chevron_left अनुशासन पर्व अध्याय ७९
वसिष्ठ उवाच:
घृतक्षीरप्रदा गावो घृतय़ोन्यो घृतोद्भवाः |
१ क
वसिष्ठ उवाच:
घृतनद्यो घृतावर्तास्ता मे सन्तु सदा गृहे ||
१ ख
वसिष्ठ उवाच:
घृतं मे हृदय़े नित्यं घृतं नाभ्यां प्रतिष्ठितम् |
२ क
वसिष्ठ उवाच:
घृतं सर्वेषु गात्रेषु घृतं मे मनसि स्थितम् ||
२ ख
वसिष्ठ उवाच:
गावो ममाग्रतो नित्यं गावः पृष्ठत एव च |
३ क
वसिष्ठ उवाच:
गावो मे सर्वतश्चैव गवां मध्ये वसाम्यहम् ||
३ ख
वसिष्ठ उवाच:
इत्याचम्य जपेत्साय़ं प्रातश्च पुरुषः सदा |
४ क
वसिष्ठ उवाच:
यदह्ना कुरुते पापं तस्मात्स परिमुच्यते ||
४ ख
वसिष्ठ उवाच:
प्रासादा यत्र सौवर्णा वसोर्धारा च यत्र सा |
५ क
वसिष्ठ उवाच:
गन्धर्वाप्सरसो यत्र तत्र यान्ति सहस्रदाः ||
५ ख
वसिष्ठ उवाच:
नवनीतपङ्काः क्षीरोदा दधिशैवलसङ्कुलाः |
६ क
वसिष्ठ उवाच:
वहन्ति यत्र नद्यो वै तत्र यान्ति सहस्रदाः ||
६ ख
वसिष्ठ उवाच:
गवां शतसहस्रं तु यः प्रय़च्छेद्यथाविधि |
७ क
वसिष्ठ उवाच:
परामृद्धिमवाप्याथ स गोलोके महीय़ते ||
७ ख
वसिष्ठ उवाच:
दश चोभय़तः प्रेत्य मातापित्रोः पितामहान् |
८ क
वसिष्ठ उवाच:
दधाति सुकृताँल्लोकान्पुनाति च कुलं नरः ||
८ ख
वसिष्ठ उवाच:
धेन्वाः प्रमाणेन समप्रमाणां; धेनुं तिलानामपि च प्रदाय़ |
९ क
वसिष्ठ उवाच:
पानीय़दाता च यमस्य लोके; न यातनां काञ्चिदुपैति तत्र ||
९ ख
वसिष्ठ उवाच:
पवित्रमग्र्यं जगतः प्रतिष्ठा; दिवौकसां मातरोऽथाप्रमेय़ाः |
१० क
वसिष्ठ उवाच:
अन्वालभेद्दक्षिणतो व्रजेच्च; दद्याच्च पात्रे प्रसमीक्ष्य कालम् ||
१० ख
वसिष्ठ उवाच:
धेनुं सवत्सां कपिलां भूरिशृङ्गां; कांस्योपदोहां वसनोत्तरीय़ाम् |
११ क
वसिष्ठ उवाच:
प्रदाय़ तां गाहति दुर्विगाह्यां; याम्यां सभां वीतभय़ो मनुष्यः ||
११ ख
वसिष्ठ उवाच:
सुरूपा वहुरूपाश्च विश्वरूपाश्च मातरः |
१२ क
वसिष्ठ उवाच:
गावो मामुपतिष्ठन्तामिति नित्यं प्रकीर्तय़ेत् ||
१२ ख
वसिष्ठ उवाच:
नातः पुण्यतरं दानं नातः पुण्यतरं फलम् |
१३ क
वसिष्ठ उवाच:
नातो विशिष्टं लोकेषु भूतं भवितुमर्हति ||
१३ ख
वसिष्ठ उवाच:
त्वचा लोम्नाथ शृङ्गैश्च वालैः क्षीरेण मेदसा |
१४ क
वसिष्ठ उवाच:
यज्ञं वहन्ति सम्भूय़ किमस्त्यभ्यधिकं ततः ||
१४ ख
वसिष्ठ उवाच:
यय़ा सर्वमिदं व्याप्तं जगत्स्थावरजङ्गमम् |
१५ क
वसिष्ठ उवाच:
तां धेनुं शिरसा वन्दे भूतभव्यस्य मातरम् ||
१५ ख
वसिष्ठ उवाच:
गुणवचनसमुच्चय़ैकदेशो; नृवर मय़ैष गवां प्रकीर्तितस्ते |
१६ क
वसिष्ठ उवाच:
न हि परमिह दानमस्ति गोभ्यो; भवन्ति न चापि पराय़णं तथान्यत् ||
१६ ख
भीष्म उवाच:
परमिदमिति भूमिपो विचिन्त्य; प्रवरमृषेर्वचनं ततो महात्मा |
१७ क
भीष्म उवाच:
व्यसृजत निय़तात्मवान्द्विजेभ्यः; सुवहु च गोधनमाप्तवांश्च लोकान् ||
१७ ख