chevron_left वन पर्व अध्याय ७७
वृहदश्व उवाच:
स मासमुष्य कौन्तेय़ भीममामन्त्र्य नैषधः |
१ क
वृहदश्व उवाच:
पुरादल्पपरीवारो जगाम निषधान्प्रति ||
१ ख
वृहदश्व उवाच:
रथेनैकेन शुभ्रेण दन्तिभिः परिषोडशैः |
२ क
वृहदश्व उवाच:
पञ्चाशद्भिर्हय़ैश्चैव षट्शतैश्च पदातिभिः ||
२ ख
वृहदश्व उवाच:
स कम्पय़न्निव महीं त्वरमाणो महीपतिः |
३ क
वृहदश्व उवाच:
प्रविवेशातिसंरव्धस्तरसैव महामनाः ||
३ ख
वृहदश्व उवाच:
ततः पुष्करमासाद्य वीरसेनसुतो नलः |
४ क
वृहदश्व उवाच:
उवाच दीव्याव पुनर्वहु वित्तं मय़ार्जितम् ||
४ ख
वृहदश्व उवाच:
दमय़न्ती च यच्चान्यन्मय़ा वसु समर्जितम् |
५ क
वृहदश्व उवाच:
एष वै मम संन्यासस्तव राज्यं तु पुष्कर ||
५ ख
वृहदश्व उवाच:
पुनः प्रवर्ततां द्यूतमिति मे निश्चिता मतिः |
६ क
वृहदश्व उवाच:
एकपाणेन भद्रं ते प्राणय़ोश्च पणावहे ||
६ ख
वृहदश्व उवाच:
जित्वा परस्वमाहृत्य राज्यं वा यदि वा वसु |
७ क
वृहदश्व उवाच:
प्रतिपाणः प्रदातव्यः परं हि धनमुच्यते ||
७ ख
वृहदश्व उवाच:
न चेद्वाञ्छसि तद्द्यूतं युद्धद्यूतं प्रवर्तताम् |
८ क
वृहदश्व उवाच:
द्वैरथेनास्तु वै शान्तिस्तव वा मम वा नृप ||
८ ख
वृहदश्व उवाच:
वंशभोज्यमिदं राज्यं मार्गितव्यं यथा तथा |
९ क
वृहदश्व उवाच:
येन तेनाप्युपाय़ेन वृद्धानामिति शासनम् ||
९ ख
वृहदश्व उवाच:
द्वय़ोरेकतरे वुद्धिः क्रिय़तामद्य पुष्कर |
१० क
वृहदश्व उवाच:
कैतवेनाक्षवत्यां वा युद्धे वा नम्यतां धनुः ||
१० ख
वृहदश्व उवाच:
नैषधेनैवमुक्तस्तु पुष्करः प्रहसन्निव |
११ क
वृहदश्व उवाच:
ध्रुवमात्मजय़ं मत्वा प्रत्याह पृथिवीपतिम् ||
११ ख
वृहदश्व उवाच:
दिष्ट्या त्वय़ार्जितं वित्तं प्रतिपाणाय़ नैषध |
१२ क
वृहदश्व उवाच:
दिष्ट्या च दुष्कृतं कर्म दमय़न्त्याः क्षय़ं गतम् |
१२ ख
वृहदश्व उवाच:
दिष्ट्या च ध्रिय़से राजन्सदारोऽरिनिवर्हण ||
१२ ग
वृहदश्व उवाच:
धनेनानेन वैदर्भी जितेन समलङ्कृता |
१३ क
वृहदश्व उवाच:
मामुपस्थास्यति व्यक्तं दिवि शक्रमिवाप्सराः ||
१३ ख
वृहदश्व उवाच:
नित्यशो हि स्मरामि त्वां प्रतीक्षामि च नैषध |
१४ क
वृहदश्व उवाच:
देवने च मम प्रीतिर्न भवत्यसुहृद्गणैः ||
१४ ख
वृहदश्व उवाच:
जित्वा त्वद्य वरारोहां दमय़न्तीमनिन्दिताम् |
१५ क
वृहदश्व उवाच:
कृतकृत्यो भविष्यामि सा हि मे नित्यशो हृदि ||
