नकुल उवाच:
उक्तं वहुविधं वाक्यं धर्मराजेन माधव |
१ क
नकुल उवाच:
धर्मज्ञेन वदान्येन धर्मय़ुक्तं च तत्त्वतः ||
१ ख
नकुल उवाच:
मतमाज्ञाय़ राज्ञश्च भीमसेनेन माधव |
२ क
नकुल उवाच:
संशमो वाहुवीर्यं च ख्यापितं माधवात्मनः ||
२ ख
नकुल उवाच:
तथैव फल्गुनेनापि यदुक्तं तत्त्वय़ा श्रुतम् |
३ क
नकुल उवाच:
आत्मनश्च मतं वीर कथितं भवतासकृत् ||
३ ख
नकुल उवाच:
सर्वमेतदतिक्रम्य श्रुत्वा परमतं भवान् |
४ क
नकुल उवाच:
यत्प्राप्तकालं मन्येथास्तत्कुर्याः पुरुषोत्तम ||
४ ख
नकुल उवाच:
तस्मिंस्तस्मिन्निमित्ते हि मतं भवति केशव |
५ क
नकुल उवाच:
प्राप्तकालं मनुष्येण स्वय़ं कार्यमरिन्दम ||
५ ख
नकुल उवाच:
अन्यथा चिन्तितो ह्यर्थः पुनर्भवति सोऽन्यथा |
६ क
नकुल उवाच:
अनित्यमतय़ो लोके नराः पुरुषसत्तम ||
६ ख
नकुल उवाच:
अन्यथा वुद्धय़ो ह्यासन्नस्मासु वनवासिषु |
७ क
नकुल उवाच:
अदृश्येष्वन्यथा कृष्ण दृश्येषु पुनरन्यथा ||
७ ख
नकुल उवाच:
अस्माकमपि वार्ष्णेय़ वने विचरतां तदा |
८ क
नकुल उवाच:
न तथा प्रणय़ो राज्ये यथा सम्प्रति वर्तते ||
८ ख
नकुल उवाच:
निवृत्तवनवासान्नः श्रुत्वा वीर समागताः |
९ क
नकुल उवाच:
अक्षौहिण्यो हि सप्तेमास्त्वत्प्रसादाज्जनार्दन ||
९ ख
नकुल उवाच:
इमान्हि पुरुषव्याघ्रानचिन्त्यवलपौरुषान् |
१० क
नकुल उवाच:
आत्तशस्त्रान्रणे दृष्ट्वा न व्यथेदिह कः पुमान् ||
१० ख
नकुल उवाच:
स भवान्कुरुमध्ये तं सान्त्वपूर्वं भय़ान्वितम् |
११ क
नकुल उवाच:
व्रूय़ाद्वाक्यं यथा मन्दो न व्यथेत सुय़ोधनः ||
११ ख
नकुल उवाच:
युधिष्ठिरं भीमसेनं वीभत्सुं चापराजितम् |
१२ क
नकुल उवाच:
सहदेवं च मां चैव त्वां च रामं च केशव ||
१२ ख
नकुल उवाच:
सात्यकिं च महावीर्यं विराटं च सहात्मजम् |
१३ क
नकुल उवाच:
द्रुपदं च सहामात्यं धृष्टद्युम्नं च पार्षतम् ||
१३ ख
नकुल उवाच:
काशिराजं च विक्रान्तं धृष्टकेतुं च चेदिपम् |
१४ क
नकुल उवाच:
मांसशोणितभृन्मर्त्यः प्रतिय़ुध्येत को युधि ||
१४ ख
नकुल उवाच:
स भवान्गमनादेव साधय़िष्यत्यसंशय़म् |
१५ क
नकुल उवाच:
इष्टमर्थं महावाहो धर्मराजस्य केवलम् ||
१५ ख
नकुल उवाच:
विदुरश्चैव भीष्मश्च द्रोणश्च सहवाह्लिकः |
१६ क
नकुल उवाच:
श्रेय़ः समर्था विज्ञातुमुच्यमानं त्वय़ानघ ||
१६ ख
नकुल उवाच:
ते चैनमनुनेष्यन्ति धृतराष्ट्रं जनाधिपम् |
१७ क
नकुल उवाच:
तं च पापसमाचारं सहामात्यं सुय़ोधनम् ||
१७ ख
नकुल उवाच:
श्रोता चार्थस्य विदुरस्त्वं च वक्ता जनार्दन |
१८ क
नकुल उवाच:
कमिवार्थं विवर्तन्तं स्थापय़ेतां न वर्त्मनि ||
१८ ख