chevron_left भीष्म पर्व अध्याय ७८
सञ्जय़ उवाच:
तथा प्रवृत्ते सङ्ग्रामे निवृत्ते च सुशर्मणि |
१ क
सञ्जय़ उवाच:
प्रभग्नेषु च वीरेषु पाण्डवेन महात्मना ||
१ ख
सञ्जय़ उवाच:
क्षुभ्यमाणे वले तूर्णं सागरप्रतिमे तव |
२ क
सञ्जय़ उवाच:
प्रत्युद्याते च गाङ्गेय़े त्वरितं विजय़ं प्रति ||
२ ख
सञ्जय़ उवाच:
दृष्ट्वा दुर्योधनो राजन्रणे पार्थस्य विक्रमम् |
३ क
सञ्जय़ उवाच:
त्वरमाणः समभ्येत्य सर्वांस्तानव्रवीन्नृपान् ||
३ ख
सञ्जय़ उवाच:
तेषां च प्रमुखे शूरं सुशर्माणं महावलम् |
४ क
सञ्जय़ उवाच:
मध्ये सर्वस्य सैन्यस्य भृशं संहर्षय़न्वचः ||
४ ख
सञ्जय़ उवाच:
एष भीष्मः शान्तनवो योद्धुकामो धनञ्जय़म् |
५ क
सञ्जय़ उवाच:
सर्वात्मना कुरुश्रेष्ठस्त्यक्त्वा जीवितमात्मनः ||
५ ख
सञ्जय़ उवाच:
तं प्रय़ान्तं परानीकं सर्वसैन्येन भारतम् |
६ क
सञ्जय़ उवाच:
संय़त्ताः समरे सर्वे पालय़ध्वं पितामहम् ||
६ ख
सञ्जय़ उवाच:
वाढमित्येवमुक्त्वा तु तान्यनीकानि सर्वशः |
७ क
सञ्जय़ उवाच:
नरेन्द्राणां महाराज समाजग्मुः पितामहम् ||
७ ख
सञ्जय़ उवाच:
ततः प्रय़ातः सहसा भीष्मः शान्तनवोऽर्जुनम् |
८ क
सञ्जय़ उवाच:
रणे भारतमाय़ान्तमाससाद महावलम् ||
८ ख
सञ्जय़ उवाच:
महाश्वेताश्वय़ुक्तेन भीमवानरकेतुना |
९ क
सञ्जय़ उवाच:
महता मेघनादेन रथेनाति विराजत ||
९ ख
सञ्जय़ उवाच:
समरे सर्वसैन्यानामुपय़ातं धनञ्जय़म् |
१० क
सञ्जय़ उवाच:
अभवत्तुमुलो नादो भय़ाद्दृष्ट्वा किरीटिनम् ||
१० ख
सञ्जय़ उवाच:
अभीशुहस्तं कृष्णं च दृष्ट्वादित्यमिवापरम् |
११ क
सञ्जय़ उवाच:
मध्यन्दिनगतं सङ्ख्ये न शेकुः प्रतिवीक्षितुम् ||
११ ख
सञ्जय़ उवाच:
तथा शान्तनवं भीष्मं श्वेताश्वं श्वेतकार्मुकम् |
१२ क
सञ्जय़ उवाच:
न शेकुः पाण्डवा द्रष्टुं श्वेतग्रहमिवोदितम् ||
१२ ख
सञ्जय़ उवाच:
स सर्वतः परिवृतस्त्रिगर्तैः सुमहात्मभिः |
१३ क
सञ्जय़ उवाच:
भ्रातृभिस्तव पुत्रैश्च तथान्यैश्च महारथैः ||
१३ ख
सञ्जय़ उवाच:
भारद्वाजस्तु समरे मत्स्यं विव्याध पत्रिणा |
१४ क
सञ्जय़ उवाच:
ध्वजं चास्य शरेणाजौ धनुश्चैकेन चिच्छिदे ||
१४ ख
सञ्जय़ उवाच:
तदपास्य धनुश्छिन्नं विराटो वाहिनीपतिः |
१५ क
सञ्जय़ उवाच:
अन्यदादत्त वेगेन धनुर्भारसहं दृढम् |
१५ ख
सञ्जय़ उवाच:
शरांश्चाशीविषाकाराञ्ज्वलितान्पन्नगानिव ||
१५ ग
सञ्जय़ उवाच:
द्रोणं त्रिभिः प्रविव्याध चतुर्भिश्चास्य वाजिनः |
१६ क
सञ्जय़ उवाच:
ध्वजमेकेन विव्याध सारथिं चास्य पञ्चभिः |
