सञ्जय़ उवाच:
एवमुक्त्वार्जुनं राजा त्रिभिर्मर्मातिगैः शरैः |
१ क
सञ्जय़ उवाच:
प्रत्यविध्यन्महावेगैश्चतुर्भिश्चतुरो हय़ान् ||
१ ख
सञ्जय़ उवाच:
वासुदेवं च दशभिः प्रत्यविध्यत्स्तनान्तरे |
२ क
सञ्जय़ उवाच:
प्रतोदं चास्य भल्लेन छित्त्वा भूमावपातय़त् ||
२ ख
सञ्जय़ उवाच:
तं चतुर्दशभिः पार्थश्चित्रपुङ्खैः शिलाशितैः |
३ क
सञ्जय़ उवाच:
अविध्यत्तूर्णमव्यग्रस्तेऽस्याभ्रश्यन्त वर्मणः ||
३ ख
सञ्जय़ उवाच:
तेषां वैफल्यमालोक्य पुनर्नव च पञ्च च |
४ क
सञ्जय़ उवाच:
प्राहिणोन्निशितान्वाणांस्ते चाभ्रश्यन्त वर्मणः ||
४ ख
सञ्जय़ उवाच:
अष्टाविंशत्तु तान्वाणानस्तान्विप्रेक्ष्य निष्फलान् |
५ क
सञ्जय़ उवाच:
अव्रवीत्परवीरघ्नः कृष्णोऽर्जुनमिदं वचः ||
५ ख
सञ्जय़ उवाच:
अदृष्टपूर्वं पश्यामि शिलानामिव सर्पणम् |
६ क
सञ्जय़ उवाच:
त्वय़ा सम्प्रेषिताः पार्थ नार्थं कुर्वन्ति पत्रिणः ||
६ ख
सञ्जय़ उवाच:
कच्चिद्गाण्डीवतः प्राणास्तथैव भरतर्षभ |
७ क
सञ्जय़ उवाच:
मुष्टिश्च ते यथापूर्वं भुजय़ोश्च वलं तव ||
७ ख
सञ्जय़ उवाच:
न चेद्विधेरय़ं कालः प्राप्तः स्यादद्य पश्चिमः |
८ क
सञ्जय़ उवाच:
तव चैवास्य शत्रोश्च तन्ममाचक्ष्व पृच्छतः ||
८ ख
सञ्जय़ उवाच:
विस्मय़ो मे महान्पार्थ तव दृष्ट्वा शरानिमान् |
९ क
सञ्जय़ उवाच:
व्यर्थान्निपततः सङ्ख्ये दुर्योधनरथं प्रति ||
९ ख
सञ्जय़ उवाच:
वज्राशनिसमा घोराः परकाय़ावभेदिनः |
१० क
सञ्जय़ उवाच:
शराः कुर्वन्ति ते नार्थं पार्थ काद्य विडम्वना ||
१० ख
अर्जुन उवाच:
द्रोणेनैषा मतिः कृष्ण धार्तराष्ट्रे निवेशिता |
११ क
अर्जुन उवाच:
अन्ते विहितमस्त्राणामेतत्कवचधारणम् ||
११ ख
अर्जुन उवाच:
अस्मिन्नन्तर्हितं कृष्ण त्रैलोक्यमपि वर्मणि |
१२ क
अर्जुन उवाच:
एको द्रोणो हि वेदैतदहं तस्माच्च सत्तमात् ||
१२ ख
अर्जुन उवाच:
न शक्यमेतत्कवचं वाणैर्भेत्तुं कथञ्चन |
१३ क
अर्जुन उवाच:
अपि वज्रेण गोविन्द स्वय़ं मघवता युधि ||
१३ ख
अर्जुन उवाच:
जानंस्त्वमपि वै कृष्ण मां विमोहय़से कथम् |
१४ क
अर्जुन उवाच:
यद्वृत्तं त्रिषु लोकेषु यच्च केशव वर्तते ||
१४ ख
अर्जुन उवाच:
तथा भविष्यद्यच्चैव तत्सर्वं विदितं तव |
१५ क
अर्जुन उवाच:
न त्वेवं वेद वै कश्चिद्यथा त्वं मधुसूदन ||
१५ ख
अर्जुन उवाच:
एष दुर्योधनः कृष्ण द्रोणेन विहितामिमाम् |
१६ क
अर्जुन उवाच:
तिष्ठत्यभीतवत्सङ्ख्ये विभ्रत्कवचधारणाम् ||
१६ ख
अर्जुन उवाच:
यत्त्वत्र विहितं कार्यं नैष तद्वेत्ति माधव |
१७ क
अर्जुन उवाच:
स्त्रीवदेष विभर्त्येतां युक्तां कवचधारणाम् ||
१७ ख
अर्जुन उवाच:
पश्य वाह्वोश्च मे वीर्यं धनुषश्च जनार्दन |
१८ क
अर्जुन उवाच:
पराजय़िष्ये कौरव्यं कवचेनापि रक्षितम् ||
१८ ख
अर्जुन उवाच:
इदमङ्गिरसे प्रादाद्देवेशो वर्म भास्वरम् |
१९ क
अर्जुन उवाच:
पुनर्ददौ सुरपतिर्मह्यं वर्म ससङ्ग्रहम् ||
१९ ख
अर्जुन उवाच:
दैवं यद्यस्य वर्मैतद्व्रह्मणा वा स्वय़ं कृतम् |
२० क
अर्जुन उवाच:
नैतद्गोप्स्यति दुर्वुद्धिमद्य वाणहतं मय़ा ||
२० ख
सञ्जय़ उवाच:
एवमुक्त्वार्जुनो वाणानभिमन्त्र्य व्यकर्षय़त् |
२१ क
सञ्जय़ उवाच:
विकृष्यमाणांस्तेनैवं धनुर्मध्यगताञ्शरान् |
२१ ख
सञ्जय़ उवाच:
तानस्यास्त्रेण चिच्छेद द्रौणिः सर्वास्त्रघातिना ||
२१ ग
सञ्जय़ उवाच:
तान्निकृत्तानिषून्दृष्ट्वा दूरतो व्रह्मवादिना |
२२ क
सञ्जय़ उवाच:
न्यवेदय़त्केशवाय़ विस्मितः श्वेतवाहनः ||
२२ ख
सञ्जय़ उवाच:
नैतदस्त्रं मय़ा शक्यं द्विः प्रय़ोक्तुं जनार्दन |
२३ क
सञ्जय़ उवाच:
अस्त्रं मामेव हन्याद्धि पश्य त्वद्य वलं मम ||
२३ ख
सञ्जय़ उवाच:
ततो दुर्योधनः कृष्णौ नवभिर्नतपर्वभिः |
२४ क
सञ्जय़ उवाच:
अविध्यत रणे राजञ्शरैराशीविषोपमैः |
२४ ख
सञ्जय़ उवाच:
भूय़ एवाभ्यवर्षच्च समरे कृष्णपाण्डवौ ||
२४ ग
सञ्जय़ उवाच:
शरवर्षेण महता ततोऽहृष्यन्त तावकाः |
२५ क
सञ्जय़ उवाच:
चक्रुर्वादित्रनिनदान्सिंहनादरवांस्तथा ||
२५ ख
सञ्जय़ उवाच:
ततः क्रुद्धो रणे पार्थः सृक्कणी परिसंलिहन् |
२६ क
सञ्जय़ उवाच:
नापश्यत ततोऽस्याङ्गं यन्न स्याद्वर्मरक्षितम् ||
२६ ख
सञ्जय़ उवाच:
ततोऽस्य निशितैर्वाणैः सुमुक्तैरन्तकोपमैः |
२७ क
सञ्जय़ उवाच:
हय़ांश्चकार निर्देहानुभौ च पार्ष्णिसारथी ||
२७ ख
सञ्जय़ उवाच:
धनुरस्याच्छिनच्चित्रं हस्तावापं च वीर्यवान् |
२८ क
सञ्जय़ उवाच:
रथं च शकलीकर्तुं सव्यसाची प्रचक्रमे ||
२८ ख
सञ्जय़ उवाच:
दुर्योधनं च वाणाभ्यां तीक्ष्णाभ्यां विरथीकृतम् |
२९ क
सञ्जय़ उवाच:
अविध्यद्धस्ततलय़ोरुभय़ोरर्जुनस्तदा ||
२९ ख
सञ्जय़ उवाच:
तं कृच्छ्रामापदं प्राप्तं दृष्ट्वा परमधन्विनः |
३० क
सञ्जय़ उवाच:
समापेतुः परीप्सन्तो धनञ्जय़शरार्दितम् ||
३० ख
सञ्जय़ उवाच:
ते रथैर्वहुसाहस्रैः कल्पितैः कुञ्जरैर्हय़ैः |
३१ क
सञ्जय़ उवाच:
पदात्योघैश्च संरव्धैः परिवव्रुर्धनञ्जय़म् ||
३१ ख
सञ्जय़ उवाच:
अथ नार्जुनगोविन्दौ रथो वापि व्यदृश्यत |
३२ क
सञ्जय़ उवाच:
अस्त्रवर्षेण महता जनौघैश्चापि संवृतौ ||
३२ ख
सञ्जय़ उवाच:
ततोऽर्जुनोऽस्त्रवीर्येण निजघ्ने तां वरूथिनीम् |
३३ क
सञ्जय़ उवाच:
तत्र व्यङ्गीकृताः पेतुः शतशोऽथ रथद्विपाः ||
३३ ख
सञ्जय़ उवाच:
ते हता हन्यमानाश्च न्यगृह्णंस्तं रथोत्तमम् |
३४ क
सञ्जय़ उवाच:
स रथस्तम्भितस्तस्थौ क्रोशमात्रं समन्ततः ||
३४ ख
सञ्जय़ उवाच:
ततोऽर्जुनं वृष्णिवीरस्त्वरितो वाक्यमव्रवीत् |
३५ क
सञ्जय़ उवाच:
धनुर्विस्फारय़ात्यर्थमहं ध्मास्यामि चाम्वुजम् ||
३५ ख
सञ्जय़ उवाच:
ततो विस्फार्य वलवद्गाण्डीवं जघ्निवान्रिपून् |
३६ क
सञ्जय़ उवाच:
महता शरवर्षेण तलशव्देन चार्जुनः ||
३६ ख
सञ्जय़ उवाच:
पाञ्चजन्यं च वलवद्दध्मौ तारेण केशवः |
३७ क
सञ्जय़ उवाच:
रजसा ध्वस्तपक्ष्मान्तः प्रस्विन्नवदनो भृशम् ||
३७ ख
सञ्जय़ उवाच:
तस्य शङ्खस्य नादेन धनुषो निस्वनेन च |
३८ क
सञ्जय़ उवाच:
निःसत्त्वाश्च ससत्त्वाश्च क्षितौ पेतुस्तदा जनाः ||
३८ ख
सञ्जय़ उवाच:
तैर्विमुक्तो रथो रेजे वाय़्वीरित इवाम्वुदः |
३९ क
सञ्जय़ उवाच:
जय़द्रथस्य गोप्तारस्ततः क्षुव्धाः सहानुगाः ||
३९ ख
सञ्जय़ उवाच:
ते दृष्ट्वा सहसा पार्थं गोप्तारः सैन्धवस्य तु |
४० क
सञ्जय़ उवाच:
चक्रुर्नादान्वहुविधान्कम्पय़न्तो वसुन्धराम् ||
४० ख
सञ्जय़ उवाच:
वाणशव्दरवांश्चोग्रान्विमिश्राञ्शङ्खनिस्वनैः |
४१ क
सञ्जय़ उवाच:
प्रादुश्चक्रुर्महात्मानः सिंहनादरवानपि ||
४१ ख
सञ्जय़ उवाच:
तं श्रुत्वा निनदं घोरं तावकानां समुत्थितम् |
४२ क
सञ्जय़ उवाच:
प्रदध्मतुस्तदा शङ्खौ वासुदेवधनञ्जय़ौ ||
४२ ख
सञ्जय़ उवाच:
तेन शव्देन महता पूरितेय़ं वसुन्धरा |
४३ क
सञ्जय़ उवाच:
सशैला सार्णवद्वीपा सपाताला विशां पते ||
४३ ख
सञ्जय़ उवाच:
स शव्दो भरतश्रेष्ठ व्याप्य सर्वा दिशो दश |
४४ क
सञ्जय़ उवाच:
प्रतिसस्वान तत्रैव कुरुपाण्डवय़ोर्वले ||
४४ ख
सञ्जय़ उवाच:
तावका रथिनस्तत्र दृष्ट्वा कृष्णधनञ्जय़ौ |
४५ क
सञ्जय़ उवाच:
संरम्भं परमं प्राप्तास्त्वरमाणा महारथाः ||
४५ ख
सञ्जय़ उवाच:
अथ कृष्णौ महाभागौ तावका दृश्य दंशितौ |
४६ क
सञ्जय़ उवाच:
अभ्यद्रवन्त सङ्क्रुद्धास्तदद्भुतमिवाभवत् ||
४६ ख