chevron_left शान्ति पर्व अध्याय ७८
युधिष्ठिर उवाच:
केषां राजा प्रभवति वित्तस्य भरतर्षभ |
१ क
युधिष्ठिर उवाच:
कय़ा च वृत्त्या वर्तेत तन्मे व्रूहि पितामह ||
१ ख
भीष्म उवाच:
अव्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम् |
२ क
भीष्म उवाच:
व्राह्मणानां च ये केचिद्विकर्मस्था भवन्त्युत ||
२ ख
भीष्म उवाच:
विकर्मस्थाश्च नोपेक्ष्या विप्रा राज्ञा कथञ्चन |
३ क
भीष्म उवाच:
इति राज्ञां पुरावृत्तमभिजल्पन्ति साधवः ||
३ ख
भीष्म उवाच:
यस्य स्म विषय़े राज्ञः स्तेनो भवति वै द्विजः |
४ क
भीष्म उवाच:
राज्ञ एवापराधं तं मन्यन्ते किल्विषं नृप ||
४ ख
भीष्म उवाच:
अभिशस्तमिवात्मानं मन्यन्ते तेन कर्मणा |
५ क
भीष्म उवाच:
तस्माद्राजर्षय़ः सर्वे व्राह्मणानन्वपालय़न् ||
५ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
६ क
भीष्म उवाच:
गीतं केकय़राजेन ह्रिय़माणेन रक्षसा ||
६ ख
भीष्म उवाच:
केकय़ानामधिपतिं रक्षो जग्राह दारुणम् |
७ क
भीष्म उवाच:
स्वाध्याय़ेनान्वितं राजन्नरण्ये संशितव्रतम् ||
७ ख
राजो उवाच:
न मे स्तेनो जनपदे न कदर्यो न मद्यपः |
८ क
राजो उवाच:
नानाहिताग्निर्नाय़ज्वा मामकान्तरमाविशः ||
८ ख
राजो उवाच:
न च मे व्राह्मणोऽविद्वान्नाव्रती नाप्यसोमपः |
९ क
राजो उवाच:
नानाहिताग्निर्विषय़े मामकान्तरमाविशः ||
९ ख
राजो उवाच:
नानाप्तदक्षिणैर्यज्ञैर्यजन्ते विषय़े मम |
१० क
राजो उवाच:
अधीते नाव्रती कश्चिन्मामकान्तरमाविशः ||
१० ख
राजो उवाच:
अधीय़तेऽध्यापय़न्ति यजन्ते याजय़न्ति च |
११ क
राजो उवाच:
ददति प्रतिगृह्णन्ति षट्सु कर्मस्ववस्थिताः ||
११ ख
राजो उवाच:
पूजिताः संविभक्ताश्च मृदवः सत्यवादिनः |
१२ क
राजो उवाच:
व्राह्मणा मे स्वकर्मस्था मामकान्तरमाविशः ||
१२ ख
राजो उवाच:
न याचन्ते प्रय़च्छन्ति सत्यधर्मविशारदाः |
१३ क
राजो उवाच:
नाध्यापय़न्त्यधीय़न्ते यजन्ते न च याजकाः ||
१३ ख
राजो उवाच:
व्राह्मणान्परिरक्षन्ति सङ्ग्रामेष्वपलाय़िनः |
१४ क
राजो उवाच:
क्षत्रिय़ा मे स्वकर्मस्था मामकान्तरमाविशः ||
१४ ख
राजो उवाच:
कृषिगोरक्षवाणिज्यमुपजीवन्त्यमाय़या |
१५ क
राजो उवाच:
अप्रमत्ताः क्रिय़ावन्तः सुव्रताः सत्यवादिनः ||
१५ ख
राजो उवाच:
संविभागं दमं शौचं सौहृदं च व्यपाश्रिताः |
१६ क
राजो उवाच:
मम वैश्याः स्वकर्मस्था मामकान्तरमाविशः ||
१६ ख
राजो उवाच:
त्रीन्वर्णाननुतिष्ठन्ति यथावदनसूय़काः |
१७ क
राजो उवाच:
मम शूद्राः स्वकर्मस्था मामकान्तरमाविशः ||
१७ ख
राजो उवाच:
कृपणानाथवृद्धानां दुर्वलातुरय़ोषिताम् |
