वैशम्पाय़न उवाच:
यय़ातिः स्वपुरं प्राप्य महेन्द्रपुरसंनिभम् |
१ क
वैशम्पाय़न उवाच:
प्रविश्यान्तःपुरं तत्र देवय़ानीं न्यवेशय़त् ||
१ ख
वैशम्पाय़न उवाच:
देवय़ान्याश्चानुमते तां सुतां वृषपर्वणः |
२ क
वैशम्पाय़न उवाच:
अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशय़त् ||
२ ख
वैशम्पाय़न उवाच:
वृतां दासीसहस्रेण शर्मिष्ठामासुराय़णीम् |
३ क
वैशम्पाय़न उवाच:
वासोभिरन्नपानैश्च संविभज्य सुसत्कृताम् ||
३ ख
वैशम्पाय़न उवाच:
देवय़ान्या तु सहितः स नृपो नहुषात्मजः |
४ क
वैशम्पाय़न उवाच:
विजहार वहूनव्दान्देववन्मुदितो भृशम् ||
४ ख
वैशम्पाय़न उवाच:
ऋतुकाले तु सम्प्राप्ते देवय़ानी वराङ्गना |
५ क
वैशम्पाय़न उवाच:
लेभे गर्भं प्रथमतः कुमारं च व्यजाय़त ||
५ ख
वैशम्पाय़न उवाच:
गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी |
६ क
वैशम्पाय़न उवाच:
ददर्श यौवनं प्राप्ता ऋतुं सा चान्वचिन्तय़त् ||
६ ख
वैशम्पाय़न उवाच:
ऋतुकालश्च सम्प्राप्तो न च मेऽस्ति पतिर्वृतः |
७ क
वैशम्पाय़न उवाच:
किं प्राप्तं किं नु कर्तव्यं किं वा कृत्वा कृतं भवेत् ||
७ ख
वैशम्पाय़न उवाच:
देवय़ानी प्रजातासौ वृथाहं प्राप्तय़ौवना |
८ क
वैशम्पाय़न उवाच:
यथा तय़ा वृतो भर्ता तथैवाहं वृणोमि तम् ||
८ ख
वैशम्पाय़न उवाच:
राज्ञा पुत्रफलं देय़मिति मे निश्चिता मतिः |
९ क
वैशम्पाय़न उवाच:
अपीदानीं स धर्मात्मा इय़ान्मे दर्शनं रहः ||
९ ख
वैशम्पाय़न उवाच:
अथ निष्क्रम्य राजासौ तस्मिन्काले यदृच्छय़ा |
१० क
वैशम्पाय़न उवाच:
अशोकवनिकाभ्याशे शर्मिष्ठां प्राप्य विष्ठितः ||
१० ख
वैशम्पाय़न उवाच:
तमेकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनी |
११ क
वैशम्पाय़न उवाच:
प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमव्रवीत् ||
११ ख
वैशम्पाय़न उवाच:
सोमस्येन्द्रस्य विष्णोर्वा यमस्य वरुणस्य वा |
१२ क
वैशम्पाय़न उवाच:
तव वा नाहुष कुले कः स्त्रिय़ं स्प्रष्टुमर्हति ||
१२ ख
वैशम्पाय़न उवाच:
रूपाभिजनशीलैर्हि त्वं राजन्वेत्थ मां सदा |
१३ क
वैशम्पाय़न उवाच:
सा त्वां याचे प्रसाद्याहमृतुं देहि नराधिप ||
१३ ख
यय़ातिरु उवाच:
वेद्मि त्वां शीलसम्पन्नां दैत्यकन्यामनिन्दिताम् |
१४ क
यय़ातिरु उवाच:
रूपे च ते न पश्यामि सूच्यग्रमपि निन्दितम् ||
१४ ख
यय़ातिरु उवाच:
अव्रवीदुशना काव्यो देवय़ानीं यदावहम् |
१५ क
यय़ातिरु उवाच:
नेय़माह्वय़ितव्या ते शय़ने वार्षपर्वणी ||
१५ ख
शर्मिष्ठो उवाच:
न नर्मय़ुक्तं वचनं हिनस्ति; न स्त्रीषु राजन्न विवाहकाले |
१६ क
शर्मिष्ठो उवाच:
प्राणात्यये सर्वधनापहारे; पञ्चानृतान्याहुरपातकानि ||
१६ ख
शर्मिष्ठो उवाच:
पृष्टं तु साक्ष्ये प्रवदन्तमन्यथा; वदन्ति मिथ्योपहितं नरेन्द्र |
१७ क
शर्मिष्ठो उवाच:
एकार्थताय़ां तु समाहिताय़ां; मिथ्या वदन्तमनृतं हिनस्ति ||
१७ ख
यय़ातिरु उवाच:
राजा प्रमाणं भूतानां स नश्येत मृषा वदन् |
१८ क
यय़ातिरु उवाच:
अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे ||
१८ ख
शर्मिष्ठो उवाच:
समावेतौ मतौ राजन्पतिः सख्याश्च यः पतिः |
१९ क
शर्मिष्ठो उवाच:
समं विवाहमित्याहुः सख्या मेऽसि पतिर्वृतः ||
१९ ख
यय़ातिरु उवाच:
दातव्यं याचमानेभ्य इति मे व्रतमाहितम् |
२० क
यय़ातिरु उवाच:
त्वं च याचसि मां कामं व्रूहि किं करवाणि ते ||
२० ख
शर्मिष्ठो उवाच:
अधर्मात्त्राहि मां राजन्धर्मं च प्रतिपादय़ |
२१ क
शर्मिष्ठो उवाच:
त्वत्तोऽपत्यवती लोके चरेय़ं धर्ममुत्तमम् ||
२१ ख
शर्मिष्ठो उवाच:
त्रय़ एवाधना राजन्भार्या दासस्तथा सुतः |
२२ क
शर्मिष्ठो उवाच:
यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ||
२२ ख
शर्मिष्ठो उवाच:
देवय़ान्या भुजिष्यास्मि वश्या च तव भार्गवी |
२३ क
शर्मिष्ठो उवाच:
सा चाहं च त्वय़ा राजन्भरणीय़े भजस्व माम् ||
२३ ख
वैशम्पाय़न उवाच:
एवमुक्तस्तु राजा स तथ्यमित्येव जज्ञिवान् |
२४ क
वैशम्पाय़न उवाच:
पूजय़ामास शर्मिष्ठां धर्मं च प्रत्यपादय़त् ||
२४ ख
वैशम्पाय़न उवाच:
समागम्य च शर्मिष्ठां यथाकाममवाप्य च |
२५ क
वैशम्पाय़न उवाच:
अन्योन्यमभिसम्पूज्य जग्मतुस्तौ यथागतम् ||
२५ ख
वैशम्पाय़न उवाच:
तस्मिन्समागमे सुभ्रूः शर्मिष्ठा चारुहासिनी |
२६ क
वैशम्पाय़न उवाच:
लेभे गर्भं प्रथमतस्तस्मान्नृपतिसत्तमात् ||
२६ ख
वैशम्पाय़न उवाच:
प्रजज्ञे च ततः काले राजन्राजीवलोचना |
२७ क
वैशम्पाय़न उवाच:
कुमारं देवगर्भाभं राजीवनिभलोचनम् ||
२७ ख