chevron_left आश्वमेधिक पर्व अध्याय ७७
वैशम्पाय़न उवाच:
ततो गाण्डीवभृच्छूरो युद्धाय़ समवस्थितः |
१ क
वैशम्पाय़न उवाच:
विवभौ युधि दुर्धर्षो हिमवानचलो यथा ||
१ ख
वैशम्पाय़न उवाच:
ततः सैन्धवय़ोधास्ते पुनरेव व्यवस्थिताः |
२ क
वैशम्पाय़न उवाच:
विमुञ्चन्तः सुसंरव्धाः शरवर्षाणि भारत ||
२ ख
वैशम्पाय़न उवाच:
तान्प्रसह्य महावीर्यः पुनरेव व्यवस्थितान् |
३ क
वैशम्पाय़न उवाच:
ततः प्रोवाच कौन्तेय़ो मुमूर्षूञ्श्लक्ष्णय़ा गिरा ||
३ ख
वैशम्पाय़न उवाच:
युध्यध्वं परय़ा शक्त्या यतध्वं च वधे मम |
४ क
वैशम्पाय़न उवाच:
कुरुध्वं सर्वकार्याणि महद्वो भय़मागतम् ||
४ ख
वैशम्पाय़न उवाच:
एष योत्स्यामि वः सर्वान्निवार्य शरवागुराम् |
५ क
वैशम्पाय़न उवाच:
तिष्ठध्वं युद्धमनसो दर्पं विनय़ितास्मि वः ||
५ ख
वैशम्पाय़न उवाच:
एतावदुक्त्वा कौरव्यो रुषा गाण्डीवभृत्तदा |
६ क
वैशम्पाय़न उवाच:
ततोऽथ वचनं स्मृत्वा भ्रातुर्ज्येष्ठस्य भारत ||
६ ख
वैशम्पाय़न उवाच:
न हन्तव्या रणे तात क्षत्रिय़ा विजिगीषवः |
७ क
वैशम्पाय़न उवाच:
जेतव्याश्चेति यत्प्रोक्तं धर्मराज्ञा महात्मना |
७ ख
वैशम्पाय़न उवाच:
चिन्तय़ामास च तदा फल्गुनः पुरुषर्षभः ||
७ ग
वैशम्पाय़न उवाच:
इत्युक्तोऽहं नरेन्द्रेण न हन्तव्या नृपा इति |
८ क
वैशम्पाय़न उवाच:
कथं तन्न मृषेह स्याद्धर्मराजवचः शुभम् ||
८ ख
वैशम्पाय़न उवाच:
न हन्येरंश्च राजानो राज्ञश्चाज्ञा कृता भवेत् |
९ क
वैशम्पाय़न उवाच:
इति सञ्चिन्त्य स तदा भ्रातुः प्रिय़हिते रतः |
९ ख
वैशम्पाय़न उवाच:
प्रोवाच वाक्यं धर्मज्ञः सैन्धवान्युद्धदुर्मदान् ||
९ ग
वैशम्पाय़न उवाच:
वालान्स्त्रिय़ो वा युष्माकं न हनिष्ये व्यवस्थितान् |
१० क
वैशम्पाय़न उवाच:
यश्च वक्ष्यति सङ्ग्रामे तवास्मीति पराजितः ||
१० ख
वैशम्पाय़न उवाच:
एतच्छ्रुत्वा वचो मह्यं कुरुध्वं हितमात्मनः |
११ क
वैशम्पाय़न उवाच:
अतोऽन्यथा कृच्छ्रगता भविष्यथ मय़ार्दिताः ||
११ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा तु तान्वीरान्युय़ुधे कुरुपुङ्गवः |
१२ क
वैशम्पाय़न उवाच:
अत्वरावानसंरव्धः संरव्धैर्विजिगीषुभिः ||
१२ ख
वैशम्पाय़न उवाच:
ततः शतसहस्राणि शराणां नतपर्वणाम् |
१३ क
वैशम्पाय़न उवाच:
मुमुचुः सैन्धवा राजंस्तदा गाण्डीवधन्वनि ||
१३ ख
वैशम्पाय़न उवाच:
स तानापततः क्रूरानाशीविषविषोपमान् |
१४ क
वैशम्पाय़न उवाच:
चिच्छेद निशितैर्वाणैरन्तरैव धनञ्जय़ः ||
१४ ख
वैशम्पाय़न उवाच:
छित्त्वा तु तानाशुगमान्कङ्कपत्राञ्शिलाशितान् |
१५ क
वैशम्पाय़न उवाच:
एकैकमेष दशभिर्विभेद समरे शरैः ||
१५ ख
वैशम्पाय़न उवाच:
