वैशम्पाय़न उवाच:
अथ दीर्घस्य कालस्य देवय़ानी नृपोत्तम |
१ क
वैशम्पाय़न उवाच:
वनं तदेव निर्याता क्रीडार्थं वरवर्णिनी ||
१ ख
वैशम्पाय़न उवाच:
तेन दासीसहस्रेण सार्धं शर्मिष्ठय़ा तदा |
२ क
वैशम्पाय़न उवाच:
तमेव देशं सम्प्राप्ता यथाकामं चचार सा |
२ ख
वैशम्पाय़न उवाच:
ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम् ||
२ ग
वैशम्पाय़न उवाच:
क्रीडन्त्योऽभिरताः सर्वाः पिवन्त्यो मधुमाधवीम् |
३ क
वैशम्पाय़न उवाच:
खादन्त्यो विविधान्भक्ष्यान्विदशन्त्यः फलानि च ||
३ ख
वैशम्पाय़न उवाच:
पुनश्च नाहुषो राजा मृगलिप्सुर्यदृच्छय़ा |
४ क
वैशम्पाय़न उवाच:
तमेव देशं सम्प्राप्तो जलार्थी श्रमकर्शितः ||
४ ख
वैशम्पाय़न उवाच:
ददृशे देवय़ानीं च शर्मिष्ठां ताश्च योषितः |
५ क
वैशम्पाय़न उवाच:
पिवन्तीर्ललमानाश्च दिव्याभरणभूषिताः ||
५ ख
वैशम्पाय़न उवाच:
उपविष्टां च ददृशे देवय़ानीं शुचिस्मिताम् |
६ क
वैशम्पाय़न उवाच:
रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनाम् |
६ ख
वैशम्पाय़न उवाच:
शर्मिष्ठय़ा सेव्यमानां पादसंवाहनादिभिः ||
६ ग
यय़ातिरु उवाच:
द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते |
७ क
यय़ातिरु उवाच:
गोत्रे च नामनी चैव द्वय़ोः पृच्छामि वामहम् ||
७ ख
देवय़ान्यु उवाच:
आख्यास्याम्यहमादत्स्व वचनं मे नराधिप |
८ क
देवय़ान्यु उवाच:
शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम् ||
८ ख
देवय़ान्यु उवाच:
इय़ं च मे सखी दासी यत्राहं तत्र गामिनी |
९ क
देवय़ान्यु उवाच:
दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः ||
९ ख
यय़ातिरु उवाच:
कथं नु ते सखी दासी कन्येय़ं वरवर्णिनी |
१० क
यय़ातिरु उवाच:
असुरेन्द्रसुता सुभ्रु परं कौतूहलं हि मे ||
१० ख
देवय़ान्यु उवाच:
सर्व एव नरव्याघ्र विधानमनुवर्तते |
११ क
देवय़ान्यु उवाच:
विधानविहितं मत्वा मा विचित्राः कथाः कृथाः ||
११ ख
देवय़ान्यु उवाच:
राजवद्रूपवेषौ ते व्राह्मीं वाचं विभर्षि च |
१२ क
देवय़ान्यु उवाच:
किंनामा त्वं कुतश्चासि कस्य पुत्रश्च शंस मे ||
१२ ख
यय़ातिरु उवाच:
व्रह्मचर्येण कृत्स्नो मे वेदः श्रुतिपथं गतः |
१३ क
यय़ातिरु उवाच:
राजाहं राजपुत्रश्च यय़ातिरिति विश्रुतः ||
१३ ख
देवय़ान्यु उवाच:
केनास्यर्थेन नृपते इमं देशमुपागतः |
१४ क
देवय़ान्यु उवाच:
जिघृक्षुर्वारिजं किञ्चिदथ वा मृगलिप्सय़ा ||
१४ ख
यय़ातिरु उवाच:
मृगलिप्सुरहं भद्रे पानीय़ार्थमुपागतः |
१५ क
यय़ातिरु उवाच:
वहु चाप्यनुय़ुक्तोऽस्मि तन्मानुज्ञातुमर्हसि ||
१५ ख
देवय़ान्यु उवाच:
द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठय़ा सह |
१६ क
देवय़ान्यु उवाच:
त्वदधीनास्मि भद्रं ते सखा भर्ता च मे भव ||
१६ ख
यय़ातिरु उवाच:
विद्ध्यौशनसि भद्रं ते न त्वामर्होऽस्मि भामिनि |
१७ क
यय़ातिरु उवाच:
अविवाह्या हि राजानो देवय़ानि पितुस्तव ||
१७ ख
देवय़ान्यु उवाच:
