वासुदेव उवाच:
सुय़ोधनमतिक्रान्तमेनं पश्य धनञ्जय़ |
१ क
वासुदेव उवाच:
आपद्गतमिमं मन्ये नास्त्यस्य सदृशो रथः ||
१ ख
वासुदेव उवाच:
दूरपाती महेष्वासः कृतास्त्रो युद्धदुर्मदः |
२ क
वासुदेव उवाच:
दृढास्त्रश्चित्रय़ोधी च धार्तराष्ट्रो महावलः ||
२ ख
वासुदेव उवाच:
अत्यन्तसुखसंवृद्धो मानितश्च महारथैः |
३ क
वासुदेव उवाच:
कृती च सततं पार्थ नित्यं द्वेष्टि च पाण्डवान् ||
३ ख
वासुदेव उवाच:
तेन युद्धमहं मन्ये प्राप्तकालं तवानघ |
४ क
वासुदेव उवाच:
अत्र वो द्यूतमाय़ातं विजय़ाय़ेतराय़ वा ||
४ ख
वासुदेव उवाच:
अत्र क्रोधविषं पार्थ विमुञ्च चिरसम्भृतम् |
५ क
वासुदेव उवाच:
एष मूलमनर्थानां पाण्डवानां महारथः ||
५ ख
वासुदेव उवाच:
सोऽय़ं प्राप्तस्तवाक्षेपं पश्य साफल्यमात्मनः |
६ क
वासुदेव उवाच:
कथं हि राजा राज्यार्थी त्वय़ा गच्छेत संय़ुगम् ||
६ ख
वासुदेव उवाच:
दिष्ट्या त्विदानीं सम्प्राप्त एष ते वाणगोचरम् |
७ क
वासुदेव उवाच:
स यथा जीवितं जह्यात्तथा कुरु धनञ्जय़ ||
७ ख
वासुदेव उवाच:
ऐश्वर्यमदसंमूढो नैष दुःखमुपेय़िवान् |
८ क
वासुदेव उवाच:
न च ते संय़ुगे वीर्यं जानाति पुरुषर्षभ ||
८ ख
वासुदेव उवाच:
त्वां हि लोकास्त्रय़ः पार्थ ससुरासुरमानुषाः |
९ क
वासुदेव उवाच:
नोत्सहन्ते रणे जेतुं किमुतैकः सुय़ोधनः ||
९ ख
वासुदेव उवाच:
स दिष्ट्या समनुप्राप्तस्तव पार्थ रथान्तिकम् |
१० क
वासुदेव उवाच:
जह्येनं वै महावाहो यथा वृत्रं पुरन्दरः ||
१० ख
वासुदेव उवाच:
एष ह्यनर्थे सततं पराक्रान्तस्तवानघ |
११ क
वासुदेव उवाच:
निकृत्या धर्मराजं च द्यूते वञ्चितवानय़म् ||
११ ख
वासुदेव उवाच:
वहूनि सुनृशंसानि कृतान्येतेन मानद |
१२ क
वासुदेव उवाच:
युष्मासु पापमतिना अपापेष्वेव नित्यदा ||
१२ ख
वासुदेव उवाच:
तमनार्यं सदा क्षुद्रं पुरुषं कामचारिणम् |
१३ क
वासुदेव उवाच:
आर्यां युद्धे मतिं कृत्वा जहि पार्थाविचारय़न् ||
१३ ख
वासुदेव उवाच:
निकृत्या राज्यहरणं वनवासं च पाण्डव |
१४ क
वासुदेव उवाच:
परिक्लेशं च कृष्णाय़ा हृदि कृत्वा पराक्रम ||
१४ ख
वासुदेव उवाच:
दिष्ट्यैष तव वाणानां गोचरे परिवर्तते |
१५ क
वासुदेव उवाच:
प्रतिघाताय़ कार्यस्य दिष्ट्या च यततेऽग्रतः ||
१५ ख
वासुदेव उवाच:
दिष्ट्या जानाति सङ्ग्रामे योद्धव्यं हि त्वय़ा सह |
१६ क
वासुदेव उवाच:
दिष्ट्या च सफलाः पार्थ सर्वे कामा हि कामिताः ||
१६ ख
वासुदेव उवाच:
तस्माज्जहि रणे पार्थ धार्तराष्ट्रं कुलाधमम् |
१७ क
वासुदेव उवाच:
यथेन्द्रेण हतः पूर्वं जम्भो देवासुरे मृधे ||
१७ ख
वासुदेव उवाच:
अस्मिन्हते त्वय़ा सैन्यमनाथं भिद्यतामिदम् |
१८ क
वासुदेव उवाच:
वैरस्यास्यास्त्ववभृथो मूलं छिन्धि दुरात्मनाम् ||
१८ ख
सञ्जय़ उवाच:
तं तथेत्यव्रवीत्पार्थः कृत्यरूपमिदं मम |
१९ क
सञ्जय़ उवाच:
सर्वमन्यदनादृत्य गच्छ यत्र सुय़ोधनः ||
१९ ख
सञ्जय़ उवाच:
येनैतद्दीर्घकालं नो भुक्तं राज्यमकण्टकम् |
२० क
सञ्जय़ उवाच:
अप्यस्य युधि विक्रम्य छिन्द्यां मूर्धानमाहवे ||
२० ख
सञ्जय़ उवाच:
अपि तस्या अनर्हाय़ाः परिक्लेशस्य माधव |
२१ क
सञ्जय़ उवाच:
कृष्णाय़ाः शक्नुय़ां गन्तुं पदं केशप्रधर्षणे ||
२१ ख
सञ्जय़ उवाच:
इत्येवं वादिनौ हृष्टौ कृष्णौ श्वेतान्हय़ोत्तमान् |
२२ क
सञ्जय़ उवाच:
प्रेषय़ामासतुः सङ्ख्ये प्रेप्सन्तौ तं नराधिपम् ||
२२ ख
सञ्जय़ उवाच:
तय़ोः समीपं सम्प्राप्य पुत्रस्ते भरतर्षभ |
२३ क
सञ्जय़ उवाच:
न चकार भय़ं प्राप्ते भय़े महति मारिष ||
२३ ख
सञ्जय़ उवाच:
तदस्य क्षत्रिय़ास्तत्र सर्व एवाभ्यपूजय़न् |
२४ क
सञ्जय़ उवाच:
यदर्जुनहृषीकेशौ प्रत्युद्यातोऽविचारय़न् ||
२४ ख
सञ्जय़ उवाच:
ततः सर्वस्य सैन्यस्य तावकस्य विशां पते |
२५ क
सञ्जय़ उवाच:
महान्नादो ह्यभूत्तत्र दृष्ट्वा राजानमाहवे ||
२५ ख
सञ्जय़ उवाच:
तस्मिञ्जनसमुन्नादे प्रवृत्ते भैरवे सति |
२६ क
सञ्जय़ उवाच:
कदर्थीकृत्य ते पुत्रः प्रत्यमित्रमवारय़त् ||
२६ ख
सञ्जय़ उवाच:
आवारितस्तु कौन्तेय़स्तव पुत्रेण धन्विना |
२७ क
सञ्जय़ उवाच:
संरम्भमगमद्भूय़ः स च तस्मिन्परन्तपः ||
२७ ख
सञ्जय़ उवाच:
तौ दृष्ट्वा प्रतिसंरव्धौ दुर्योधनधनञ्जय़ौ |
२८ क
सञ्जय़ उवाच:
अभ्यवैक्षन्त राजानो भीमरूपाः समन्ततः ||
२८ ख
सञ्जय़ उवाच:
दृष्ट्वा तु पार्थं संरव्धं वासुदेवं च मारिष |
२९ क
सञ्जय़ उवाच:
प्रहसन्निव पुत्रस्ते योद्धुकामः समाह्वय़त् ||
२९ ख
सञ्जय़ उवाच:
ततः प्रहृष्टो दाशार्हः पाण्डवश्च धनञ्जय़ः |
३० क
सञ्जय़ उवाच:
व्याक्रोशेतां महानादं दध्मतुश्चाम्वुजोत्तमौ ||
३० ख
सञ्जय़ उवाच:
तौ हृष्टरूपौ सम्प्रेक्ष्य कौरवेय़ाश्च सर्वशः |
३१ क
सञ्जय़ उवाच:
निराशाः समपद्यन्त पुत्रस्य तव जीविते ||
३१ ख
सञ्जय़ उवाच:
शोकमीय़ुः परं चैव कुरवः सर्व एव ते |
३२ क
सञ्जय़ उवाच:
अमन्यन्त च पुत्रं ते वैश्वानरमुखे हुतम् ||
३२ ख
सञ्जय़ उवाच:
तथा तु दृष्ट्वा योधास्ते प्रहृष्टौ कृष्णपाण्डवौ |
३३ क
सञ्जय़ उवाच:
हतो राजा हतो राजेत्यूचुरेवं भय़ार्दिताः ||
३३ ख
सञ्जय़ उवाच:
जनस्य संनिनादं तु श्रुत्वा दुर्योधनोऽव्रवीत् |
३४ क
सञ्जय़ उवाच:
व्येतु वो भीरहं कृष्णौ प्रेषय़िष्यामि मृत्यवे ||
३४ ख
सञ्जय़ उवाच:
इत्युक्त्वा सैनिकान्सर्वाञ्जय़ापेक्षी नराधिपः |
३५ क
सञ्जय़ उवाच:
पार्थमाभाष्य संरम्भादिदं वचनमव्रवीत् ||
३५ ख
सञ्जय़ उवाच:
पार्थ यच्छिक्षितं तेऽस्त्रं दिव्यं मानुषमेव च |
३६ क
सञ्जय़ उवाच:
तद्दर्शय़ मय़ि क्षिप्रं यदि जातोऽसि पाण्डुना ||
३६ ख
सञ्जय़ उवाच:
यद्वलं तव वीर्यं च केशवस्य तथैव च |
३७ क
सञ्जय़ उवाच:
तत्कुरुष्व मय़ि क्षिप्रं पश्यामस्तव पौरुषम् ||
३७ ख
सञ्जय़ उवाच:
अस्मत्परोक्षं कर्माणि प्रवदन्ति कृतानि ते |
३८ क
सञ्जय़ उवाच:
स्वामिसत्कारय़ुक्तानि यानि तानीह दर्शय़ ||
३८ ख