chevron_left अनुशासन पर्व अध्याय ७६
वैशम्पाय़न उवाच:
ततो युधिष्ठिरो राजा भूय़ः शान्तनवं नृप |
१ क
वैशम्पाय़न उवाच:
गोदाने विस्तरं धीमान्पप्रच्छ विनय़ान्वितः ||
१ ख
युधिष्ठिर उवाच:
गोप्रदाने गुणान्सम्यक्पुनः प्रव्रूहि भारत |
२ क
युधिष्ठिर उवाच:
न हि तृप्याम्यहं वीर शृण्वानोऽमृतमीदृशम् ||
२ ख
युधिष्ठिर उवाच:
इत्युक्तो धर्मराजेन तदा शान्तनवो नृप |
३ क
युधिष्ठिर उवाच:
सम्यगाह गुणांस्तस्मै गोप्रदानस्य केवलान् ||
३ ख
भीष्म उवाच:
वत्सलां गुणसम्पन्नां तरुणीं वस्त्रसंवृताम् |
४ क
भीष्म उवाच:
दत्त्वेदृशीं गां विप्राय़ सर्वपापैः प्रमुच्यते ||
४ ख
भीष्म उवाच:
असुर्या नाम ते लोका गां दत्त्वा तत्र गच्छति |
५ क
भीष्म उवाच:
पीतोदकां जग्धतृणां नष्टदुग्धां निरिन्द्रिय़ाम् ||
५ ख
भीष्म उवाच:
जरोग्रामुपय़ुक्तार्थां जीर्णां कूपमिवाजलम् |
६ क
भीष्म उवाच:
दत्त्वा तमः प्रविशति द्विजं क्लेशेन योजय़ेत् ||
६ ख
भीष्म उवाच:
दुष्टा रुष्टा व्याधिता दुर्वला वा; न दातव्या याश्च मूल्यैरदत्तैः |
७ क
भीष्म उवाच:
क्लेशैर्विप्रं योऽफलैः संय़ुनक्ति; तस्यावीर्याश्चाफलाश्चैव लोकाः ||
७ ख
भीष्म उवाच:
वलान्विताः शीलवय़ोपपन्नाः; सर्वाः प्रशंसन्ति सुगन्धवत्यः |
८ क
भीष्म उवाच:
यथा हि गङ्गा सरितां वरिष्ठा; तथार्जुनीनां कपिला वरिष्ठा ||
८ ख
युधिष्ठिर उवाच:
कस्मात्समाने वहुलाप्रदाने; सद्भिः प्रशस्तं कपिलाप्रदानम् |
९ क
युधिष्ठिर उवाच:
विशेषमिच्छामि महानुभाव; श्रोतुं समर्थो हि भवान्प्रवक्तुम् ||
९ ख
भीष्म उवाच:
वृद्धानां व्रुवतां तात श्रुतं मे यत्प्रभाषसे |
१० क
भीष्म उवाच:
वक्ष्यामि तदशेषेण रोहिण्यो निर्मिता यथा ||
१० ख
भीष्म उवाच:
प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वय़म्भुवा |
११ क
भीष्म उवाच:
असृजद्वृत्तिमेवाग्रे प्रजानां हितकाम्यया ||
११ ख
भीष्म उवाच:
यथा ह्यमृतमाश्रित्य वर्तय़न्ति दिवौकसः |
१२ क
भीष्म उवाच:
तथा वृत्तिं समाश्रित्य वर्तय़न्ति प्रजा विभो ||
१२ ख
भीष्म उवाच:
अचरेभ्यश्च भूतेभ्यश्चराः श्रेष्ठास्ततो नराः |
१३ क
भीष्म उवाच:
व्राह्मणाश्च ततः श्रेष्ठास्तेषु यज्ञाः प्रतिष्ठिताः ||
१३ ख
भीष्म उवाच:
यज्ञैराप्याय़ते सोमः स च गोषु प्रतिष्ठितः |
१४ क
भीष्म उवाच:
सर्वे देवाः प्रमोदन्ते पूर्ववृत्तास्ततः प्रजाः ||
१४ ख
भीष्म उवाच:
एतान्येव तु भूतानि प्राक्रोशन्वृत्तिकाङ्क्षय़ा |
१५ क
भीष्म उवाच:
वृत्तिदं चान्वपद्यन्त तृषिताः पितृमातृवत् ||
१५ ख
भीष्म उवाच:
इतीदं मनसा गत्वा प्रजासर्गार्थमात्मनः |
१६ क
भीष्म उवाच:
प्रजापतिर्वलाधानममृतं प्रापिवत्तदा ||
१६ ख
भीष्म उवाच:
स गतस्तस्य तृप्तिं तु गन्धं सुरभिमुद्गिरन् |
१७ क
भीष्म उवाच:
ददर्शोद्गारसंवृत्तां सुरभिं मुखजां सुताम् ||
१७ ख
भीष्म उवाच:
सासृजत्सौरभेय़ीस्तु सुरभिर्लोकमातरः |
