chevron_left भीष्म पर्व अध्याय ७९
धृतराष्ट्र उवाच:
वहूनीह विचित्राणि द्वैरथानि स्म सञ्जय़ |
१ क
धृतराष्ट्र उवाच:
पाण्डूनां मामकैः सार्धमश्रौषं तव जल्पतः ||
१ ख
धृतराष्ट्र उवाच:
न चैव मामकं कञ्चिद्धृष्टं शंससि सञ्जय़ |
२ क
धृतराष्ट्र उवाच:
नित्यं पाण्डुसुतान्हृष्टानभग्नांश्चैव शंससि ||
२ ख
धृतराष्ट्र उवाच:
जीय़मानान्विमनसो मामकान्विगतौजसः |
३ क
धृतराष्ट्र उवाच:
वदसे संय़ुगे सूत दिष्टमेतदसंशय़म् ||
३ ख
सञ्जय़ उवाच:
यथाशक्ति यथोत्साहं युद्धे चेष्टन्ति तावकाः |
४ क
सञ्जय़ उवाच:
दर्शय़ानाः परं शक्त्या पौरुषं पुरुषर्षभ ||
४ ख
सञ्जय़ उवाच:
गङ्गाय़ाः सुरनद्या वै स्वादुभूतं यथोदकम् |
५ क
सञ्जय़ उवाच:
महोदधिगुणाभ्यासाल्लवणत्वं निगच्छति ||
५ ख
सञ्जय़ उवाच:
तथा तत्पौरुषं राजंस्तावकानां महात्मनाम् |
६ क
सञ्जय़ उवाच:
प्राप्य पाण्डुसुतान्वीरान्व्यर्थं भवति संय़ुगे ||
६ ख
सञ्जय़ उवाच:
घटमानान्यथाशक्ति कुर्वाणान्कर्म दुष्करम् |
७ क
सञ्जय़ उवाच:
न दोषेण कुरुश्रेष्ठ कौरवान्गन्तुमर्हसि ||
७ ख
सञ्जय़ उवाच:
तवापराधात्सुमहान्सपुत्रस्य विशां पते |
८ क
सञ्जय़ उवाच:
पृथिव्याः प्रक्षय़ो घोरो यमराष्ट्रविवर्धनः ||
८ ख
सञ्जय़ उवाच:
आत्मदोषात्समुत्पन्नं शोचितुं नार्हसे नृप |
९ क
सञ्जय़ उवाच:
न हि रक्षन्ति राजानः सर्वार्थान्नापि जीवितम् ||
९ ख
सञ्जय़ उवाच:
युद्धे सुकृतिनां लोकानिच्छन्तो वसुधाधिपाः |
१० क
सञ्जय़ उवाच:
चमूं विगाह्य युध्यन्ते नित्यं स्वर्गपराय़णाः ||
१० ख
सञ्जय़ उवाच:
पूर्वाह्णे तु महाराज प्रावर्तत जनक्षय़ः |
११ क
सञ्जय़ उवाच:
तन्ममैकमना भूत्वा शृणु देवासुरोपमम् ||
११ ख
सञ्जय़ उवाच:
आवन्त्यौ तु महेष्वासौ महात्मानौ महावलौ |
१२ क
सञ्जय़ उवाच:
इरावन्तमभिप्रेक्ष्य समेय़ातां रणोत्कटौ |
१२ ख
सञ्जय़ उवाच:
तेषां प्रववृते युद्धं तुमुलं लोमहर्षणम् ||
१२ ग
सञ्जय़ उवाच:
इरावांस्तु सुसङ्क्रुद्धो भ्रातरौ देवरूपिणौ |
१३ क
सञ्जय़ उवाच:
विव्याध निशितैस्तूर्णं शरैः संनतपर्वभिः |
१३ ख
सञ्जय़ उवाच:
तावेनं प्रत्यविध्येतां समरे चित्रय़ोधिनौ ||
१३ ग
सञ्जय़ उवाच:
युध्यतां हि तथा राजन्विशेषो न व्यदृश्यत |
१४ क
सञ्जय़ उवाच:
यततां शत्रुनाशाय़ कृतप्रतिकृतैषिणाम् ||
१४ ख
सञ्जय़ उवाच:
इरावांस्तु ततो राजन्ननुविन्दस्य साय़कैः |
१५ क
सञ्जय़ उवाच:
चतुर्भिश्चतुरो वाहाननय़द्यमसादनम् ||
१५ ख
सञ्जय़ उवाच:
भल्लाभ्यां च सुतीक्ष्णाभ्यां धनुः केतुं च मारिष |
