chevron_left द्रोण पर्व अध्याय ७६
सञ्जय़ उवाच:
स्रंसन्त इव मज्जानस्तावकानां भय़ान्नृप |
१ क
सञ्जय़ उवाच:
तौ दृष्ट्वा समतिक्रान्तौ वासुदेवधनञ्जय़ौ ||
१ ख
सञ्जय़ उवाच:
सर्वे तु प्रतिसंरव्धा ह्रीमन्तः सत्त्वचोदिताः |
२ क
सञ्जय़ उवाच:
स्थिरीवूता महात्मानः प्रत्यगच्छन्धनञ्जय़म् ||
२ ख
सञ्जय़ उवाच:
ये गताः पाण्डवं युद्धे क्रोधामर्षसमन्विताः |
३ क
सञ्जय़ उवाच:
तेऽद्यापि न निवर्तन्ते सिन्धवः सागरादिव ||
३ ख
सञ्जय़ उवाच:
असन्तस्तु न्यवर्तन्त वेदेभ्य इव नास्तिकाः |
४ क
सञ्जय़ उवाच:
नरकं भजमानास्ते प्रत्यपद्यन्त किल्विषम् ||
४ ख
सञ्जय़ उवाच:
तावतीत्य रथानीकं विमुक्तौ पुरुषर्षभौ |
५ क
सञ्जय़ उवाच:
ददृशाते यथा राहोरास्यान्मुक्तौ प्रभाकरौ ||
५ ख
सञ्जय़ उवाच:
मत्स्याविव महाजालं विदार्य विगतज्वरौ |
६ क
सञ्जय़ उवाच:
तथा कृष्णावदृश्येतां सेनाजालं विदार्य तत् ||
६ ख
सञ्जय़ उवाच:
विमुक्तौ शस्त्रसम्वाधाद्द्रोणानीकात्सुदुर्भिदात् |
७ क
सञ्जय़ उवाच:
अदृश्येतां महात्मानौ कालसूर्याविवोदितौ ||
७ ख
सञ्जय़ उवाच:
अस्त्रसम्वाधनिर्मुक्तौ विमुक्तौ शस्त्रसङ्कटात् |
८ क
सञ्जय़ उवाच:
अदृश्येतां महात्मानौ शत्रुसम्वाधकारिणौ ||
८ ख
सञ्जय़ उवाच:
विमुक्तौ ज्वलनस्पर्शान्मकरास्याज्झषाविव |
९ क
सञ्जय़ उवाच:
व्यक्षोभय़ेतां सेनां तौ समुद्रं मकराविव ||
९ ख
सञ्जय़ उवाच:
तावकास्तव पुत्राश्च द्रोणानीकस्थय़ोस्तय़ोः |
१० क
सञ्जय़ उवाच:
नैतौ तरिष्यतो द्रोणमिति चक्रुस्तदा मतिम् ||
१० ख
सञ्जय़ उवाच:
तौ तु दृष्ट्वा व्यतिक्रान्तौ द्रोणानीकं महाद्युती |
११ क
सञ्जय़ उवाच:
नाशशंसुर्महाराज सिन्धुराजस्य जीवितम् ||
११ ख
सञ्जय़ उवाच:
आशा वलवती राजन्पुत्राणामभवत्तव |
१२ क
सञ्जय़ उवाच:
द्रोणहार्दिक्ययोः कृष्णौ न मोक्ष्येते इति प्रभो ||
१२ ख
सञ्जय़ उवाच:
तामाशां विफलां कृत्वा निस्तीर्णौ तौ परन्तपौ |
१३ क
सञ्जय़ उवाच:
द्रोणानीकं महाराज भोजानीकं च दुस्तरम् ||
१३ ख
सञ्जय़ उवाच:
अथ दृष्ट्वा व्यतिक्रान्तौ ज्वलिताविव पावकौ |
१४ क
सञ्जय़ उवाच:
निराशाः सिन्धुराजस्य जीवितं नाशशंसिरे ||