१६ ख
सञ्जय़ उवाच:
धनुरेकेषुणाविध्यत्तत्राक्रुध्यद्द्विजर्षभः ||
१६ ग
सञ्जय़ उवाच:
तस्य द्रोणोऽवधीदश्वाञ्शरैः संनतपर्वभिः |
१७ क
सञ्जय़ उवाच:
अष्टाभिर्भरतश्रेष्ठ सूतमेकेन पत्रिणा ||
१७ ख
सञ्जय़ उवाच:
स हताश्वादवप्लुत्य स्यन्दनाद्धतसारथिः |
१८ क
सञ्जय़ उवाच:
आरुरोह रथं तूर्णं शङ्खस्य रथिनां वरः ||
१८ ख
सञ्जय़ उवाच:
ततस्तु तौ पितापुत्रौ भारद्वाजं रथे स्थितौ |
१९ क
सञ्जय़ उवाच:
महता शरवर्षेण वारय़ामासतुर्वलात् ||
१९ ख
सञ्जय़ उवाच:
भारद्वाजस्ततः क्रुद्धः शरमाशीविषोपमम् |
२० क
सञ्जय़ उवाच:
चिक्षेप समरे तूर्णं शङ्खं प्रति जनेश्वर ||
२० ख
सञ्जय़ उवाच:
स तस्य हृदय़ं भित्त्वा पीत्वा शोणितमाहवे |
२१ क
सञ्जय़ उवाच:
जगाम धरणिं वाणो लोहितार्द्रीकृतच्छविः ||
२१ ख
सञ्जय़ उवाच:
स पपात रथात्तूर्णं भारद्वाजशराहतः |
२२ क
सञ्जय़ उवाच:
धनुस्त्यक्त्वा शरांश्चैव पितुरेव समीपतः ||
२२ ख
सञ्जय़ उवाच:
हतं स्वमात्मजं दृष्ट्वा विराटः प्राद्रवद्भय़ात् |
२३ क
सञ्जय़ उवाच:
उत्सृज्य समरे द्रोणं व्यात्ताननमिवान्तकम् ||
२३ ख
सञ्जय़ उवाच:
भारद्वाजस्ततस्तूर्णं पाण्डवानां महाचमूम् |
२४ क
सञ्जय़ उवाच:
दारय़ामास समरे शतशोऽथ सहस्रशः ||
२४ ख
सञ्जय़ उवाच:
शिखण्ड्यपि महाराज द्रौणिमासाद्य संय़ुगे |
२५ क
सञ्जय़ उवाच:
आजघान भ्रुवोर्मध्ये नाराचैस्त्रिभिराशुगैः ||
२५ ख
सञ्जय़ उवाच:
स वभौ नरशार्दूलो ललाटे संस्थितैस्त्रिभिः |
२६ क
सञ्जय़ उवाच:
शिखरैः काञ्चनमय़ैर्मेरुस्त्रिभिरिवोच्छ्रितैः ||
२६ ख
सञ्जय़ उवाच:
अश्वत्थामा ततः क्रुद्धो निमेषार्धाच्छिखण्डिनः |
२७ क
सञ्जय़ उवाच:
सूतं ध्वजमथो राजंस्तुरगानाय़ुधं तथा |
२७ ख
सञ्जय़ उवाच:
शरैर्वहुभिरुद्दिश्य पातय़ामास संय़ुगे ||
२७ ग
सञ्जय़ उवाच:
स हताश्वादवप्लुत्य रथाद्वै रथिनां वरः |
२८ क
सञ्जय़ उवाच:
खड्गमादाय़ निशितं विमलं च शरावरम् |
२८ ख
सञ्जय़ उवाच:
श्येनवद्व्यचरत्क्रुद्धः शिखण्डी शत्रुतापनः ||
२८ ग
सञ्जय़ उवाच:
सखड्गस्य महाराज चरतस्तस्य संय़ुगे |
२९ क
सञ्जय़ उवाच:
नान्तरं ददृशे द्रौणिस्तदद्भुतमिवाभवत् ||
२९ ख
सञ्जय़ उवाच:
ततः शरसहस्राणि वहूनि भरतर्षभ |
३० क
सञ्जय़ उवाच:
प्रेषय़ामास समरे द्रौणिः परमकोपनः ||
३० ख
सञ्जय़ उवाच:
तामापतन्तीं समरे शरवृष्टिं सुदारुणाम् |
३१ क
सञ्जय़ उवाच:
असिना तीक्ष्णधारेण चिच्छेद वलिनां वरः ||
३१ ख
सञ्जय़ उवाच:
ततोऽस्य विमलं द्रौणिः शतचन्द्रं मनोरमम् |
