chevron_left आदि पर्व अध्याय ७९
वैशम्पाय़न उवाच:
जरां प्राप्य यय़ातिस्तु स्वपुरं प्राप्य चैव ह |
१ क
वैशम्पाय़न उवाच:
पुत्रं ज्येष्ठं वरिष्ठं च यदुमित्यव्रवीद्वचः ||
१ ख
वैशम्पाय़न उवाच:
जरा वली च मां तात पलितानि च पर्यगुः |
२ क
वैशम्पाय़न उवाच:
काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ||
२ ख
वैशम्पाय़न उवाच:
त्वं यदो प्रतिपद्यस्व पाप्मानं जरय़ा सह |
३ क
वैशम्पाय़न उवाच:
यौवनेन त्वदीय़ेन चरेय़ं विषय़ानहम् ||
३ ख
वैशम्पाय़न उवाच:
पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम् |
४ क
वैशम्पाय़न उवाच:
दत्त्वा स्वं प्रतिपत्स्यामि पाप्मानं जरय़ा सह ||
४ ख
यदुरु उवाच:
सितश्मश्रुशिरा दीनो जरय़ा शिथिलीकृतः |
५ क
यदुरु उवाच:
वलीसन्ततगात्रश्च दुर्दर्शो दुर्वलः कृशः ||
५ ख
यदुरु उवाच:
अशक्तः कार्यकरणे परिभूतः स यौवनैः |
६ क
यदुरु उवाच:
सहोपजीविभिश्चैव तां जरां नाभिकामय़े ||
६ ख
यय़ातिरु उवाच:
यत्त्वं मे हृदय़ाज्जातो वय़ः स्वं न प्रय़च्छसि |
७ क
यय़ातिरु उवाच:
तस्मादराज्यभाक्तात प्रजा ते वै भविष्यति ||
७ ख
यय़ातिरु उवाच:
तुर्वसो प्रतिपद्यस्व पाप्मानं जरय़ा सह |
८ क
यय़ातिरु उवाच:
यौवनेन चरेय़ं वै विषय़ांस्तव पुत्रक ||
८ ख
यय़ातिरु उवाच:
पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम् |
९ क
यय़ातिरु उवाच:
स्वं चैव प्रतिपत्स्यामि पाप्मानं जरय़ा सह ||
९ ख
तुर्वसुरु उवाच:
न कामय़े जरां तात कामभोगप्रणाशिनीम् |
१० क
तुर्वसुरु उवाच:
वलरूपान्तकरणीं वुद्धिप्राणविनाशिनीम् ||
१० ख
यय़ातिरु उवाच:
यत्त्वं मे हृदय़ाज्जातो वय़ः स्वं न प्रय़च्छसि |
११ क
यय़ातिरु उवाच:
तस्मात्प्रजा समुच्छेदं तुर्वसो तव यास्यति ||
११ ख
यय़ातिरु उवाच:
सङ्कीर्णाचारधर्मेषु प्रतिलोमचरेषु च |
१२ क
यय़ातिरु उवाच:
पिशिताशिषु चान्त्येषु मूढ राजा भविष्यसि ||
१२ ख
यय़ातिरु उवाच:
गुरुदारप्रसक्तेषु तिर्यग्योनिगतेषु च |
१३ क
यय़ातिरु उवाच:
पशुधर्मिषु पापेषु म्लेच्छेषु प्रभविष्यसि ||
१३ ख
वैशम्पाय़न उवाच:
एवं स तुर्वसुं शप्त्वा यय़ातिः सुतमात्मनः |
१४ क
वैशम्पाय़न उवाच:
शर्मिष्ठाय़ाः सुतं द्रुह्युमिदं वचनमव्रवीत् ||
१४ ख
वैशम्पाय़न उवाच:
द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् |
१५ क
वैशम्पाय़न उवाच:
जरां वर्षसहस्रं मे यौवनं स्वं ददस्व च ||
१५ ख
वैशम्पाय़न उवाच:
पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् |