संसृष्टं व्रह्मणा क्षत्रं क्षत्रं च व्रह्मसंहितम् |
१८ क
देवय़ान्यु उवाच:
ऋषिश्च ऋषिपुत्रश्च नाहुषाङ्ग वहस्व माम् ||
१८ ख
यय़ातिरु उवाच:
एकदेहोद्भवा वर्णाश्चत्वारोऽपि वराङ्गने |
१९ क
यय़ातिरु उवाच:
पृथग्धर्माः पृथक्षौचास्तेषां तु व्राह्मणो वरः ||
१९ ख
देवय़ान्यु उवाच:
पाणिधर्मो नाहुषाय़ं न पुम्भिः सेवितः पुरा |
२० क
देवय़ान्यु उवाच:
तं मे त्वमग्रहीरग्रे वृणोमि त्वामहं ततः ||
२० ख
देवय़ान्यु उवाच:
कथं नु मे मनस्विन्याः पाणिमन्यः पुमान्स्पृशेत् |
२१ क
देवय़ान्यु उवाच:
गृहीतमृषिपुत्रेण स्वय़ं वाप्यृषिणा त्वय़ा ||
२१ ख
यय़ातिरु उवाच:
क्रुद्धादाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् |
२२ क
यय़ातिरु उवाच:
दुराधर्षतरो विप्रः पुरुषेण विजानता ||
२२ ख
देवय़ान्यु उवाच:
कथमाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् |
२३ क
देवय़ान्यु उवाच:
दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ ||
२३ ख
यय़ातिरु उवाच:
एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते |
२४ क
यय़ातिरु उवाच:
हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः ||
२४ ख
यय़ातिरु उवाच:
दुराधर्षतरो विप्रस्तस्माद्भीरु मतो मम |
२५ क
यय़ातिरु उवाच:
अतोऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम् ||
२५ ख
देवय़ान्यु उवाच:
दत्तां वहस्व पित्रा मां त्वं हि राजन्वृतो मय़ा |
२६ क
देवय़ान्यु उवाच:
अय़ाचतो भय़ं नास्ति दत्तां च प्रतिगृह्णतः ||
२६ ख
वैशम्पाय़न उवाच:
त्वरितं देवय़ान्याथ प्रेषितं पितुरात्मनः |
२७ क
वैशम्पाय़न उवाच:
श्रुत्वैव च स राजानं दर्शय़ामास भार्गवः ||
२७ ख
वैशम्पाय़न उवाच:
दृष्ट्वैव चागतं शुक्रं यय़ातिः पृथिवीपतिः |
२८ क
वैशम्पाय़न उवाच:
ववन्दे व्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः ||
२८ ख
देवय़ान्यु उवाच:
राजाय़ं नाहुषस्तात दुर्गे मे पाणिमग्रहीत् |
२९ क
देवय़ान्यु उवाच:
नमस्ते देहि मामस्मै नान्यं लोके पतिं वृणे ||
२९ ख
शुक्र उवाच:
वृतोऽनय़ा पतिर्वीर सुतय़ा त्वं ममेष्टय़ा |
३० क
शुक्र उवाच:
गृहाणेमां मय़ा दत्तां महिषीं नहुषात्मज ||
३० ख
यय़ातिरु उवाच:
अधर्मो न स्पृशेदेवं महान्मामिह भार्गव |
३१ क
यय़ातिरु उवाच:
वर्णसङ्करजो व्रह्मन्निति त्वां प्रवृणोम्यहम् ||
३१ ख
शुक्र उवाच:
अधर्मात्त्वां विमुञ्चामि वरय़स्व यथेप्षितम् |
३२ क
शुक्र उवाच:
अस्मिन्विवाहे मा ग्लासीरहं पापं नुदामि ते ||
३२ ख
शुक्र उवाच:
वहस्व भार्यां धर्मेण देवय़ानीं सुमध्यमाम् |
३३ क
शुक्र उवाच:
अनय़ा सह सम्प्रीतिमतुलां समवाप्स्यसि ||
३३ ख
शुक्र उवाच:
इय़ं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी |
३४ क
शुक्र उवाच:
सम्पूज्या सततं राजन्मा चैनां शय़ने ह्वय़ेः ||
३४ ख
वैशम्पाय़न उवाच:
एवमुक्तो यय़ातिस्तु शुक्रं कृत्वा प्रदक्षिणम् |
३५ क
वैशम्पाय़न उवाच:
जगाम स्वपुरं हृष्टो अनुज्ञातो महात्मना ||
३५ ख