chevron_left वन पर्व अध्याय ७६
वृहदश्व उवाच:
अथ तां व्युषितो रात्रिं नलो राजा स्वलङ्कृतः |
१ क
वृहदश्व उवाच:
वैदर्भ्या सहितः काल्यं ददर्श वसुधाधिपम् ||
१ ख
वृहदश्व उवाच:
ततोऽभिवादय़ामास प्रय़तः श्वशुरं नलः |
२ क
वृहदश्व उवाच:
तस्यानु दमय़न्ती च ववन्दे पितरं शुभा ||
२ ख
वृहदश्व उवाच:
तं भीमः प्रतिजग्राह पुत्रवत्परय़ा मुदा |
३ क
वृहदश्व उवाच:
यथार्हं पूजय़ित्वा तु समाश्वासय़त प्रभुः |
३ ख
वृहदश्व उवाच:
नलेन सहितां तत्र दमय़न्तीं पतिव्रताम् ||
३ ग
वृहदश्व उवाच:
तामर्हणां नलो राजा प्रतिगृह्य यथाविधि |
४ क
वृहदश्व उवाच:
परिचर्यां स्वकां तस्मै यथावत्प्रत्यवेदय़त् ||
४ ख
वृहदश्व उवाच:
ततो वभूव नगरे सुमहान्हर्षनिस्वनः |
५ क
वृहदश्व उवाच:
जनस्य सम्प्रहृष्टस्य नलं दृष्ट्वा तथागतम् ||
५ ख
वृहदश्व उवाच:
अशोभय़च्च नगरं पताकाध्वजमालिनम् |
६ क
वृहदश्व उवाच:
सिक्तसंमृष्टपुष्पाढ्या राजमार्गाः कृतास्तदा ||
६ ख
वृहदश्व उवाच:
द्वारि द्वारि च पौराणां पुष्पभङ्गः प्रकल्पितः |
७ क
वृहदश्व उवाच:
अर्चितानि च सर्वाणि देवताय़तनानि च ||
७ ख
वृहदश्व उवाच:
ऋतुपर्णोऽपि शुश्राव वाहुकच्छद्मिनं नलम् |
८ क
वृहदश्व उवाच:
दमय़न्त्या समाय़ुक्तं जहृषे च नराधिपः ||
८ ख
वृहदश्व उवाच:
तमानाय़्य नलो राजा क्षमय़ामास पार्थिवम् |
९ क
वृहदश्व उवाच:
स च तं क्षमय़ामास हेतुभिर्वुद्धिसंमतः ||
९ ख
वृहदश्व उवाच:
स सत्कृतो महीपालो नैषधं विस्मय़ान्वितः |
१० क
वृहदश्व उवाच:
दिष्ट्या समेतो दारैः स्वैर्भवानित्यभ्यनन्दत ||
१० ख
वृहदश्व उवाच:
कच्चित्तु नापराधं ते कृतवानस्मि नैषध |
११ क
वृहदश्व उवाच:
अज्ञातवासं वसतो मद्गृहे निषधाधिप ||
११ ख
वृहदश्व उवाच:
यदि वा वुद्धिपूर्वाणि यद्यवुद्धानि कानिचित् |
१२ क
वृहदश्व उवाच:
मय़ा कृतान्यकार्याणि तानि मे क्षन्तुमर्हसि ||
१२ ख
नल उवाच:
न मेऽपराधं कृतवांस्त्वं स्वल्पमपि पार्थिव |
१३ क
नल उवाच:
कृतेऽपि च न मे कोपः क्षन्तव्यं हि मय़ा तव ||
१३ ख
नल उवाच:
पूर्वं ह्यसि सखा मेऽसि सम्वन्धी च नराधिप |
१४ क
नल उवाच:
अत ऊर्ध्वं तु भूय़स्त्वं प्रीतिमाहर्तुमर्हसि ||
१४ ख
नल उवाच:
सर्वकामैः सुविहितः सुखमस्म्युषितस्त्वय़ि |
१५ क
नल उवाच:
न तथा स्वगृहे राजन्यथा तव गृहे सदा ||
१५ ख
नल उवाच:
इदं चैव हय़ज्ञानं त्वदीय़ं मय़ि तिष्ठति |
१६ क
नल उवाच:
तदुपाकर्तुमिच्छामि मन्यसे यदि पार्थिव ||
१६ ख
वृहदश्व उवाच:
एवमुक्त्वा ददौ विद्यामृतुपर्णाय़ नैषधः |
१७ क
वृहदश्व उवाच:
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा ||
१७ ख
वृहदश्व उवाच:
ततो गृह्याश्वहृदय़ं तदा भाङ्गस्वरिर्नृपः |
१८ क
वृहदश्व उवाच:
सूतमन्यमुपादाय़ यय़ौ स्वपुरमेव हि ||
१८ ख
वृहदश्व उवाच:
ऋतुपर्णे प्रतिगते नलो राजा विशां पते |
१९ क
वृहदश्व उवाच:
नगरे कुण्डिने कालं नातिदीर्घमिवावसत् ||
१९ ख