
सञ्जय़ उवाच:
स पीड्यमानः समरे कृतास्त्रो युद्धदुर्मदः |
२६ क
सञ्जय़ उवाच:
अभिमन्युर्महाराज तावकान्समकम्पय़त् |
२६ ख
सञ्जय़ उवाच:
यथा देवासुरे युद्धे वज्रपाणिर्महासुरान् ||
२६ ग
सञ्जय़ उवाच:
विकर्णस्य ततो भल्लान्प्रेषय़ामास भारत |
२७ क
सञ्जय़ उवाच:
चतुर्दश रथश्रेष्ठो घोरानाशीविषोपमान् |
२७ ख
सञ्जय़ उवाच:
ध्वजं सूतं हय़ांश्चास्य छित्त्वा नृत्यन्निवाहवे ||
२७ ग
सञ्जय़ उवाच:
पुनश्चान्याञ्शरान्पीतानकुण्ठाग्राञ्शिलाशितान् |
२८ क
सञ्जय़ उवाच:
प्रेषय़ामास सौभद्रो विकर्णाय़ महावलः ||
२८ ख
सञ्जय़ उवाच:
ते विकर्णं समासाद्य कङ्कवर्हिणवाससः |
२९ क
सञ्जय़ उवाच:
भित्त्वा देहं गता भूमिं ज्वलन्त इव पन्नगाः ||
२९ ख
सञ्जय़ उवाच:
ते शरा हेमपुङ्खाग्रा व्यदृश्यन्त महीतले |
३० क
सञ्जय़ उवाच:
विकर्णरुधिरक्लिन्ना वमन्त इव शोणितम् ||
३० ख
सञ्जय़ उवाच:
विकर्णं वीक्ष्य निर्भिन्नं तस्यैवान्ये सहोदराः |
३१ क
सञ्जय़ उवाच:
अभ्यद्रवन्त समरे सौभद्रप्रमुखान्रथान् ||
३१ ख
सञ्जय़ उवाच:
अभिय़ात्वा तथैवाशु रथस्थान्सूर्यवर्चसः |
३२ क
सञ्जय़ उवाच:
अविध्यन्समरेऽन्योन्यं संरव्धा युद्धदुर्मदाः ||
३२ ख
सञ्जय़ उवाच:
दुर्मुखः श्रुतकर्माणं विद्ध्वा सप्तभिराशुगैः |
३३ क
सञ्जय़ उवाच:
ध्वजमेकेन चिच्छेद सारथिं चास्य सप्तभिः ||
३३ ख
सञ्जय़ उवाच:
अश्वाञ्जाम्वूनदैर्जालैः प्रच्छन्नान्वातरंहसः |
३४ क
सञ्जय़ उवाच:
जघान षड्भिरासाद्य सारथिं चाभ्यपातय़त् ||
३४ ख
सञ्जय़ उवाच:
स हताश्वे रथे तिष्ठञ्श्रुतकर्मा महारथः |
३५ क
सञ्जय़ उवाच:
शक्तिं चिक्षेप सङ्क्रुद्धो महोल्कां ज्वलितामिव ||
३५ ख
सञ्जय़ उवाच:
सा दुर्मुखस्य विपुलं वर्म भित्त्वा यशस्विनः |
३६ क
सञ्जय़ उवाच:
विदार्य प्राविशद्भूमिं दीप्यमाना सुतेजना ||
३६ ख
सञ्जय़ उवाच:
तं दृष्ट्वा विरथं तत्र सुतसोमो महावलः |
३७ क
सञ्जय़ उवाच:
पश्यतां सर्वसैन्यानां रथमारोपय़त्स्वकम् ||
३७ ख
सञ्जय़ उवाच:
श्रुतकीर्तिस्तथा वीरो जय़त्सेनं सुतं तव |
३८ क
सञ्जय़ उवाच:
अभ्ययात्समरे राजन्हन्तुकामो यशस्विनम् ||
३८ ख
सञ्जय़ उवाच:
तस्य विक्षिपतश्चापं श्रुतकीर्तेर्महात्मनः |
३९ क
सञ्जय़ उवाच:
चिच्छेद समरे राजञ्जय़त्सेनः सुतस्तव |
३९ ख
सञ्जय़ उवाच:
क्षुरप्रेण सुतीक्ष्णेन प्रहसन्निव भारत ||
३९ ग
सञ्जय़ उवाच:
तं दृष्ट्वा छिन्नधन्वानं शतानीकः सहोदरम् |
४० क
सञ्जय़ उवाच:
अभ्यपद्यत तेजस्वी सिंहवद्विनदन्मुहुः ||
४० ख
सञ्जय़ उवाच:
शतानीकस्तु समरे दृढं विस्फार्य कार्मुकम् |
४१ क
सञ्जय़ उवाच:
विव्याध दशभिस्तूर्णं जय़त्सेनं शिलीमुखैः ||
४१ ख
सञ्जय़ उवाच:
अथान्येन सुतीक्ष्णेन सर्वावरणभेदिना |
४२ क
सञ्जय़ उवाच:
शतानीको जय़त्सेनं विव्याध हृदय़े भृशम् ||
४२ ख
सञ्जय़ उवाच:
तथा तस्मिन्वर्तमाने दुष्कर्णो भ्रातुरन्तिके |
४३ क
सञ्जय़ उवाच:
चिच्छेद समरे चापं नाकुलेः क्रोधमूर्छितः ||
४३ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ भारसाधनमुत्तमम् |
४४ क
सञ्जय़ उवाच:
समादत्त शितान्वाणाञ्शतानीको महावलः ||
४४ ख
सञ्जय़ उवाच:
तिष्ठ तिष्ठेति चामन्त्र्य दुष्कर्णं भ्रातुरग्रतः |
४५ क
सञ्जय़ उवाच:
मुमोच निशितान्वाणाञ्ज्वलितान्पन्नगानिव ||
४५ ख
सञ्जय़ उवाच:
ततोऽस्य धनुरेकेन द्वाभ्यां सूतं च मारिष |
४६ क
सञ्जय़ उवाच:
चिच्छेद समरे तूर्णं तं च विव्याध सप्तभिः ||
४६ ख
सञ्जय़ उवाच:
अश्वान्मनोजवांश्चास्य कल्माषान्वीतकल्मषः |
४७ क
सञ्जय़ उवाच:
जघान निशितैस्तूर्णं सर्वान्द्वादशभिः शरैः ||
४७ ख
सञ्जय़ उवाच:
अथापरेण भल्लेन सुमुक्तेन निपातिना |
४८ क
सञ्जय़ उवाच:
दुष्कर्णं समरे क्रुद्धो विव्याध हृदय़े भृशम् ||
४८ ख