सञ्जय़ उवाच:
सलिले जनिते तस्मिन्कौन्तेय़ेन महात्मना |
१ क
सञ्जय़ उवाच:
निवारिते द्विषत्सैन्ये कृते च शरवेश्मनि ||
१ ख
सञ्जय़ उवाच:
वासुदेवो रथात्तूर्णमवतीर्य महाद्युतिः |
२ क
सञ्जय़ उवाच:
मोचय़ामास तुरगान्वितुन्नान्कङ्कपत्रिभिः ||
२ ख
सञ्जय़ उवाच:
अदृष्टपूर्वं तद्दृष्ट्वा सिंहनादो महानभूत् |
३ क
सञ्जय़ उवाच:
सिद्धचारणसङ्घानां सैनिकानां च सर्वशः ||
३ ख
सञ्जय़ उवाच:
पदातिनं तु कौन्तेय़ं युध्यमानं नरर्षभाः |
४ क
सञ्जय़ उवाच:
नाशक्नुवन्वारय़ितुं तदद्भुतमिवाभवत् ||
४ ख
सञ्जय़ उवाच:
आपतत्सु रथौघेषु प्रभूतगजवाजिषु |
५ क
सञ्जय़ उवाच:
नासम्भ्रमत्तदा पार्थस्तदस्य पुरुषानति ||
५ ख
सञ्जय़ उवाच:
व्यसृजन्त शरौघांस्ते पाण्डवं प्रति पार्थिवाः |
६ क
सञ्जय़ उवाच:
न चाव्यथत धर्मात्मा वासविः परवीरहा ||
६ ख
सञ्जय़ उवाच:
स तानि शरजालानि गदाः प्रासांश्च वीर्यवान् |
७ क
सञ्जय़ उवाच:
आगतानग्रसत्पार्थः सरितः सागरो यथा ||
७ ख
सञ्जय़ उवाच:
अस्त्रवेगेन महता पार्थो वाहुवलेन च |
८ क
सञ्जय़ उवाच:
सर्वेषां पार्थिवेन्द्राणामग्रसत्ताञ्शरोत्तमान् ||
८ ख
सञ्जय़ उवाच:
तत्तु पार्थस्य विक्रान्तं वासुदेवस्य चोभय़ोः |
९ क
सञ्जय़ उवाच:
अपूजय़न्महाराज कौरवाः परमाद्भुतम् ||
९ ख
सञ्जय़ उवाच:
किमद्भुततरं लोके भविताप्यथ वाप्यभूत् |
१० क
सञ्जय़ उवाच:
यदश्वान्पार्थगोविन्दौ मोचय़ामासतू रणे ||
१० ख
सञ्जय़ उवाच:
भय़ं विपुलमस्मासु तावधत्तां नरोत्तमौ |
११ क
सञ्जय़ उवाच:
तेजो विदधतुश्चोग्रं विस्रव्धौ रणमूर्धनि ||
११ ख
सञ्जय़ उवाच:
अथोत्स्मय़न्हृषीकेशः स्त्रीमध्य इव भारत |
१२ क
सञ्जय़ उवाच:
अर्जुनेन कृते सङ्ख्ये शरगर्भगृहे तदा ||
१२ ख
सञ्जय़ उवाच:
उपावर्तय़दव्यग्रस्तानश्वान्पुष्करेक्षणः |
१३ क
सञ्जय़ उवाच:
मिषतां सर्वसैन्यानां त्वदीय़ानां विशां पते ||
१३ ख
सञ्जय़ उवाच:
तेषां श्रमं च ग्लानिं च वेपथुं वमथुं व्रणान् |
१४ क
सञ्जय़ उवाच:
सर्वं व्यपानुदत्कृष्णः कुशलो ह्यश्वकर्मणि ||
१४ ख
सञ्जय़ उवाच:
शल्यानुद्धृत्य पाणिभ्यां परिमृज्य च तान्हय़ान् |
१५ क
सञ्जय़ उवाच:
उपावृत्य यथान्याय़ं पाय़यामास वारि सः ||
१५ ख
सञ्जय़ उवाच:
स ताँल्लव्धोदकान्स्नाताञ्जग्धान्नान्विगतक्लमान् |
१६ क
सञ्जय़ उवाच:
योजय़ामास संहृष्टः पुनरेव रथोत्तमे ||
१६ ख
सञ्जय़ उवाच:
स तं रथवरं शौरिः सर्वशस्त्रभृतां वरः |
१७ क
सञ्जय़ उवाच:
समास्थाय़ महातेजाः सार्जुनः प्रय़यौ द्रुतम् ||
१७ ख
सञ्जय़ उवाच:
रथं रथवरस्याजौ युक्तं लव्धोदकैर्हय़ैः |
१८ क
सञ्जय़ उवाच:
दृष्ट्वा कुरुवलश्रेष्ठाः पुनर्विमनसोऽभवन् ||
१८ ख
सञ्जय़ उवाच:
विनिःश्वसन्तस्ते राजन्भग्नदंष्ट्रा इवोरगाः |
