वैशम्पाय़न उवाच:
श्रुत्वा कुमारं जातं तु देवय़ानी शुचिस्मिता |
१ क
वैशम्पाय़न उवाच:
चिन्तय़ामास दुःखार्ता शर्मिष्ठां प्रति भारत ||
१ ख
वैशम्पाय़न उवाच:
अभिगम्य च शर्मिष्ठां देवय़ान्यव्रवीदिदम् |
२ क
वैशम्पाय़न उवाच:
किमिदं वृजिनं सुभ्रु कृतं ते कामलुव्धय़ा ||
२ ख
शर्मिष्ठो उवाच:
ऋषिरभ्यागतः कश्चिद्धर्मात्मा वेदपारगः |
३ क
शर्मिष्ठो उवाच:
स मय़ा वरदः कामं याचितो धर्मसंहितम् ||
३ ख
शर्मिष्ठो उवाच:
नाहमन्याय़तः काममाचरामि शुचिस्मिते |
४ क
शर्मिष्ठो उवाच:
तस्मादृषेर्ममापत्यमिति सत्यं व्रवीमि ते ||
४ ख
देवय़ान्यु उवाच:
शोभनं भीरु सत्यं चेदथ स ज्ञाय़ते द्विजः |
५ क
देवय़ान्यु उवाच:
गोत्रनामाभिजनतो वेत्तुमिच्छामि तं द्विजम् ||
५ ख
शर्मिष्ठो उवाच:
ओजसा तेजसा चैव दीप्यमानं रविं यथा |
६ क
शर्मिष्ठो उवाच:
तं दृष्ट्वा मम सम्प्रष्टुं शक्तिर्नासीच्छुचिस्मिते ||
६ ख
देवय़ान्यु उवाच:
यद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम |
७ क
देवय़ान्यु उवाच:
अपत्यं यदि ते लव्धं ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात् ||
७ ख
वैशम्पाय़न उवाच:
अन्योन्यमेवमुक्त्वा च सम्प्रहस्य च ते मिथः |
८ क
वैशम्पाय़न उवाच:
जगाम भार्गवी वेश्म तथ्यमित्येव जज्ञुषी ||
८ ख
वैशम्पाय़न उवाच:
यय़ातिर्देवय़ान्यां तु पुत्रावजनय़न्नृपः |
९ क
वैशम्पाय़न उवाच:
यदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ ||
९ ख
वैशम्पाय़न उवाच:
तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी |
१० क
वैशम्पाय़न उवाच:
द्रुह्युं चानुं च पूरुं च त्रीन्कुमारानजीजनत् ||
१० ख
वैशम्पाय़न उवाच:
ततः काले तु कस्मिंश्चिद्देवय़ानी शुचिस्मिता |
११ क
वैशम्पाय़न उवाच:
यय़ातिसहिता राजन्निर्जगाम महावनम् ||
११ ख
वैशम्पाय़न उवाच:
ददर्श च तदा तत्र कुमारान्देवरूपिणः |
१२ क
वैशम्पाय़न उवाच:
क्रीडमानान्सुविश्रव्धान्विस्मिता चेदमव्रवीत् ||
१२ ख
वैशम्पाय़न उवाच:
कस्यैते दारका राजन्देवपुत्रोपमाः शुभाः |
१३ क
वैशम्पाय़न उवाच:
वर्चसा रूपतश्चैव सदृशा मे मतास्तव ||
१३ ख
वैशम्पाय़न उवाच:
एवं पृष्ट्वा तु राजानं कुमारान्पर्यपृच्छत |
१४ क
वैशम्पाय़न उवाच:
किंनामधेय़गोत्रो वः पुत्रका व्राह्मणः पिता |
१४ ख
वैशम्पाय़न उवाच:
विव्रूत मे यथातथ्यं श्रोतुमिच्छामि तं ह्यहम् ||
१४ ग
वैशम्पाय़न उवाच:
तेऽदर्शय़न्प्रदेशिन्या तमेव नृपसत्तमम् |
१५ क
वैशम्पाय़न उवाच:
शर्मिष्ठां मातरं चैव तस्याचख्युश्च दारकाः ||
१५ ख
वैशम्पाय़न उवाच:
इत्युक्त्वा सहितास्ते तु राजानमुपचक्रमुः |
१६ क
वैशम्पाय़न उवाच:
नाभ्यनन्दत तान्राजा देवय़ान्यास्तदान्तिके |
१६ ख
वैशम्पाय़न उवाच:
रुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्वालकास्ततः ||
१६ ग
वैशम्पाय़न उवाच:
दृष्ट्वा तु तेषां वालानां प्रणय़ं पार्थिवं प्रति |
१७ क
वैशम्पाय़न उवाच:
वुद्ध्वा च तत्त्वतो देवी शर्मिष्ठामिदमव्रवीत् ||
१७ ख
वैशम्पाय़न उवाच:
मदधीना सती कस्मादकार्षीर्विप्रिय़ं मम |
१८ क
वैशम्पाय़न उवाच:
तमेवासुरधर्मं त्वमास्थिता न विभेषि किम् ||
१८ ख
शर्मिष्ठो उवाच:
यदुक्तमृषिरित्येव तत्सत्यं चारुहासिनि |
१९ क
शर्मिष्ठो उवाच:
न्याय़तो धर्मतश्चैव चरन्ती न विभेमि ते ||
१९ ख
शर्मिष्ठो उवाच:
यदा त्वय़ा वृतो राजा वृत एव तदा मय़ा |
२० क
शर्मिष्ठो उवाच:
सखीभर्ता हि धर्मेण भर्ता भवति शोभने ||
२० ख