१८ क
भीष्म उवाच:
सुवर्णवर्णाः कपिलाः प्रजानां वृत्तिधेनवः ||
१८ ख
भीष्म उवाच:
तासाममृतवर्णानां क्षरन्तीनां समन्ततः |
१९ क
भीष्म उवाच:
वभूवामृतजः फेनः स्रवन्तीनामिवोर्मिजः ||
१९ ख
भीष्म उवाच:
स वत्समुखविभ्रष्टो भवस्य भुवि तिष्ठतः |
२० क
भीष्म उवाच:
शिरस्यवाप तत्क्रुद्धः स तदोदैक्षत प्रभुः |
२० ख
भीष्म उवाच:
ललाटप्रभवेनाक्ष्णा रोहिणीः प्रदहन्निव ||
२० ग
भीष्म उवाच:
तत्तेजस्तु ततो रौद्रं कपिला गा विशां पते |
२१ क
भीष्म उवाच:
नानावर्णत्वमनय़न्मेघानिव दिवाकरः ||
२१ ख
भीष्म उवाच:
यास्तु तस्मादपक्रम्य सोममेवाभिसंश्रिताः |
२२ क
भीष्म उवाच:
यथोत्पन्नाः स्ववर्णस्थास्ता नीता नान्यवर्णताम् ||
२२ ख
भीष्म उवाच:
अथ क्रुद्धं महादेवं प्रजापतिरभाषत |
२३ क
भीष्म उवाच:
अमृतेनावसिक्तस्त्वं नोच्छिष्टं विद्यते गवाम् ||
२३ ख
भीष्म उवाच:
यथा ह्यमृतमादाय़ सोमो विष्यन्दते पुनः |
२४ क
भीष्म उवाच:
तथा क्षीरं क्षरन्त्येता रोहिण्योऽमृतसम्भवाः ||
२४ ख
भीष्म उवाच:
न दुष्यत्यनिलो नाग्निर्न सुवर्णं न चोदधिः |
२५ क
भीष्म उवाच:
नामृतेनामृतं पीतं वत्सपीता न वत्सला ||
२५ ख
भीष्म उवाच:
इमाँल्लोकान्भरिष्यन्ति हविषा प्रस्नवेन च |
२६ क
भीष्म उवाच:
आसामैश्वर्यमश्नीहि सर्वामृतमय़ं शुभम् ||
२६ ख
भीष्म उवाच:
वृषभं च ददौ तस्मै सह ताभिः प्रजापतिः |
२७ क
भीष्म उवाच:
प्रसादय़ामास मनस्तेन रुद्रस्य भारत ||
२७ ख
भीष्म उवाच:
प्रीतश्चापि महादेवश्चकार वृषभं तदा |
२८ क
भीष्म उवाच:
ध्वजं च वाहनं चैव तस्मात्स वृषभध्वजः ||
२८ ख
भीष्म उवाच:
ततो देवैर्महादेवस्तदा पशुपतिः कृतः |
२९ क
भीष्म उवाच:
ईश्वरः स गवां मध्ये वृषाङ्क इति चोच्यते ||
२९ ख
भीष्म उवाच:
एवमव्यग्रवर्णानां कपिलानां महौजसाम् |
३० क
भीष्म उवाच:
प्रदाने प्रथमः कल्पः सर्वासामेव कीर्तितः ||
३० ख
भीष्म उवाच:
लोकज्येष्ठा लोकवृत्तिप्रवृत्ता; रुद्रोपेताः सोमविष्यन्दभूताः |
३१ क
भीष्म उवाच:
सौम्याः पुण्याः कामदाः प्राणदाश्च; गा वै दत्त्वा सर्वकामप्रदः स्यात् ||
३१ ख
भीष्म उवाच:
इमं गवां प्रभवविधानमुत्तमं; पठन्सदा शुचिरतिमङ्गलप्रिय़ः |
३२ क
भीष्म उवाच:
विमुच्यते कलिकलुषेण मानवः; प्रिय़ं सुतान्पशुधनमाप्नुय़ात्तथा ||
३२ ख
भीष्म उवाच:
हव्यं कव्यं तर्पणं शान्तिकर्म; यानं वासो वृद्धवालस्य पुष्टिम् |
३३ क
भीष्म उवाच:
एतान्सर्वान्गोप्रदाने गुणान्वै; दाता राजन्नाप्नुय़ाद्वै सदैव ||
३३ ख
वैशम्पाय़न उवाच:
पितामहस्याथ निशम्य वाक्यं; राजा सह भ्रातृभिराजमीढः |
३४ क
वैशम्पाय़न उवाच:
सौवर्णकांस्योपदुहास्ततो गाः; पार्थो ददौ व्राह्मणसत्तमेभ्यः ||
३४ ख
वैशम्पाय़न उवाच:
तथैव तेभ्योऽभिददौ द्विजेभ्यो; गवां सहस्राणि शतानि चैव |
३५ क
वैशम्पाय़न उवाच:
यज्ञान्समुद्दिश्य च दक्षिणार्थे; लोकान्विजेतुं परमां च कीर्तिम् ||
३५ ख