chevron_left भीष्म पर्व अध्याय ७७
सञ्जय़ उवाच:
अथात्मजं तव पुनर्गाङ्गेय़ो ध्यानमास्थितम् |
१ क
सञ्जय़ उवाच:
अव्रवीद्भरतश्रेष्ठः सम्प्रहर्षकरं वचः ||
१ ख
सञ्जय़ उवाच:
अहं द्रोणश्च शल्यश्च कृतवर्मा च सात्वतः |
२ क
सञ्जय़ उवाच:
अश्वत्थामा विकर्णश्च सोमदत्तोऽथ सैन्धवः ||
२ ख
सञ्जय़ उवाच:
विन्दानुविन्दावावन्त्यौ वाह्लिकः सह वाह्लिकैः |
३ क
सञ्जय़ उवाच:
त्रिगर्तराजश्च वली मागधश्च सुदुर्जय़ः ||
३ ख
सञ्जय़ उवाच:
वृहद्वलश्च कौसल्यश्चित्रसेनो विविंशतिः |
४ क
सञ्जय़ उवाच:
रथाश्च वहुसाहस्राः शोभमाना महाध्वजाः ||
४ ख
सञ्जय़ उवाच:
देशजाश्च हय़ा राजन्स्वारूढा हय़सादिभिः |
५ क
सञ्जय़ उवाच:
गजेन्द्राश्च मदोद्वृत्ताः प्रभिन्नकरटामुखाः ||
५ ख
सञ्जय़ उवाच:
पदाताश्च तथा शूरा नानाप्रहरणाय़ुधाः |
६ क
सञ्जय़ उवाच:
नानादेशसमुत्पन्नास्त्वदर्थे योद्धुमुद्यताः ||
६ ख
सञ्जय़ उवाच:
एते चान्ये च वहवस्त्वदर्थे त्यक्तजीविताः |
७ क
सञ्जय़ उवाच:
देवानपि रणे जेतुं समर्था इति मे मतिः ||
७ ख
सञ्जय़ उवाच:
अवश्यं तु मय़ा राजंस्तव वाच्यं हितं सदा |
८ क
सञ्जय़ उवाच:
अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः |
८ ख
सञ्जय़ उवाच:
वासुदेवसहाय़ाश्च महेन्द्रसमविक्रमाः ||
८ ग
सञ्जय़ उवाच:
सर्वथाहं तु राजेन्द्र करिष्ये वचनं तव |
९ क
सञ्जय़ उवाच:
पाण्डवान्वा रणे जेष्ये मां वा जेष्यन्ति पाण्डवाः ||
९ ख
सञ्जय़ उवाच:
एवमुक्त्वा ददौ चास्मै विशल्यकरणीं शुभाम् |
१० क
सञ्जय़ उवाच:
ओषधीं वीर्यसम्पन्नां विशल्यश्चाभवत्तदा ||
१० ख
सञ्जय़ उवाच:
ततः प्रभाते विमले स्वेनानीकेन वीर्यवान् |
११ क
सञ्जय़ उवाच:
अव्यूहत स्वय़ं व्यूहं भीष्मो व्यूहविशारदः ||
११ ख
सञ्जय़ उवाच:
मण्डलं मनुजश्रेष्ठ नानाशस्त्रसमाकुलम् |
१२ क
सञ्जय़ उवाच:
सम्पूर्णं योधमुख्यैश्च तथा दन्तिपदातिभिः ||
१२ ख
सञ्जय़ उवाच:
रथैरनेकसाहस्रैः समन्तात्परिवारितम् |
१३ क
सञ्जय़ उवाच:
अश्ववृन्दैर्महद्भिश्च ऋष्टितोमरधारिभिः ||
१३ ख
सञ्जय़ उवाच:
नागे नागे रथाः सप्त सप्त चाश्वा रथे रथे |
१४ क
सञ्जय़ उवाच:
अन्वश्वं दश धानुष्का धानुष्के सप्त चर्मिणः ||
१४ ख
सञ्जय़ उवाच:
एवंव्यूहं महाराज तव सैन्यं महारथैः |
१५ क
सञ्जय़ उवाच:
स्थितं रणाय़ महते भीष्मेण युधि पालितम् ||
१५ ख
सञ्जय़ उवाच:
दशाश्वानां सहस्राणि दन्तिनां च तथैव च |
१६ क
सञ्जय़ उवाच:
रथानामय़ुतं चापि पुत्राश्च तव दंशिताः |
१६ ख
सञ्जय़ उवाच:
चित्रसेनादय़ः शूरा अभ्यरक्षन्पितामहम् ||
१६ ग
सञ्जय़ उवाच:
रक्ष्यमाणश्च तैः शूरैर्गोप्यमानाश्च तेन ते |
१७ क
सञ्जय़ उवाच:
संनद्धाः समदृश्यन्त राजानश्च महावलाः ||
१७ ख
सञ्जय़ उवाच:
दुर्योधनस्तु समरे दंशितो रथमास्थितः |
१८ क
सञ्जय़ उवाच:
व्यभ्राजत श्रिय़ा जुष्टो यथा शक्रस्त्रिविष्टपे ||
१८ ख
सञ्जय़ उवाच:
ततः शव्दो महानासीत्पुत्राणां तव भारत |
१९ क
सञ्जय़ उवाच:
रथघोषश्च तुमुलो वादित्राणां च निस्वनः ||
१९ ख
सञ्जय़ उवाच:
भीष्मेण धार्तराष्ट्राणां व्यूढः प्रत्यङ्मुखो युधि |
२० क
सञ्जय़ उवाच:
मण्डलः सुमहाव्यूहो दुर्भेद्योऽमित्रघातिनाम् |
२० ख
सञ्जय़ उवाच:
सर्वतः शुशुभे राजन्रणेऽरीणां दुरासदः ||
२० ग
सञ्जय़ उवाच:
मण्डलं तु समालोक्य व्यूहं परमदारुणम् |
२१ क
सञ्जय़ उवाच:
स्वय़ं युधिष्ठिरो राजा व्यूहं वज्रमथाकरोत् ||
२१ ख
सञ्जय़ उवाच:
तथा व्यूढेष्वनीकेषु यथास्थानमवस्थिताः |
२२ क
सञ्जय़ उवाच:
रथिनः सादिनश्चैव सिंहनादमथानदन् ||
२२ ख
सञ्जय़ उवाच:
विभित्सवस्ततो व्यूहं निर्ययुर्युद्धकाङ्क्षिणः |
२३ क
सञ्जय़ उवाच:
इतरेतरतः शूराः सहसैन्याः प्रहारिणः ||
२३ ख
सञ्जय़ उवाच:
भारद्वाजो यय़ौ मत्स्यं द्रौणिश्चापि शिखण्डिनम् |
२४ क
सञ्जय़ उवाच:
स्वय़ं दुर्योधनो राजा पार्षतं समुपाद्रवत् ||
२४ ख
सञ्जय़ उवाच:
नकुलः सहदेवश्च राजन्मद्रेशमीय़तुः |
२५ क
सञ्जय़ उवाच:
विन्दानुविन्दावावन्त्याविरावन्तमभिद्रुतौ ||
२५ ख
सञ्जय़ उवाच:
सर्वे नृपास्तु समरे धनञ्जय़मय़ोधय़न् |
२६ क
सञ्जय़ उवाच:
भीमसेनो रणे यत्तो हार्दिक्यं समवारय़त् ||
२६ ख
सञ्जय़ उवाच:
चित्रसेनं विकर्णं च तथा दुर्मर्षणं विभो |
२७ क
सञ्जय़ उवाच:
आर्जुनिः समरे राजंस्तव पुत्रानय़ोधय़त् ||
२७ ख
सञ्जय़ उवाच:
प्राग्ज्योतिषं महेष्वासं हैडिम्वो राक्षसोत्तमः |
२८ क
सञ्जय़ उवाच:
अभिदुद्राव वेगेन मत्तो मत्तमिव द्विपम् ||
२८ ख
सञ्जय़ उवाच:
अलम्वुसस्ततो राजन्सात्यकिं युद्धदुर्मदम् |
२९ क
सञ्जय़ उवाच:
ससैन्यं समरे क्रुद्धो राक्षसः समभिद्रवत् ||
२९ ख
सञ्जय़ उवाच:
भूरिश्रवा रणे यत्तो धृष्टकेतुमय़ोधय़त् |
३० क
सञ्जय़ उवाच:
श्रुताय़ुषं तु राजानं धर्मपुत्रो युधिष्ठिरः ||
३० ख
सञ्जय़ उवाच:
चेकितानस्तु समरे कृपमेवान्वय़ोधय़त् |
३१ क
सञ्जय़ उवाच:
शेषाः प्रतिय़युर्यत्ता भीममेव महारथम् ||
३१ ख
सञ्जय़ उवाच:
ततो राजसहस्राणि परिवव्रुर्धनञ्जय़म् |
३२ क
सञ्जय़ उवाच:
शक्तितोमरनाराचगदापरिघपाणय़ः ||
३२ ख
सञ्जय़ उवाच:
अर्जुनोऽथ भृशं क्रुद्धो वार्ष्णेय़मिदमव्रवीत् |
३३ क
सञ्जय़ उवाच:
पश्य माधव सैन्यानि धार्तराष्ट्रस्य संय़ुगे |
३३ ख
सञ्जय़ उवाच:
व्यूढानि व्यूहविदुषा गाङ्गेय़ेन महात्मना ||
३३ ग
सञ्जय़ उवाच:
युद्धाभिकामाञ्शूरांश्च पश्य माधव दंशितान् |
३४ क
सञ्जय़ उवाच:
त्रिगर्तराजं सहितं भ्रातृभिः पश्य केशव ||
३४ ख
सञ्जय़ उवाच:
अद्यैतान्पातय़िष्यामि पश्यतस्ते जनार्दन |
३५ क
सञ्जय़ उवाच:
य इमे मां यदुश्रेष्ठ योद्धुकामा रणाजिरे ||
३५ ख
सञ्जय़ उवाच:
एवमुक्त्वा तु कौन्तेय़ो धनुर्ज्यामवमृज्य च |
३६ क
सञ्जय़ उवाच:
ववर्ष शरवर्षाणि नराधिपगणान्प्रति ||
३६ ख
सञ्जय़ उवाच:
तेऽपि तं परमेष्वासाः शरवर्षैरपूरय़न् |
३७ क
सञ्जय़ उवाच:
तडागमिव धाराभिर्यथा प्रावृषि तोय़दा ||
३७ ख
सञ्जय़ उवाच:
हाहाकारो महानासीत्तव सैन्ये विशां पते |
३८ क
सञ्जय़ उवाच:
छाद्यमानौ भृशं कृष्णौ शरैर्दृष्ट्वा महारणे ||
३८ ख
सञ्जय़ उवाच:
देवा देवर्षय़श्चैव गन्धर्वाश्च महोरगाः |
३९ क
सञ्जय़ उवाच:
विस्मय़ं परमं जग्मुर्दृष्ट्वा कृष्णौ तथागतौ ||
३९ ख
सञ्जय़ उवाच:
ततः क्रुद्धोऽर्जुनो राजन्नैन्द्रमस्त्रमुदीरय़त् |
४० क
सञ्जय़ उवाच:
तत्राद्भुतमपश्याम विजय़स्य पराक्रमम् ||
४० ख
सञ्जय़ उवाच:
शस्त्रवृष्टिं परैर्मुक्तां शरौघैर्यदवारय़त् |
४१ क
सञ्जय़ उवाच:
न च तत्राप्यनिर्भिन्नः कश्चिदासीद्विशां पते ||
४१ ख
सञ्जय़ उवाच:
तेषां राजसहस्राणां हय़ानां दन्तिनां तथा |
४२ क
सञ्जय़ उवाच:
द्वाभ्यां त्रिभिः शरैश्चान्यान्पार्थो विव्याध मारिष ||
४२ ख
सञ्जय़ उवाच:
ते हन्यमानाः पार्थेन भीष्मं शान्तनवं यय़ुः |
४३ क
सञ्जय़ उवाच:
अगाधे मज्जमानानां भीष्मस्त्राताभवत्तदा ||
४३ ख
सञ्जय़ उवाच:
आपतद्भिस्तु तैस्तत्र प्रभग्नं तावकं वलम् |
४४ क
सञ्जय़ उवाच:
सञ्चुक्षुभे महाराज वातैरिव महार्णवः ||
४४ ख