३२ क
सञ्जय़ उवाच:
चर्माच्छिनदसिं चास्य खण्डय़ामास संय़ुगे |
३२ ख
सञ्जय़ उवाच:
शितैः सुवहुशो राजंस्तं च विव्याध पत्रिभिः ||
३२ ग
सञ्जय़ उवाच:
शिखण्डी तु ततः खड्गं खण्डितं तेन साय़कैः |
३३ क
सञ्जय़ उवाच:
आविध्य व्यसृजत्तूर्णं ज्वलन्तमिव पन्नगम् ||
३३ ख
सञ्जय़ उवाच:
तमापतन्तं सहसा कालानलसमप्रभम् |
३४ क
सञ्जय़ उवाच:
चिच्छेद समरे द्रौणिर्दर्शय़न्पाणिलाघवम् |
३४ ख
सञ्जय़ उवाच:
शिखण्डिनं च विव्याध शरैर्वहुभिराय़सैः ||
३४ ग
सञ्जय़ उवाच:
शिखण्डी तु भृशं राजंस्ताड्यमानः शितैः शरैः |
३५ क
सञ्जय़ उवाच:
आरुरोह रथं तूर्णं माधवस्य महात्मनः ||
३५ ख
सञ्जय़ उवाच:
सात्यकिस्तु ततः क्रुद्धो राक्षसं क्रूरमाहवे |
३६ क
सञ्जय़ उवाच:
अलम्वुसं शरैर्घोरैर्विव्याध वलिनं वली ||
३६ ख
सञ्जय़ उवाच:
राक्षसेन्द्रस्ततस्तस्य धनुश्चिच्छेद भारत |
३७ क
सञ्जय़ उवाच:
अर्धचन्द्रेण समरे तं च विव्याध साय़कैः |
३७ ख
सञ्जय़ उवाच:
माय़ां च राक्षसीं कृत्वा शरवर्षैरवाकिरत् ||
३७ ग
सञ्जय़ उवाच:
तत्राद्भुतमपश्याम शैनेय़स्य पराक्रमम् |
३८ क
सञ्जय़ उवाच:
नासम्भ्रमद्यत्समरे वध्यमानः शितैः शरैः ||
३८ ख
सञ्जय़ उवाच:
ऐन्द्रमस्त्रं च वार्ष्णेय़ो योजय़ामास भारत |
३९ क
सञ्जय़ उवाच:
विजय़ाद्यदनुप्राप्तं माधवेन यशस्विना ||
३९ ख
सञ्जय़ उवाच:
तदस्त्रं भस्मसात्कृत्वा माय़ां तां राक्षसीं तदा |
४० क
सञ्जय़ उवाच:
अलम्वुसं शरैर्घोरैरभ्याकिरत सर्वशः |
४० ख
सञ्जय़ उवाच:
पर्वतं वारिधाराभिः प्रावृषीव वलाहकः ||
४० ग
सञ्जय़ उवाच:
तत्तथा पीडितं तेन माधवेन महात्मना |
४१ क
सञ्जय़ उवाच:
प्रदुद्राव भय़ाद्रक्षो हित्वा सात्यकिमाहवे ||
४१ ख
सञ्जय़ उवाच:
तमजेय़ं राक्षसेन्द्रं सङ्ख्ये मघवता अपि |
४२ क
सञ्जय़ उवाच:
शैनेय़ः प्राणदज्जित्वा योधानां तव पश्यताम् ||
४२ ख
सञ्जय़ उवाच:
न्यहनत्तावकांश्चापि सात्यकिः सत्यविक्रमः |
४३ क
सञ्जय़ उवाच:
निशितैर्वहुभिर्वाणैस्तेऽद्रवन्त भय़ार्दिताः ||
४३ ख
सञ्जय़ उवाच:
एतस्मिन्नेव काले तु द्रुपदस्यात्मजो वली |
४४ क
सञ्जय़ उवाच:
धृष्टद्युम्नो महाराज तव पुत्रं जनेश्वरम् |
४४ ख
सञ्जय़ उवाच:
छादय़ामास समरे शरैः संनतपर्वभिः ||
४४ ग
सञ्जय़ उवाच:
सञ्छाद्यमानो विशिखैर्धृष्टद्युम्नेन भारत |
४५ क
सञ्जय़ उवाच:
विव्यथे न च राजेन्द्र तव पुत्रो जनेश्वरः ||
४५ ख
सञ्जय़ उवाच:
धृष्टद्युम्नं च समरे तूर्णं विव्याध साय़कैः |
४६ क