१६ क
सञ्जय़ उवाच:
चिच्छेद समरे राजंस्तदद्भुतमिवाभवत् ||
१६ ख
सञ्जय़ उवाच:
त्यक्त्वानुविन्दोऽथ रथं विन्दस्य रथमास्थितः |
१७ क
सञ्जय़ उवाच:
धनुर्गृहीत्वा नवमं भारसाधनमुत्तमम् ||
१७ ख
सञ्जय़ उवाच:
तावेकस्थौ रणे वीरावावन्त्यौ रथिनां वरौ |
१८ क
सञ्जय़ उवाच:
शरान्मुमुचतुस्तूर्णमिरावति महात्मनि ||
१८ ख
सञ्जय़ उवाच:
ताभ्यां मुक्ता महावेगाः शराः काञ्चनभूषणाः |
१९ क
सञ्जय़ उवाच:
दिवाकरपथं प्राप्य छादय़ामासुरम्वरम् ||
१९ ख
सञ्जय़ उवाच:
इरावांस्तु ततः क्रुद्धो भ्रातरौ तौ महारथौ |
२० क
सञ्जय़ उवाच:
ववर्ष शरवर्षेण सारथिं चाप्यपातय़त् ||
२० ख
सञ्जय़ उवाच:
तस्मिन्निपतिते भूमौ गतसत्त्वेऽथ सारथौ |
२१ क
सञ्जय़ उवाच:
रथः प्रदुद्राव दिशः समुद्भ्रान्तहय़स्ततः ||
२१ ख
सञ्जय़ उवाच:
तौ स जित्वा महाराज नागराजसुतासुतः |
२२ क
सञ्जय़ उवाच:
पौरुषं ख्यापय़ंस्तूर्णं व्यधमत्तव वाहिनीम् ||
२२ ख
सञ्जय़ उवाच:
सा वध्यमाना समरे धार्तराष्ट्री महाचमूः |
२३ क
सञ्जय़ उवाच:
वेगान्वहुविधांश्चक्रे विषं पीत्वेव मानवः ||
२३ ख
सञ्जय़ उवाच:
हैडिम्वो राक्षसेन्द्रस्तु भगदत्तं समाद्रवत् |
२४ क
सञ्जय़ उवाच:
रथेनादित्यवर्णेन सध्वजेन महावलः ||
२४ ख
सञ्जय़ उवाच:
ततः प्राग्ज्योतिषो राजा नागराजं समास्थितः |
२५ क
सञ्जय़ उवाच:
यथा वज्रधरः पूर्वं सङ्ग्रामे तारकामय़े ||
२५ ख
सञ्जय़ उवाच:
तत्र देवाः सगन्धर्वा ऋषय़श्च समागताः |
२६ क
सञ्जय़ उवाच:
विशेषं न स्म विविदुर्हैडिम्वभगदत्तय़ोः ||
२६ ख
सञ्जय़ उवाच:
यथा सुरपतिः शक्रस्त्रासय़ामास दानवान् |
२७ क
सञ्जय़ उवाच:
तथैव समरे राजंस्त्रासय़ामास पाण्डवान् ||
२७ ख
सञ्जय़ उवाच:
तेन विद्राव्यमाणास्ते पाण्डवाः सर्वतोदिशम् |
२८ क
सञ्जय़ उवाच:
त्रातारं नाभ्यविन्दन्त स्वेष्वनीकेषु भारत ||
२८ ख
सञ्जय़ उवाच:
भैमसेनिं रथस्थं तु तत्रापश्याम भारत |
२९ क
सञ्जय़ उवाच:
शेषा विमनसो भूत्वा प्राद्रवन्त महारथाः ||
२९ ख
सञ्जय़ उवाच:
निवृत्तेषु तु पाण्डूनां पुनः सैन्येषु भारत |
३० क
सञ्जय़ उवाच:
आसीन्निष्टानको घोरस्तव सैन्येषु संय़ुगे ||
३० ख
सञ्जय़ उवाच:
घटोत्कचस्ततो राजन्भगदत्तं महारणे |
३१ क
सञ्जय़ उवाच:
शरैः प्रच्छादय़ामास मेरुं गिरिमिवाम्वुदः ||
३१ ख
सञ्जय़ उवाच:
निहत्य ताञ्शरान्राजा राक्षसस्य धनुश्च्युतान् |
३२ क
सञ्जय़ उवाच:
भैमसेनिं रणे तूर्णं सर्वमर्मस्वताडय़त् ||
३२ ख
सञ्जय़ उवाच:
स ताड्यमानो वहुभिः शरैः संनतपर्वभिः |
