chevron_left उद्योग पर्व अध्याय ७९
सहदेव उवाच:
यदेतत्कथितं राज्ञा धर्म एष सनातनः |
१ क
सहदेव उवाच:
यथा तु युद्धमेव स्यात्तथा कार्यमरिन्दम ||
१ ख
सहदेव उवाच:
यदि प्रशममिच्छेय़ुः कुरवः पाण्डवैः सह |
२ क
सहदेव उवाच:
तथापि युद्धं दाशार्ह योजय़ेथाः सहैव तैः ||
२ ख
सहदेव उवाच:
कथं नु दृष्ट्वा पाञ्चालीं तथा क्लिष्टां सभागताम् |
३ क
सहदेव उवाच:
अवधेन प्रशाम्येत मम मन्युः सुय़ोधने ||
३ ख
सहदेव उवाच:
यदि भीमार्जुनौ कृष्ण धर्मराजश्च धार्मिकः |
४ क
सहदेव उवाच:
धर्ममुत्सृज्य तेनाहं योद्धुमिच्छामि संय़ुगे ||
४ ख
सात्यकिरु उवाच:
सत्यमाह महावाहो सहदेवो महामतिः |
५ क
सात्यकिरु उवाच:
दुर्योधनवधे शान्तिस्तस्य कोपस्य मे भवेत् ||
५ ख
सात्यकिरु उवाच:
जानासि हि यथा दृष्ट्वा चीराजिनधरान्वने |
६ क
सात्यकिरु उवाच:
तवापि मन्युरुद्भूतो दुःखितान्प्रेक्ष्य पाण्डवान् ||
६ ख
सात्यकिरु उवाच:
तस्मान्माद्रीसुतः शूरो यदाह पुरुषर्षभः |
७ क
सात्यकिरु उवाच:
वचनं सर्वय़ोधानां तन्मतं पुरुषोत्तम ||
७ ख
वैशम्पाय़न उवाच:
एवं वदति वाक्यं तु युय़ुधाने महामतौ |
८ क
वैशम्पाय़न उवाच:
सुभीमः सिंहनादोऽभूद्योधानां तत्र सर्वशः ||
८ ख
वैशम्पाय़न उवाच:
सर्वे हि सर्वतो वीरास्तद्वचः प्रत्यपूजय़न् |
९ क
वैशम्पाय़न उवाच:
साधु साध्विति शैनेय़ं हर्षय़न्तो युय़ुत्सवः ||
९ ख