१९ क
सञ्जय़ उवाच:
धिगहो धिग्गतः पार्थः कृष्णश्चेत्यव्रुवन्पृथक् ||
१९ ख
सञ्जय़ उवाच:
सर्वक्षत्रस्य मिषतो रथेनैकेन दंशितौ |
२० क
सञ्जय़ उवाच:
वालक्रीडनकेनेव कदर्थीकृत्य नो वलम् ||
२० ख
सञ्जय़ उवाच:
क्रोशतां यतमानानामसंसक्तौ परन्तपौ |
२१ क
सञ्जय़ उवाच:
दर्शय़ित्वात्मनो वीर्यं प्रय़ातौ सर्वराजसु ||
२१ ख
सञ्जय़ उवाच:
तौ प्रय़ातौ पुनर्दृष्ट्वा तदान्ये सैनिकाव्रुवन् |
२२ क
सञ्जय़ उवाच:
त्वरध्वं कुरवः सर्वे वधे कृष्णकिरीटिनोः ||
२२ ख
सञ्जय़ उवाच:
रथं युक्त्वा हि दाशार्हो मिषतां सर्वधन्विनाम् |
२३ क
सञ्जय़ उवाच:
जय़द्रथाय़ यात्येष कदर्थीकृत्य नो रणे ||
२३ ख
सञ्जय़ उवाच:
तत्र केचिन्मिथो राजन्समभाषन्त भूमिपाः |
२४ क
सञ्जय़ उवाच:
अदृष्टपूर्वं सङ्ग्रामे तद्दृष्ट्वा महदद्भुतम् ||
२४ ख
सञ्जय़ उवाच:
सर्वसैन्यानि राजा च धृतराष्ट्रोऽत्ययं गतः |
२५ क
सञ्जय़ उवाच:
दुर्योधनापराधेन क्षत्रं कृत्स्ना च मेदिनी ||
२५ ख
सञ्जय़ उवाच:
विलय़ं समनुप्राप्ता तच्च राजा न वुध्यते |
२६ क
सञ्जय़ उवाच:
इत्येवं क्षत्रिय़ास्तत्र व्रुवन्त्यन्ये च भारत ||
२६ ख
सञ्जय़ उवाच:
सिन्धुराजस्य यत्कृत्यं गतस्य यमसादनम् |
२७ क
सञ्जय़ उवाच:
तत्करोतु वृथादृष्टिर्धार्तराष्ट्रोऽनुपाय़वित् ||
२७ ख
सञ्जय़ उवाच:
ततः शीघ्रतरं प्राय़ात्पाण्डवः सैन्धवं प्रति |
२८ क
सञ्जय़ उवाच:
निवर्तमाने तिग्मांशौ हृष्टैः पीतोदकैर्हय़ैः ||
२८ ख
सञ्जय़ उवाच:
तं प्रय़ान्तं महावाहुं सर्वशस्त्रभृतां वरम् |
२९ क
सञ्जय़ उवाच:
नाशक्नुवन्वारय़ितुं योधाः क्रुद्धमिवान्तकम् ||
२९ ख
सञ्जय़ उवाच:
विद्राव्य तु ततः सैन्यं पाण्डवः शत्रुतापनः |
३० क
सञ्जय़ उवाच:
यथा मृगगणान्सिंहः सैन्धवार्थे व्यलोडय़त् ||
३० ख
सञ्जय़ उवाच:
गाहमानस्त्वनीकानि तूर्णमश्वानचोदय़त् |
३१ क
सञ्जय़ उवाच:
वलाकवर्णान्दाशार्हः पाञ्चजन्यं व्यनादय़त् ||
३१ ख
सञ्जय़ उवाच:
कौन्तेय़ेनाग्रतः सृष्टा न्यपतन्पृष्ठतः शराः |
३२ क
सञ्जय़ उवाच:
तूर्णात्तूर्णतरं ह्यश्वास्तेऽवहन्वातरंहसः ||
३२ ख
सञ्जय़ उवाच:
वातोद्धूतपताकान्तं रथं जलदनिस्वनम् |
३३ क
सञ्जय़ उवाच:
घोरं कपिध्वजं दृष्ट्वा विषण्णा रथिनोऽभवन् ||
३३ ख
सञ्जय़ उवाच:
दिवाकरेऽथ रजसा सर्वतः संवृते भृशम् |
३४ क
सञ्जय़ उवाच:
शरार्ताश्च रणे योधा न कृष्णौ शेकुरीक्षितुम् ||
३४ ख
सञ्जय़ उवाच:
ततो नृपतय़ः क्रुद्धाः परिवव्रुर्धनञ्जय़म् |
३५ क
सञ्जय़ उवाच:
क्षत्रिय़ा वहवश्चान्ये जय़द्रथवधैषिणम् ||
३५ ख
सञ्जय़ उवाच:
अपनीय़त्सु शल्येषु धिष्ठितं पुरुषर्षभम् |
३६ क
सञ्जय़ उवाच:
दुर्योधनस्त्वगात्पार्थं त्वरमाणो महाहवे ||
३६ ख