chevron_left द्रोण पर्व अध्याय ७९
सञ्जय़ उवाच:
तावकास्तु समीक्ष्यैव वृष्ण्यन्धककुरूत्तमौ |
१ क
सञ्जय़ उवाच:
प्रागत्वरञ्जिघांसन्तस्तथैव विजय़ः परान् ||
१ ख
सञ्जय़ उवाच:
सुवर्णचित्रैर्वैय़ाघ्रैः स्वनवद्भिर्महारथैः |
२ क
सञ्जय़ उवाच:
दीपय़न्तो दिशः सर्वा ज्वलद्भिरिव पावकैः ||
२ ख
सञ्जय़ उवाच:
रुक्मपृष्ठैश्च दुष्प्रेक्ष्यैः कार्मुकैः पृथिवीपते |
३ क
सञ्जय़ उवाच:
कूजद्भिरतुलान्नादान्रोषितैरुरगैरिव ||
३ ख
सञ्जय़ उवाच:
भूरिश्रवाः शलः कर्णो वृषसेनो जय़द्रथः |
४ क
सञ्जय़ उवाच:
कृपश्च मद्रराजश्च द्रौणिश्च रथिनां वरः ||
४ ख
सञ्जय़ उवाच:
ते पिवन्त इवाकाशमश्वैरष्टौ महारथाः |
५ क
सञ्जय़ उवाच:
व्यराजय़न्दश दिशो वैय़ाघ्रैर्हेमचन्द्रकैः ||
५ ख
सञ्जय़ उवाच:
ते दंशिताः सुसंरव्धा रथैर्मेघौघनिस्वनैः |
६ क
सञ्जय़ उवाच:
समावृण्वन्दिशः सर्वाः पार्थं च विशिखैः शितैः ||
६ ख
सञ्जय़ उवाच:
कौलूतका हय़ाश्चित्रा वहन्तस्तान्महारथान् |
७ क
सञ्जय़ उवाच:
व्यशोभन्त तदा शीघ्रा दीपय़न्तो दिशो दश ||
७ ख
सञ्जय़ उवाच:
आजानेय़ैर्महावेगैर्नानादेशसमुत्थितैः |
८ क
सञ्जय़ उवाच:
पार्वतीय़ैर्नदीजैश्च सैन्धवैश्च हय़ोत्तमैः ||
८ ख
सञ्जय़ उवाच:
कुरुय़ोधवरा राजंस्तव पुत्रं परीप्सवः |
९ क
सञ्जय़ उवाच:
धनञ्जय़रथं शीघ्रं सर्वतः समुपाद्रवन् ||
९ ख
सञ्जय़ उवाच:
ते प्रगृह्य महाशङ्खान्दध्मुः पुरुषसत्तमाः |
१० क
सञ्जय़ उवाच:
पूरय़न्तो दिवं राजन्पृथिवीं च ससागराम् ||
१० ख
सञ्जय़ उवाच:
तथैव दध्मतुः शङ्खौ वासुदेवधनञ्जय़ौ |
११ क
सञ्जय़ उवाच:
प्रवरौ सर्वभूतानां सर्वशङ्खवरौ भुवि |
११ ख
सञ्जय़ उवाच:
देवदत्तं च कौन्तेय़ः पाञ्चजन्यं च केशवः ||
११ ग
सञ्जय़ उवाच:
शव्दस्तु देवदत्तस्य धनञ्जय़समीरितः |
१२ क
सञ्जय़ उवाच:
पृथिवीं चान्तरिक्षं च दिशश्चैव समावृणोत् ||
१२ ख
सञ्जय़ उवाच:
तथैव पाञ्चजन्योऽपि वासुदेवसमीरितः |
१३ क
सञ्जय़ उवाच:
सर्वशव्दानतिक्रम्य पूरय़ामास रोदसी ||
१३ ख
सञ्जय़ उवाच:
तस्मिंस्तथा वर्तमाने दारुणे नादसङ्कुले |
१४ क
सञ्जय़ उवाच:
भीरूणां त्रासजनने शूराणां हर्षवर्धने ||
१४ ख
सञ्जय़ उवाच:
प्रवादितासु भेरीषु झर्झरेष्वानकेषु च |
१५ क
सञ्जय़ उवाच:
मृदङ्गेषु च राजेन्द्र वाद्यमानेष्वनेकशः ||
१५ ख
सञ्जय़ उवाच:
महारथसमाख्याता दुर्योधनहितैषिणः |
१६ क
सञ्जय़ उवाच:
अमृष्यमाणास्तं शव्दं क्रुद्धाः परमधन्विनः |
१६ ख
सञ्जय़ उवाच:
नानादेश्या महीपालाः स्वसैन्यपरिरक्षिणः ||
१६ ग
सञ्जय़ उवाच:
अमर्षिता महाशङ्खान्दध्मुर्वीरा महारथाः |
१७ क
सञ्जय़ उवाच:
कृते प्रतिकरिष्यन्तः केशवस्यार्जुनस्य च ||
१७ ख
सञ्जय़ उवाच:
वभूव तव तत्सैन्यं शङ्खशव्दसमीरितम् |
१८ क
सञ्जय़ उवाच:
उद्विग्नरथनागाश्वमस्वस्थमिव चाभिभो ||
१८ ख
सञ्जय़ उवाच:
तत्प्रय़ुक्तमिवाकाशं शूरैः शङ्खनिनादितम् |
१९ क
सञ्जय़ उवाच:
वभूव भृशमुद्विग्नं निर्घातैरिव नादितम् ||
१९ ख
सञ्जय़ उवाच:
स शव्दः सुमहान्राजन्दिशः सर्वा व्यनादय़त् |
२० क
सञ्जय़ उवाच:
त्रासय़ामास तत्सैन्यं युगान्त इव सम्भृतः ||
२० ख
सञ्जय़ उवाच:
ततो दुर्योधनोऽष्टौ च राजानस्ते महारथाः |
२१ क
सञ्जय़ उवाच:
जय़द्रथस्य रक्षार्थं पाण्डवं पर्यवारय़न् ||
२१ ख
सञ्जय़ उवाच:
ततो द्रौणिस्त्रिसप्तत्या वासुदेवमताडय़त् |
२२ क
सञ्जय़ उवाच:
अर्जुनं च त्रिभिर्भल्लैर्ध्वजमश्वांश्च पञ्चभिः ||
२२ ख
सञ्जय़ उवाच:
तमर्जुनः पृषत्कानां शतैः षड्भिरताडय़त् |
२३ क
सञ्जय़ उवाच:
अत्यर्थमिव सङ्क्रुद्धः प्रतिविद्धे जनार्दने ||
२३ ख
सञ्जय़ उवाच:
कर्णं द्वादशभिर्विद्ध्वा वृषसेनं त्रिभिस्तथा |
२४ क
सञ्जय़ उवाच:
शल्यस्य सशरं चापं मुष्टौ चिच्छेद वीर्यवान् ||
२४ ख
सञ्जय़ उवाच:
गृहीत्वा धनुरन्यत्तु शल्यो विव्याध पाण्डवम् |
२५ क
सञ्जय़ उवाच:
भूरिश्रवास्त्रिभिर्वाणैर्हेमपुङ्खैः शिलाशितैः ||
२५ ख
सञ्जय़ उवाच:
कर्णो द्वात्रिंशता चैव वृषसेनश्च पञ्चभिः |
२६ क
सञ्जय़ उवाच:
जय़द्रथस्त्रिसप्तत्या कृपश्च दशभिः शरैः |
२६ ख
सञ्जय़ उवाच:
मद्रराजश्च दशभिर्विव्यधुः फल्गुनं रणे ||
२६ ग
सञ्जय़ उवाच:
ततः शराणां षष्ट्या तु द्रौणिः पार्थमवाकिरत् |
२७ क
सञ्जय़ उवाच:
वासुदेवं च सप्तत्या पुनः पार्थं च पञ्चभिः ||
२७ ख
सञ्जय़ उवाच:
प्रहसंस्तु नरव्याघ्रः श्वेताश्वः कृष्णसारथिः |
२८ क
सञ्जय़ उवाच:
प्रत्यविध्यत्स तान्सर्वान्दर्शय़न्पाणिलाघवम् ||
२८ ख
सञ्जय़ उवाच:
कर्णं द्वादशभिर्विद्ध्वा वृषसेनं त्रिभिः शरैः |
२९ क
सञ्जय़ उवाच:
शल्यस्य समरे चापं मुष्टिदेशे न्यकृन्तत ||
२९ ख
सञ्जय़ उवाच:
सौमदत्तिं त्रिभिर्विद्ध्वा शल्यं च दशभिः शरैः |
३० क
सञ्जय़ उवाच:
शितैरग्निशिखाकारैर्द्रौणिं विव्याध चाष्टभिः ||
३० ख
सञ्जय़ उवाच:
गौतमं पञ्चविंशत्या शैन्धवं च शतेन ह |
३१ क
सञ्जय़ उवाच:
पुनर्द्रौणिं च सप्तत्या शराणां सोऽभ्यताडय़त् ||
३१ ख
सञ्जय़ उवाच:
भूरिश्रवास्तु सङ्क्रुद्धः प्रतोदं चिच्छिदे हरेः |
३२ क
सञ्जय़ उवाच:
अर्जुनं च त्रिसप्तत्या वाणानामाजघान ह ||
३२ ख
सञ्जय़ उवाच:
ततः शरशतैस्तीक्ष्णैस्तानरीञ्श्वेतवाहनः |
३३ क
सञ्जय़ उवाच:
प्रत्यषेधद्द्रुतं क्रुद्धो महावातो घनानिव ||
३३ ख