शर्मिष्ठो उवाच:
पूज्यासि मम मान्या च ज्येष्ठा श्रेष्ठा च व्राह्मणी |
२१ क
शर्मिष्ठो उवाच:
त्वत्तोऽपि मे पूज्यतमो राजर्षिः किं न वेत्थ तत् ||
२१ ख
वैशम्पाय़न उवाच:
श्रुत्वा तस्यास्ततो वाक्यं देवय़ान्यव्रवीदिदम् |
२२ क
वैशम्पाय़न उवाच:
राजन्नाद्येह वत्स्यामि विप्रिय़ं मे कृतं त्वय़ा ||
२२ ख
वैशम्पाय़न उवाच:
सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम् |
२३ क
वैशम्पाय़न उवाच:
त्वरितं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा ||
२३ ख
वैशम्पाय़न उवाच:
अनुवव्राज सम्भ्रान्तः पृष्ठतः सान्त्वय़न्नृपः |
२४ क
वैशम्पाय़न उवाच:
न्यवर्तत न चैव स्म क्रोधसंरक्तलोचना ||
२४ ख
वैशम्पाय़न उवाच:
अविव्रुवन्ती किञ्चित्तु राजानं चारुलोचना |
२५ क
वैशम्पाय़न उवाच:
अचिरादिव सम्प्राप्ता काव्यस्योशनसोऽन्तिकम् ||
२५ ख
वैशम्पाय़न उवाच:
सा तु दृष्ट्वैव पितरमभिवाद्याग्रतः स्थिता |
२६ क
वैशम्पाय़न उवाच:
अनन्तरं यय़ातिस्तु पूजय़ामास भार्गवम् ||
२६ ख
देवय़ान्यु उवाच:
अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम् |
२७ क
देवय़ान्यु उवाच:
शर्मिष्ठय़ातिवृत्तास्मि दुहित्रा वृषपर्वणः ||
२७ ख
देवय़ान्यु उवाच:
त्रय़ोऽस्यां जनिताः पुत्रा राज्ञानेन यय़ातिना |
२८ क
देवय़ान्यु उवाच:
दुर्भगाय़ा मम द्वौ तु पुत्रौ तात व्रवीमि ते ||
२८ ख
देवय़ान्यु उवाच:
धर्मज्ञ इति विख्यात एष राजा भृगूद्वह |
२९ क
देवय़ान्यु उवाच:
अतिक्रान्तश्च मर्यादां काव्यैतत्कथय़ामि ते ||
२९ ख
शुक्र उवाच:
धर्मज्ञः सन्महाराज योऽधर्ममकृथाः प्रिय़म् |
३० क
शुक्र उवाच:
तस्माज्जरा त्वामचिराद्धर्षय़िष्यति दुर्जय़ा ||
३० ख
यय़ातिरु उवाच:
ऋतुं वै याचमानाय़ा भगवन्नान्यचेतसा |
३१ क
यय़ातिरु उवाच:
दुहितुर्दानवेन्द्रस्य धर्म्यमेतत्कृतं मय़ा ||
३१ ख
यय़ातिरु उवाच:
ऋतुं वै याचमानाय़ा न ददाति पुमान्वृतः |
३२ क
यय़ातिरु उवाच:
भ्रूणहेत्युच्यते व्रह्मन्स इह व्रह्मवादिभिः ||
३२ ख
यय़ातिरु उवाच:
अभिकामां स्त्रिय़ं यस्तु गम्यां रहसि याचितः |
३३ क
यय़ातिरु उवाच:
नोपैति स च धर्मेषु भ्रूणहेत्युच्यते वुधैः ||
३३ ख
यय़ातिरु उवाच:
इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह |
३४ क
यय़ातिरु उवाच:
अधर्मभय़संविग्नः शर्मिष्ठामुपजग्मिवान् ||
३४ ख
शुक्र उवाच:
नन्वहं प्रत्यवेक्ष्यस्ते मदधीनोऽसि पार्थिव |
३५ क
शुक्र उवाच:
मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष ||
३५ ख
वैशम्पाय़न उवाच:
क्रुद्धेनोशनसा शप्तो यय़ातिर्नाहुषस्तदा |
३६ क
वैशम्पाय़न उवाच:
पूर्वं वय़ः परित्यज्य जरां सद्योऽन्वपद्यत ||
३६ ख
यय़ातिरु उवाच:
अतृप्तो यौवनस्याहं देवय़ान्यां भृगूद्वह |
३७ क
यय़ातिरु उवाच:
प्रसादं कुरु मे व्रह्मञ्जरेय़ं मा विशेत माम् ||
३७ ख
शुक्र उवाच:
नाहं मृषा व्रवीम्येतज्जरां प्राप्तोऽसि भूमिप |
३८ क
शुक्र उवाच:
जरां त्वेतां त्वमन्यस्मै सङ्क्रामय़ यदीच्छसि ||
३८ ख
यय़ातिरु उवाच:
राज्यभाक्स भवेद्व्रह्मन्पुण्यभाक्कीर्तिभाक्तथा |
३९ क
यय़ातिरु उवाच:
यो मे दद्याद्वय़ः पुत्रस्तद्भवाननुमन्यताम् ||
३९ ख
शुक्र उवाच:
सङ्क्रामय़िष्यसि जरां यथेष्टं नहुषात्मज |
४० क
शुक्र उवाच:
मामनुध्याय़ भावेन न च पापमवाप्स्यसि ||
४० ख
शुक्र उवाच:
वय़ो दास्यति ते पुत्रो यः स राजा भविष्यति |
४१ क
शुक्र उवाच:
आय़ुष्मान्कीर्तिमांश्चैव वह्वपत्यस्तथैव च ||
४१ ख