३३ क
सञ्जय़ उवाच:
न विव्यथे राक्षसेन्द्रो भिद्यमान इवाचलः ||
३३ ख
सञ्जय़ उवाच:
तस्य प्राग्ज्योतिषः क्रुद्धस्तोमरान्स चतुर्दश |
३४ क
सञ्जय़ उवाच:
प्रेषय़ामास समरे तांश्च चिच्छेद राक्षसः ||
३४ ख
सञ्जय़ उवाच:
स तांश्छित्त्वा महावाहुस्तोमरान्निशितैः शरैः |
३५ क
सञ्जय़ उवाच:
भगदत्तं च विव्याध सप्तत्या कङ्कपत्रिभिः ||
३५ ख
सञ्जय़ उवाच:
ततः प्राग्ज्योतिषो राजन्प्रहसन्निव भारत |
३६ क
सञ्जय़ उवाच:
तस्याश्वांश्चतुरः सङ्ख्ये पातय़ामास साय़कैः ||
३६ ख
सञ्जय़ उवाच:
स हताश्वे रथे तिष्ठन्राक्षसेन्द्रः प्रतापवान् |
३७ क
सञ्जय़ उवाच:
शक्तिं चिक्षेप वेगेन प्राग्ज्योतिषगजं प्रति ||
३७ ख
सञ्जय़ उवाच:
तामापतन्तीं सहसा हेमदण्डां सुवेगिताम् |
३८ क
सञ्जय़ उवाच:
त्रिधा चिच्छेद नृपतिः सा व्यकीर्यत मेदिनीम् ||
३८ ख
सञ्जय़ उवाच:
शक्तिं विनिहतां दृष्ट्वा हैडिम्वः प्राद्रवद्भय़ात् |
३९ क
सञ्जय़ उवाच:
यथेन्द्रस्य रणात्पूर्वं नमुचिर्दैत्यसत्तमः ||
३९ ख
सञ्जय़ उवाच:
तं विजित्य रणे शूरं विक्रान्तं ख्यातपौरुषम् |
४० क
सञ्जय़ उवाच:
अजेय़ं समरे राजन्यमेन वरुणेन च ||
४० ख
सञ्जय़ उवाच:
पाण्डवीं समरे सेनां संममर्द सकुञ्जरः |
४१ क
सञ्जय़ उवाच:
यथा वनगजो राजन्मृद्नंश्चरति पद्मिनीम् ||
४१ ख
सञ्जय़ उवाच:
मद्रेश्वरस्तु समरे यमाभ्यां सह सङ्गतः |
४२ क
सञ्जय़ उवाच:
स्वस्रीय़ौ छादय़ां चक्रे शरौघैः पाण्डुनन्दनौ ||
४२ ख
सञ्जय़ उवाच:
सहदेवस्तु समरे मातुलं वीक्ष्य सङ्गतम् |
४३ क
सञ्जय़ उवाच:
अवारय़च्छरौघेण मेघो यद्वद्दिवाकरम् ||
४३ ख
सञ्जय़ उवाच:
छाद्यमानः शरौघेण हृष्टरूपतरोऽभवत् |
४४ क
सञ्जय़ उवाच:
तय़ोश्चाप्यभवत्प्रीतिरतुला मातृकारणात् ||
४४ ख
सञ्जय़ उवाच:
ततः प्रहस्य समरे नकुलस्य महारथः |
४५ क
सञ्जय़ उवाच:
अश्वान्वै चतुरो राजंश्चतुर्भिः साय़कोत्तमैः |
४५ ख
सञ्जय़ उवाच:
प्रेषय़ामास समरे यमस्य सदनं प्रति ||
४५ ग
सञ्जय़ उवाच:
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः |
४६ क
सञ्जय़ उवाच:
आरुरोह ततो यानं भ्रातुरेव यशस्विनः ||
४६ ख
सञ्जय़ उवाच:
एकस्थौ तु रणे शूरौ दृढे विक्षिप्य कार्मुके |
४७ क
सञ्जय़ उवाच:
मद्रराजरथं क्रुद्धौ छादय़ामासतुः क्षणात् ||
४७ ख
सञ्जय़ उवाच:
स च्छाद्यमानो वहुभिः शरैः संनतपर्वभिः |
४८ क
सञ्जय़ उवाच:
स्वस्रीय़ाभ्यां नरव्याघ्रो नाकम्पत यथाचलः |
४८ ख
सञ्जय़ उवाच:
प्रहसन्निव तां चापि शरवृष्टिं जघान ह ||
४८ ग