ततः प्रासांश्च शक्तीश्च पुनरेव धनञ्जय़े |
१६ क
वैशम्पाय़न उवाच:
जय़द्रथं हतं स्मृत्वा चिक्षिपुः सैन्धवा नृपाः ||
१६ ख
वैशम्पाय़न उवाच:
तेषां किरीटी सङ्कल्पं मोघं चक्रे महामनाः |
१७ क
वैशम्पाय़न उवाच:
सर्वांस्तानन्तरा छित्त्वा मुदा चुक्रोश पाण्डवः ||
१७ ख
वैशम्पाय़न उवाच:
तथैवापततां तेषां योधानां जय़गृद्धिनाम् |
१८ क
वैशम्पाय़न उवाच:
शिरांसि पातय़ामास भल्लैः संनतपर्वभिः ||
१८ ख
वैशम्पाय़न उवाच:
तेषां प्रद्रवतां चैव पुनरेव च धावताम् |
१९ क
वैशम्पाय़न उवाच:
निवर्ततां च शव्दोऽभूत्पूर्णस्येव महोदधेः ||
१९ ख
वैशम्पाय़न उवाच:
ते वध्यमानास्तु तदा पार्थेनामिततेजसा |
२० क
वैशम्पाय़न उवाच:
यथाप्राणं यथोत्साहं योधय़ामासुरर्जुनम् ||
२० ख
वैशम्पाय़न उवाच:
ततस्ते फल्गुनेनाजौ शरैः संनतपर्वभिः |
२१ क
वैशम्पाय़न उवाच:
कृता विसञ्ज्ञा भूय़िष्ठाः क्लान्तवाहनसैनिकाः ||
२१ ख
वैशम्पाय़न उवाच:
तांस्तु सर्वान्परिग्लानान्विदित्वा धृतराष्ट्रजा |
२२ क
वैशम्पाय़न उवाच:
दुःशला वालमादाय़ नप्तारं प्रय़यौ तदा |
२२ ख
वैशम्पाय़न उवाच:
सुरथस्य सुतं वीरं रथेनानागसं तदा ||
२२ ग
वैशम्पाय़न उवाच:
शान्त्यर्थं सर्वय़ोधानामभ्यगच्छत पाण्डवम् |
२३ क
वैशम्पाय़न उवाच:
सा धनञ्जय़मासाद्य मुमोचार्तस्वरं तदा |
२३ ख
वैशम्पाय़न उवाच:
धनञ्जय़ोऽपि तां दृष्ट्वा धनुर्विससृजे प्रभुः ||
२३ ग
वैशम्पाय़न उवाच:
समुत्सृष्टधनुः पार्थो विधिवद्भगिनीं तदा |
२४ क
वैशम्पाय़न उवाच:
प्राह किं करवाणीति सा च तं वाक्यमव्रवीत् ||
२४ ख
वैशम्पाय़न उवाच:
एष ते भरतश्रेष्ठ स्वस्रीय़स्यात्मजः शिशुः |
२५ क
वैशम्पाय़न उवाच:
अभिवादय़ते वीर तं पश्य पुरुषर्षभ ||
२५ ख
वैशम्पाय़न उवाच:
इत्युक्तस्तस्य पितरं स पप्रच्छार्जुनस्तदा |
२६ क
वैशम्पाय़न उवाच:
क्वासाविति ततो राजन्दुःशला वाक्यमव्रवीत् ||
२६ ख
वैशम्पाय़न उवाच:
पितृशोकाभिसन्तप्तो विषादार्तोऽस्य वै पिता |
२७ क
वैशम्पाय़न उवाच:
पञ्चत्वमगमद्वीर यथा तन्मे निवोध ह ||
२७ ख
वैशम्पाय़न उवाच:
स पूर्वं पितरं श्रुत्वा हतं युद्धे त्वय़ानघ |
२८ क
वैशम्पाय़न उवाच:
त्वामागतं च संश्रुत्य युद्धाय़ हय़सारिणम् |
२८ ख
वैशम्पाय़न उवाच:
पितुश्च मृत्युदुःखार्तोऽजहात्प्राणान्धनञ्जय़ ||
२८ ग
वैशम्पाय़न उवाच:
प्राप्तो वीभत्सुरित्येव नाम श्रुत्वैव तेऽनघ |
२९ क
वैशम्पाय़न उवाच:
विषादार्तः पपातोर्व्यां ममार च ममात्मजः ||
२९ ख
वैशम्पाय़न उवाच:
तं तु दृष्ट्वा निपतितं ततस्तस्यात्मजं विभो |
३० क
वैशम्पाय़न उवाच:
गृहीत्वा समनुप्राप्ता त्वामद्य शरणैषिणी ||
३० ख
वैशम्पाय़न उवाच:
इत्युक्त्वार्तस्वरं सा तु मुमोच धृतराष्ट्रजा |
३१ क
वैशम्पाय़न उवाच:
दीना दीनं स्थितं पार्थमव्रवीच्चाप्यधोमुखम् ||
३१ ख
वैशम्पाय़न उवाच:
स्वसारं मामवेक्षस्व स्वस्रीय़ात्मजमेव च |
३२ क
वैशम्पाय़न उवाच:
कर्तुमर्हसि धर्मज्ञ दय़ां मय़ि कुरूद्वह |
३२ ख
वैशम्पाय़न उवाच:
विस्मृत्य कुरुराजानं तं च मन्दं जय़द्रथम् ||
३२ ग
वैशम्पाय़न उवाच:
अभिमन्योर्यथा जातः परिक्षित्परवीरहा |
३३ क
वैशम्पाय़न उवाच:
तथाय़ं सुरथाज्जातो मम पौत्रो महाभुज ||
३३ ख
वैशम्पाय़न उवाच:
तमादाय़ नरव्याघ्र सम्प्राप्तास्मि तवान्तिकम् |
३४ क
वैशम्पाय़न उवाच:
शमार्थं सर्वय़ोधानां शृणु चेदं वचो मम ||
३४ ख
वैशम्पाय़न उवाच:
आगतोऽय़ं महावाहो तस्य मन्दस्य पौत्रकः |
३५ क
वैशम्पाय़न उवाच:
प्रसादमस्य वालस्य तस्मात्त्वं कर्तुमर्हसि ||
३५ ख
वैशम्पाय़न उवाच:
एष प्रसाद्य शिरसा मय़ा सार्धमरिन्दम |
३६ क
वैशम्पाय़न उवाच:
याचते त्वां महावाहो शमं गच्छ धनञ्जय़ ||
३६ ख
वैशम्पाय़न उवाच:
वालस्य हतवन्धोश्च पार्थ किञ्चिदजानतः |
३७ क
वैशम्पाय़न उवाच:
प्रसादं कुरु धर्मज्ञ मा मन्युवशमन्वगाः ||
३७ ख
वैशम्पाय़न उवाच:
तमनार्यं नृशंसं च विस्मृत्यास्य पितामहम् |
३८ क
वैशम्पाय़न उवाच:
आगस्कारिणमत्यर्थं प्रसादं कर्तुमर्हसि ||
३८ ख
वैशम्पाय़न उवाच:
एवं व्रुवत्यां करुणं दुःशलाय़ां धनञ्जय़ः |
३९ क
वैशम्पाय़न उवाच:
संस्मृत्य देवीं गान्धारीं धृतराष्ट्रं च पार्थिवम् |
३९ ख
वैशम्पाय़न उवाच:
प्रोवाच दुःखशोकार्तः क्षत्रधर्मं विगर्हय़न् ||
३९ ग
वैशम्पाय़न उवाच:
धिक्तं दुर्योधनं क्षुद्रं राज्यलुव्धं च मानिनम् |
४० क
वैशम्पाय़न उवाच:
यत्कृते वान्धवाः सर्वे मय़ा नीता यमक्षय़म् ||
४० ख
वैशम्पाय़न उवाच:
इत्युक्त्वा वहु सान्त्वादि प्रसादमकरोज्जय़ः |
४१ क
वैशम्पाय़न उवाच:
परिष्वज्य च तां प्रीतो विससर्ज गृहान्प्रति ||
४१ ख
वैशम्पाय़न उवाच:
दुःशला चापि तान्योधान्निवार्य महतो रणात् |
४२ क
वैशम्पाय़न उवाच:
सम्पूज्य पार्थं प्रय़यौ गृहान्प्रति शुभानना ||
४२ ख
वैशम्पाय़न उवाच:
ततः सैन्धवकान्योधान्विनिर्जित्य नरर्षभः |
४३ क
वैशम्पाय़न उवाच:
पुनरेवान्वधावत्स तं हय़ं कामचारिणम् ||
४३ ख
वैशम्पाय़न उवाच:
ससार यज्ञिय़ं वीरो विधिवत्स विशां पते |
४४ क
वैशम्पाय़न उवाच:
तारामृगमिवाकाशे देवदेवः पिनाकधृक् ||
४४ ख
वैशम्पाय़न उवाच:
स च वाजी यथेष्टेन तांस्तान्देशान्यथासुखम् |
४५ क
वैशम्पाय़न उवाच:
विचचार यथाकामं कर्म पार्थस्य वर्धय़न् ||
४५ ख
वैशम्पाय़न उवाच:
क्रमेण स हय़स्त्वेवं विचरन्भरतर्षभ |
४६ क
वैशम्पाय़न उवाच:
मणिपूरपतेर्देशमुपाय़ात्सहपाण्डवः ||
४६ ख