१६ क
वैशम्पाय़न उवाच:
स्वं चादास्यामि भूय़ोऽहं पाप्मानं जरय़ा सह ||
१६ ख
द्रुह्युरु उवाच:
न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रिय़म् |
१७ क
द्रुह्युरु उवाच:
वाग्भङ्गश्चास्य भवति तज्जरां नाभिकामय़े ||
१७ ख
यय़ातिरु उवाच:
यत्त्वं मे हृदय़ाज्जातो वय़ः स्वं न प्रय़च्छसि |
१८ क
यय़ातिरु उवाच:
तस्माद्द्रुह्यो प्रिय़ः कामो न ते सम्पत्स्यते क्वचित् ||
१८ ख
यय़ातिरु उवाच:
उडुपप्लवसन्तारो यत्र नित्यं भविष्यति |
१९ क
यय़ातिरु उवाच:
अराजा भोजशव्दं त्वं तत्रावाप्स्यसि सान्वय़ः ||
१९ ख
यय़ातिरु उवाच:
अनो त्वं प्रतिपद्यस्व पाप्मानं जरय़ा सह |
२० क
यय़ातिरु उवाच:
एकं वर्षसहस्रं तु चरेय़ं यौवनेन ते ||
२० ख
अनुरु उवाच:
जीर्णः शिशुवदादत्तेऽकालेऽन्नमशुचिर्यथा |
२१ क
अनुरु उवाच:
न जुहोति च कालेऽग्निं तां जरां नाभिकामय़े ||
२१ ख
यय़ातिरु उवाच:
यत्त्वं मे हृदय़ाज्जातो वय़ः स्वं न प्रय़च्छसि |
२२ क
यय़ातिरु उवाच:
जरादोषस्त्वय़ोक्तोऽय़ं तस्मात्त्वं प्रतिपत्स्यसे ||
२२ ख
यय़ातिरु उवाच:
प्रजाश्च यौवनप्राप्ता विनशिष्यन्त्यनो तव |
२३ क
यय़ातिरु उवाच:
अग्निप्रस्कन्दनपरस्त्वं चाप्येवं भविष्यसि ||
२३ ख
यय़ातिरु उवाच:
पूरो त्वं मे प्रिय़ः पुत्रस्त्वं वरीय़ान्भविष्यसि |
२४ क
यय़ातिरु उवाच:
जरा वली च मे तात पलितानि च पर्यगुः |
२४ ख
यय़ातिरु उवाच:
काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ||
२४ ग
यय़ातिरु उवाच:
पूरो त्वं प्रतिपद्यस्व पाप्मानं जरय़ा सह |
२५ क
यय़ातिरु उवाच:
कञ्चित्कालं चरेय़ं वै विषय़ान्वय़सा तव ||
२५ ख
यय़ातिरु उवाच:
पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् |
२६ क
यय़ातिरु उवाच:
स्वं चैव प्रतिपत्स्यामि पाप्मानं जरय़ा सह ||
२६ ख
वैशम्पाय़न उवाच:
एवमुक्तः प्रत्युवाच पूरुः पितरमञ्जसा |
२७ क
वैशम्पाय़न उवाच:
यथात्थ मां महाराज तत्करिष्यामि ते वचः ||
२७ ख
वैशम्पाय़न उवाच:
प्रतिपत्स्यामि ते राजन्पाप्मानं जरय़ा सह |
२८ क
वैशम्पाय़न उवाच:
गृहाण यौवनं मत्तश्चर कामान्यथेप्सितान् ||
२८ ख
वैशम्पाय़न उवाच:
जरय़ाहं प्रतिच्छन्नो वय़ोरूपधरस्तव |
२९ क
वैशम्पाय़न उवाच:
यौवनं भवते दत्त्वा चरिष्यामि यथात्थ माम् ||
२९ ख
यय़ातिरु उवाच:
पूरो प्रीतोऽस्मि ते वत्स प्रीतश्चेदं ददामि ते |
३० क
यय़ातिरु उवाच:
सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति ||
३० ख