१५ ख
वृहदश्व उवाच:
श्रुत्वा तु तस्य ता वाचो वह्ववद्धप्रलापिनः |
१६ क
वृहदश्व उवाच:
इय़ेष स शिरश्छेत्तुं खड्गेन कुपितो नलः ||
१६ ख
वृहदश्व उवाच:
स्मय़ंस्तु रोषताम्राक्षस्तमुवाच ततो नृपः |
१७ क
वृहदश्व उवाच:
पणावः किं व्याहरसे जित्वा वै व्याहरिष्यसि ||
१७ ख
वृहदश्व उवाच:
ततः प्रावर्तत द्यूतं पुष्करस्य नलस्य च |
१८ क
वृहदश्व उवाच:
एकपाणेन भद्रं ते नलेन स पराजितः |
१८ ख
वृहदश्व उवाच:
सरत्नकोशनिचय़ः प्राणेन पणितोऽपि च ||
१८ ग
वृहदश्व उवाच:
जित्वा च पुष्करं राजा प्रहसन्निदमव्रवीत् |
१९ क
वृहदश्व उवाच:
मम सर्वमिदं राज्यमव्यग्रं हतकण्टकम् ||
१९ ख
वृहदश्व उवाच:
वैदर्भी न त्वय़ा शक्या राजापसद वीक्षितुम् |
२० क
वृहदश्व उवाच:
तस्यास्त्वं सपरीवारो मूढ दासत्वमागतः ||
२० ख
वृहदश्व उवाच:
न तत्त्वय़ा कृतं कर्म येनाहं निर्जितः पुरा |
२१ क
वृहदश्व उवाच:
कलिना तत्कृतं कर्म त्वं तु मूढ न वुध्यसे |
२१ ख
वृहदश्व उवाच:
नाहं परकृतं दोषं त्वय़्याधास्ये कथञ्चन ||
२१ ग
वृहदश्व उवाच:
यथासुखं त्वं जीवस्व प्राणानभ्युत्सृजामि ते |
२२ क
वृहदश्व उवाच:
तथैव च मम प्रीतिस्त्वय़ि वीर न संशय़ः ||
२२ ख
वृहदश्व उवाच:
सौभ्रात्रं चैव मे त्वत्तो न कदाचित्प्रहास्यति |
२३ क
वृहदश्व उवाच:
पुष्कर त्वं हि मे भ्राता सञ्जीवस्व शतं समाः ||
२३ ख
वृहदश्व उवाच:
एवं नलः सान्त्वय़ित्वा भ्रातरं सत्यविक्रमः |
२४ क
वृहदश्व उवाच:
स्वपुरं प्रेषय़ामास परिष्वज्य पुनः पुनः ||
२४ ख
वृहदश्व उवाच:
सान्त्वितो नैषधेनैवं पुष्करः प्रत्युवाच तम् |
२५ क
वृहदश्व उवाच:
पुण्यश्लोकं तदा राजन्नभिवाद्य कृताञ्जलिः ||
२५ ख
वृहदश्व उवाच:
कीर्तिरस्तु तवाक्षय़्या जीव वर्षाय़ुतं सुखी |
२६ क
वृहदश्व उवाच:
यो मे वितरसि प्राणानधिष्ठानं च पार्थिव ||
२६ ख
वृहदश्व उवाच:
स तथा सत्कृतो राज्ञा मासमुष्य तदा नृपः |
२७ क
वृहदश्व उवाच:
प्रय़यौ स्वपुरं हृष्टः पुष्करः स्वजनावृतः ||
२७ ख
वृहदश्व उवाच:
महत्या सेनय़ा राजन्विनीतैः परिचारकैः |
२८ क
वृहदश्व उवाच:
भ्राजमान इवादित्यो वपुषा पुरुषर्षभ ||
२८ ख
वृहदश्व उवाच:
प्रस्थाप्य पुष्करं राजा वित्तवन्तमनामय़म् |
२९ क
वृहदश्व उवाच:
प्रविवेश पुरं श्रीमानत्यर्थमुपशोभितम् |
२९ ख
वृहदश्व उवाच:
प्रविश्य सान्त्वय़ामास पौरांश्च निषधाधिपः ||
२९ ग