१८ क
राजो उवाच:
संविभक्तास्मि सर्वेषां मामकान्तरमाविशः ||
१८ ख
राजो उवाच:
कुलदेशादिधर्माणां प्रथितानां यथाविधि |
१९ क
राजो उवाच:
अव्युच्छेत्तास्मि सर्वेषां मामकान्तरमाविशः ||
१९ ख
राजो उवाच:
तपस्विनो मे विषय़े पूजिताः परिपालिताः |
२० क
राजो उवाच:
संविभक्ताश्च सत्कृत्य मामकान्तरमाविशः ||
२० ख
राजो उवाच:
नासंविभज्य भोक्तास्मि न विशामि परस्त्रिय़म् |
२१ क
राजो उवाच:
स्वतन्त्रो जातु न क्रीडे मामकान्तरमाविशः ||
२१ ख
राजो उवाच:
नाव्रह्मचारी भिक्षावान्भिक्षुर्वाव्रह्मचारिकः |
२२ क
राजो उवाच:
अनृत्विजं हुतं नास्ति मामकान्तरमाविशः ||
२२ ख
राजो उवाच:
नावजानाम्यहं वृद्धान्न वैद्यान्न तपस्विनः |
२३ क
राजो उवाच:
राष्ट्रे स्वपति जागर्मि मामकान्तरमाविशः ||
२३ ख
राजो उवाच:
वेदाध्ययनसम्पन्नस्तपस्वी सर्वधर्मवित् |
२४ क
राजो उवाच:
स्वामी सर्वस्य राज्यस्य श्रीमान्मम पुरोहितः ||
२४ ख
राजो उवाच:
दानेन दिव्यानभिवाञ्छामि लोका; न्सत्येनाथो व्राह्मणानां च गुप्त्या |
२५ क
राजो उवाच:
शुश्रूषय़ा चापि गुरूनुपैमि; न मे भय़ं विद्यते राक्षसेभ्यः ||
२५ ख
राजो उवाच:
न मे राष्ट्रे विधवा व्रह्मवन्धु; र्न व्राह्मणः कृपणो नोत चोरः |
२६ क
राजो उवाच:
न पारजाय़ी न च पापकर्मा; न मे भय़ं विद्यते राक्षसेभ्यः ||
२६ ख
राजो उवाच:
न मे शस्त्रैरनिर्भिन्नमङ्गे द्व्यङ्गुलमन्तरम् |
२७ क
राजो उवाच:
धर्मार्थं युध्यमानस्य मामकान्तरमाविशः ||
२७ ख
राजो उवाच:
गोव्राह्मणे च यज्ञे च नित्यं स्वस्त्ययनं मम |
२८ क
राजो उवाच:
आशासते जना राष्ट्रे मामकान्तरमाविशः ||
२८ ख
राक्षस उवाच:
यस्मात्सर्वास्ववस्थासु धर्ममेवान्ववेक्षसे |
२९ क
राक्षस उवाच:
तस्मात्प्राप्नुहि कैकेय़ गृहान्स्वस्ति व्रजाम्यहम् ||
२९ ख
राक्षस उवाच:
येषां गोव्राह्मणा रक्ष्याः प्रजा रक्ष्याश्च केकय़ |
३० क
राक्षस उवाच:
न रक्षोभ्यो भय़ं तेषां कुत एव तु मानुषात् ||
३० ख
राक्षस उवाच:
येषां पुरोगमा विप्रा येषां व्रह्मवलं वलम् |
३१ क
राक्षस उवाच:
प्रिय़ातिथ्यास्तथा दारास्ते वै स्वर्गजितो नराः ||
३१ ख
भीष्म उवाच:
तस्माद्द्विजातीन्रक्षेत ते हि रक्षन्ति रक्षिताः |
३२ क
भीष्म उवाच:
आशीरेषां भवेद्राज्ञां राष्ट्रं सम्यक्प्रवर्धते ||
३२ ख
भीष्म उवाच:
तस्माद्राज्ञा विशेषेण विकर्मस्था द्विजातय़ः |
३३ क
भीष्म उवाच:
निय़म्याः संविभज्याश्च प्रजानुग्रहकारणात् ||
३३ ख
भीष्म उवाच:
य एवं वर्तते राजा पौरजानपदेष्विह |
३४ क
भीष्म उवाच:
अनुभूय़ेह भद्राणि प्राप्नोतीन्द्रसलोकताम् ||
३४ ख