chevron_left वन पर्व अध्याय ७८
वृहदश्व उवाच:
प्रशान्ते तु पुरे हृष्टे सम्प्रवृत्ते महोत्सवे |
१ क
वृहदश्व उवाच:
महत्या सेनय़ा राजा दमय़न्तीमुपानय़त् ||
१ ख
वृहदश्व उवाच:
दमय़न्तीमपि पिता सत्कृत्य परवीरहा |
२ क
वृहदश्व उवाच:
प्रस्थापय़दमेय़ात्मा भीमो भीमपराक्रमः ||
२ ख
वृहदश्व उवाच:
आगताय़ां तु वैदर्भ्यां सपुत्राय़ां नलो नृपः |
३ क
वृहदश्व उवाच:
वर्तय़ामास मुदितो देवराडिव नन्दने ||
३ ख
वृहदश्व उवाच:
तथा प्रकाशतां यातो जम्वूद्वीपेऽथ राजसु |
४ क
वृहदश्व उवाच:
पुनः स्वे चावसद्राज्ये प्रत्याहृत्य महाय़शाः ||
४ ख
वृहदश्व उवाच:
ईजे च विविधैर्यज्ञैर्विधिवत्स्वाप्तदक्षिणैः |
५ क
वृहदश्व उवाच:
तथा त्वमपि राजेन्द्र ससुहृद्वक्ष्यसेऽचिरात् ||
५ ख
वृहदश्व उवाच:
दुःखमेतादृशं प्राप्तो नलः परपुरञ्जय़ः |
६ क
वृहदश्व उवाच:
देवनेन नरश्रेष्ठ सभार्यो भरतर्षभ ||
६ ख
वृहदश्व उवाच:
एकाकिनैव सुमहन्नलेन पृथिवीपते |
७ क
वृहदश्व उवाच:
दुःखमासादितं घोरं प्राप्तश्चाभ्युदय़ः पुनः ||
७ ख
वृहदश्व उवाच:
त्वं पुनर्भ्रातृसहितः कृष्णय़ा चैव पाण्डव |
८ क
वृहदश्व उवाच:
रमसेऽस्मिन्महारण्ये धर्ममेवानुचिन्तय़न् ||
८ ख
वृहदश्व उवाच:
व्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः |
९ क
वृहदश्व उवाच:
नित्यमन्वास्यसे राजंस्तत्र का परिदेवना ||
९ ख
वृहदश्व उवाच:
इतिहासमिमं चापि कलिनाशनमुच्यते |
१० क
वृहदश्व उवाच:
शक्यमाश्वासितुं श्रुत्वा त्वद्विधेन विशां पते ||
१० ख
वृहदश्व उवाच:
अस्थिरत्वं च सञ्चिन्त्य पुरुषार्थस्य नित्यदा |
११ क
वृहदश्व उवाच:
तस्याय़े च व्यये चैव समाश्वसिहि मा शुचः ||
११ ख
वृहदश्व उवाच:
ये चेदं कथय़िष्यन्ति नलस्य चरितं महत् |
१२ क
वृहदश्व उवाच:
श्रोष्यन्ति चाप्यभीक्ष्णं वै नालक्ष्मीस्तान्भजिष्यति |
१२ ख
वृहदश्व उवाच:
अर्थास्तस्योपपत्स्यन्ते धन्यतां च गमिष्यति ||
१२ ग
वृहदश्व उवाच:
इतिहासमिमं श्रुत्वा पुराणं शश्वदुत्तमम् |
१३ क
वृहदश्व उवाच:
पुत्रान्पौत्रान्पशूंश्चैव वेत्स्यते नृषु चाग्र्यताम् |
१३ ख
वृहदश्व उवाच:
अरोगः प्रीतिमांश्चैव भविष्यति न संशय़ः ||
१३ ग
वृहदश्व उवाच:
भय़ं पश्यसि यच्च त्वमाह्वय़िष्यति मां पुनः |
१४ क
वृहदश्व उवाच:
अक्षज्ञ इति तत्तेऽहं नाशय़िष्यामि पार्थिव ||
१४ ख
वृहदश्व उवाच:
वेदाक्षहृदय़ं कृत्स्नमहं सत्यपराक्रम |
१५ क
वृहदश्व उवाच:
उपपद्यस्व कौन्तेय़ प्रसन्नोऽहं व्रवीमि ते ||
१५ ख
वैशम्पाय़न उवाच:
ततो हृष्टमना राजा वृहदश्वमुवाच ह |
१६ क
वैशम्पाय़न उवाच:
भगवन्नक्षहृदय़ं ज्ञातुमिच्छामि तत्त्वतः ||
१६ ख
वैशम्पाय़न उवाच:
ततोऽक्षहृदय़ं प्रादात्पाण्डवाय़ महात्मने |
१७ क
वैशम्पाय़न उवाच:
दत्त्वा चाश्वशिरोऽगच्छदुपस्प्रष्टुं महातपाः ||
१७ ख
वैशम्पाय़न उवाच:
वृहदश्वे गते पार्थमश्रौषीत्सव्यसाचिनम् |
१८ क
वैशम्पाय़न उवाच:
वर्तमानं तपस्युग्रे वाय़ुभक्षं मनीषिणम् ||
१८ ख
वैशम्पाय़न उवाच:
व्राह्मणेभ्यस्तपस्विभ्यः सम्पतद्भ्यस्ततस्ततः |
१९ क
वैशम्पाय़न उवाच:
तीर्थशैलवरेभ्यश्च समेतेभ्यो दृढव्रतः ||
१९ ख
वैशम्पाय़न उवाच:
इति पार्थो महावाहुर्दुरापं तप आस्थितः |
२० क
वैशम्पाय़न उवाच:
न तथा दृष्टपूर्वोऽन्यः कश्चिदुग्रतपा इति ||
२० ख
वैशम्पाय़न उवाच:
यथा धनञ्जय़ः पार्थस्तपस्वी निय़तव्रतः |
२१ क
वैशम्पाय़न उवाच:
मुनिरेकचरः श्रीमान्धर्मो विग्रहवानिव ||
२१ ख
वैशम्पाय़न उवाच:
तं श्रुत्वा पाण्डवो राजंस्तप्यमानं महावने |
२२ क
वैशम्पाय़न उवाच:
अन्वशोचत कौन्तेय़ः प्रिय़ं वै भ्रातरं जय़म् ||
२२ ख
वैशम्पाय़न उवाच:
दह्यमानेन तु हृदा शरणार्थी महावने |
२३ क
वैशम्पाय़न उवाच:
व्राह्मणान्विविधज्ञानान्पर्यपृच्छद्युधिष्ठिरः ||
२३ ख