१४ ख
सञ्जय़ उवाच:
मिथश्च समभाषेतामभीतौ भय़वर्धनौ |
१५ क
सञ्जय़ उवाच:
जय़द्रथवधे वाचस्तास्ताः कृष्णधनञ्जय़ौ ||
१५ ख
सञ्जय़ उवाच:
असौ मध्ये कृतः षड्भिर्धार्तराष्ट्रैर्महारथैः |
१६ क
सञ्जय़ उवाच:
चक्षुर्विषय़सम्प्राप्तो न नौ मोक्ष्यति सैन्धवः ||
१६ ख
सञ्जय़ उवाच:
यद्यस्य समरे गोप्ता शक्रो देवगणैः सह |
१७ क
सञ्जय़ उवाच:
तथाप्येनं हनिष्याव इति कृष्णावभाषताम् ||
१७ ख
सञ्जय़ उवाच:
इति कृष्णौ महावाहू मिथः कथय़तां तदा |
१८ क
सञ्जय़ उवाच:
सिन्धुराजमवेक्षन्तौ तत्पुत्रास्तव शुश्रुवुः ||
१८ ख
सञ्जय़ उवाच:
अतीत्य मरुधन्वेव प्रय़ान्तौ तृषितौ गजौ |
१९ क
सञ्जय़ उवाच:
पीत्वा वारि समाश्वस्तौ तथैवास्तामरिन्दमौ ||
१९ ख
सञ्जय़ उवाच:
व्याघ्रसिंहगजाकीर्णानतिक्रम्येव पर्वतान् |
२० क
सञ्जय़ उवाच:
अदृश्येतां महावाहू यथा मृत्युजरातिगौ ||
२० ख
सञ्जय़ उवाच:
तथा हि मुखवर्णोऽय़मनय़ोरिति मेनिरे |
२१ क
सञ्जय़ उवाच:
तावका दृश्य मुक्तौ तौ विक्रोशन्ति स्म सर्वतः ||
२१ ख
सञ्जय़ उवाच:
द्रोणादाशीविषाकाराज्ज्वलितादिव पावकात् |
२२ क
सञ्जय़ उवाच:
अन्येभ्यः पार्थिवेभ्यश्च भास्वन्ताविव भास्करौ ||
२२ ख
सञ्जय़ उवाच:
तौ मुक्तौ सागरप्रख्याद्द्रोणानीकादरिन्दमौ |
२३ क
सञ्जय़ उवाच:
अदृश्येतां मुदा युक्तौ समुत्तीर्यार्णवं यथा ||
२३ ख
सञ्जय़ उवाच:
शस्त्रौघान्महतो मुक्तौ द्रोणहार्दिक्यरक्षितान् |
२४ क
सञ्जय़ उवाच:
रोचमानावदृश्येतामिन्द्राग्न्योः सदृशौ रणे ||
२४ ख
सञ्जय़ उवाच:
उद्भिन्नरुधिरौ कृष्णौ भारद्वाजस्य साय़कैः |
२५ क
सञ्जय़ उवाच:
शितैश्चितौ व्यरोचेतां कर्णिकारैरिवाचलौ ||
२५ ख
सञ्जय़ उवाच:
द्रोणग्राहह्रदान्मुक्तौ शक्त्याशीविषसङ्कटात् |
२६ क
सञ्जय़ उवाच:
अय़ःशरोग्रमकरात्क्षत्रिय़प्रवराम्भसः ||
२६ ख
सञ्जय़ उवाच:
ज्याघोषतलनिर्ह्रादाद्गदानिस्त्रिंशविद्युतः |
२७ क
सञ्जय़ उवाच:
द्रोणास्त्रमेघान्निर्मुक्तौ सूर्येन्दू तिमिरादिव ||
२७ ख
सञ्जय़ उवाच:
वाहुभ्यामिव सन्तीर्णौ सिन्धुषष्ठाः समुद्रगाः |
२८ क
सञ्जय़ उवाच:
तपान्ते सरितः पूर्णा महाग्राहसमाकुलाः ||
२८ ख
सञ्जय़ उवाच:
इति कृष्णौ महेष्वासौ यशसा लोकविश्रुतौ |
२९ क
सञ्जय़ उवाच:
सर्वभूतान्यमन्यन्त द्रोणास्त्रवलविस्मय़ात् ||
२९ ख
सञ्जय़ उवाच:
जय़द्रथं समीपस्थमवेक्षन्तौ जिघांसय़ा |
३० क
सञ्जय़ उवाच:
रुरुं निपाने लिप्सन्तौ व्याघ्रवत्तावतिष्ठताम् ||
३० ख
सञ्जय़ उवाच:
यथा हि मुखवर्णोऽय़मनय़ोरिति मेनिरे |
३१ क
सञ्जय़ उवाच:
तव योधा महाराज हतमेव जय़द्रथम् ||
३१ ख
सञ्जय़ उवाच:
लोहिताक्षौ महावाहू संय़त्तौ कृष्णपाण्डवौ |
३२ क
सञ्जय़ उवाच:
सिन्धुराजमभिप्रेक्ष्य हृष्टौ व्यनदतां मुहुः ||
३२ ख
सञ्जय़ उवाच:
शौरेरभीशुहस्तस्य पार्थस्य च धनुष्मतः |
३३ क
सञ्जय़ उवाच:
तय़ोरासीत्प्रतिभ्राजः सूर्यपावकय़ोरिव ||
३३ ख
सञ्जय़ उवाच:
हर्ष एव तय़ोरासीद्द्रोणानीकप्रमुक्तय़ोः |
३४ क
सञ्जय़ उवाच:
समीपे सैन्धवं दृष्ट्वा श्येनय़ोरामिषं यथा ||
३४ ख
सञ्जय़ उवाच:
तौ तु सैन्धवमालोक्य वर्तमानमिवान्तिके |
३५ क
सञ्जय़ उवाच:
सहसा पेततुः क्रुद्धौ क्षिप्रं श्येनाविवामिषे ||
३५ ख
सञ्जय़ उवाच:
तौ तु दृष्ट्वा व्यतिक्रान्तौ हृषीकेशधनञ्जय़ौ |
३६ क
सञ्जय़ उवाच:
सिन्धुराजस्य रक्षार्थं पराक्रान्तः सुतस्तव ||
३६ ख
सञ्जय़ उवाच:
द्रोणेनावद्धकवचो राजा दुर्योधनस्तदा |
३७ क
सञ्जय़ उवाच:
यय़ावेकरथेनाजौ हय़संस्कारवित्प्रभो ||
३७ ख
सञ्जय़ उवाच:
कृष्णपार्थौ महेष्वासौ व्यतिक्रम्याथ ते सुतः |
३८ क
सञ्जय़ उवाच:
अग्रतः पुण्डरीकाक्षं प्रतीय़ाय़ नराधिप ||
३८ ख
सञ्जय़ उवाच:
ततः सर्वेषु सैन्येषु वादित्राणि प्रहृष्टवत् |
३९ क
सञ्जय़ उवाच:
प्रावाद्यन्समतिक्रान्ते तव पुत्रे धनञ्जय़म् ||
३९ ख
सञ्जय़ उवाच:
सिंहनादरवाश्चासञ्शङ्खदुन्दुभिमिश्रिताः |
४० क
सञ्जय़ उवाच:
दृष्ट्वा दुर्योधनं तत्र कृष्णय़ोः प्रमुखे स्थितम् ||
४० ख
सञ्जय़ उवाच:
ये च ते सिन्धुराजस्य गोप्तारः पावकोपमाः |
४१ क
सञ्जय़ उवाच:
ते प्रहृष्यन्त समरे दृष्ट्वा पुत्रं तवाभिभो ||
४१ ख
सञ्जय़ उवाच:
दृष्ट्वा दुर्योधनं कृष्णस्त्वतिक्रान्तं सहानुगम् |
४२ क
सञ्जय़ उवाच:
अव्रवीदर्जुनं राजन्प्राप्तकालमिदं वचः ||
४२ ख