chevron_left सौप्तिक पर्व अध्याय ८
सञ्जय़ उवाच:
सहस्रचन्द्रं विपुलं गृहीत्वा चर्म संय़ुगे |
४९ क
सञ्जय़ उवाच:
खड्गं च विपुलं दिव्यं जातरूपपरिष्कृतम् |
४९ ख
सञ्जय़ उवाच:
द्रौपदेय़ानभिद्रुत्य खड्गेन व्यचरद्वली ||
४९ ग
सञ्जय़ उवाच:
ततः स नरशार्दूलः प्रतिविन्ध्यं तमाहवे |
५० क
सञ्जय़ उवाच:
कुक्षिदेशेऽवधीद्राजन्स हतो न्यपतद्भुवि ||
५० ख
सञ्जय़ उवाच:
प्रासेन विद्ध्वा द्रौणिं तु सुतसोमः प्रतापवान् |
५१ क
सञ्जय़ उवाच:
पुनश्चासिं समुद्यम्य द्रोणपुत्रमुपाद्रवत् ||
५१ ख
सञ्जय़ उवाच:
सुतसोमस्य सासिं तु वाहुं छित्त्वा नरर्षभः |
५२ क
सञ्जय़ उवाच:
पुनरभ्यहनत्पार्श्वे स भिन्नहृदय़ोऽपतत् ||
५२ ख
सञ्जय़ उवाच:
नाकुलिस्तु शतानीको रथचक्रेण वीर्यवान् |
५३ क
सञ्जय़ उवाच:
दोर्भ्यामुत्क्षिप्य वेगेन वक्षस्येनमताडय़त् ||
५३ ख
सञ्जय़ उवाच:
अताडय़च्छतानीकं मुक्तचक्रं द्विजस्तु सः |
५४ क
सञ्जय़ उवाच:
स विह्वलो यय़ौ भूमिं ततोऽस्यापाहरच्छिरः ||
५४ ख
सञ्जय़ उवाच:
श्रुतकर्मा तु परिघं गृहीत्वा समताडय़त् |
५५ क
सञ्जय़ उवाच:
अभिद्रुत्य ततो द्रौणिं सव्ये स फलके भृशम् ||
५५ ख
सञ्जय़ उवाच:
स तु तं श्रुतकर्माणमास्ये जघ्ने वरासिना |
५६ क
सञ्जय़ उवाच:
स हतो न्यपतद्भूमौ विमूढो विकृताननः ||
५६ ख
सञ्जय़ उवाच:
तेन शव्देन वीरस्तु श्रुतकीर्तिर्महाधनुः |
५७ क
सञ्जय़ उवाच:
अश्वत्थामानमासाद्य शरवर्षैरवाकिरत् ||
५७ ख
सञ्जय़ उवाच:
तस्यापि शरवर्षाणि चर्मणा प्रतिवार्य सः |
५८ क
सञ्जय़ उवाच:
सकुण्डलं शिरः काय़ाद्भ्राजमानमपाहरत् ||
५८ ख
सञ्जय़ उवाच:
ततो भीष्मनिहन्ता तं सह सर्वैः प्रभद्रकैः |
५९ क
सञ्जय़ उवाच:
अहनत्सर्वतो वीरं नानाप्रहरणैर्वली |
५९ ख
सञ्जय़ उवाच:
शिलीमुखेन चाप्येनं भ्रुवोर्मध्ये समार्दय़त् ||
५९ ग
सञ्जय़ उवाच:
स तु क्रोधसमाविष्टो द्रोणपुत्रो महावलः |
६० क
सञ्जय़ उवाच:
शिखण्डिनं समासाद्य द्विधा चिच्छेद सोऽसिना ||
६० ख
सञ्जय़ उवाच:
शिखण्डिनं ततो हत्वा क्रोधाविष्टः परन्तपः |
६१ क
सञ्जय़ उवाच:
प्रभद्रकगणान्सर्वानभिदुद्राव वेगवान् |
६१ ख
सञ्जय़ उवाच:
यच्च शिष्टं विराटस्य वलं तच्च समाद्रवत् ||
६१ ग
सञ्जय़ उवाच:
द्रुपदस्य च पुत्राणां पौत्राणां सुहृदामपि |
६२ क
सञ्जय़ उवाच:
चकार कदनं घोरं दृष्ट्वा दृष्ट्वा महावलः ||
६२ ख
सञ्जय़ उवाच:
अन्यानन्यांश्च पुरुषानभिसृत्याभिसृत्य च |
६३ क
सञ्जय़ उवाच:
न्यकृन्तदसिना द्रौणिरसिमार्गविशारदः ||
६३ ख
सञ्जय़ उवाच:
कालीं रक्तास्यनय़नां रक्तमाल्यानुलेपनाम् |
६४ क
सञ्जय़ उवाच:
रक्ताम्वरधरामेकां पाशहस्तां शिखण्डिनीम् ||
६४ ख
सञ्जय़ उवाच:
ददृशुः कालरात्रिं ते स्मय़मानामवस्थिताम् |
६५ क
सञ्जय़ उवाच:
नराश्वकुञ्जरान्पाशैर्वद्ध्वा घोरैः प्रतस्थुषीम् |
६५ ख
सञ्जय़ उवाच:
हरन्तीं विविधान्प्रेतान्पाशवद्धान्विमूर्धजान् ||
६५ ग
सञ्जय़ उवाच:
स्वप्ने सुप्तान्नय़न्तीं तां रात्रिष्वन्यासु मारिष |
६६ क
सञ्जय़ उवाच:
ददृशुर्योधमुख्यास्ते घ्नन्तं द्रौणिं च नित्यदा ||
६६ ख
सञ्जय़ उवाच:
यतः प्रवृत्तः सङ्ग्रामः कुरुपाण्डवसेनय़ोः |
६७ क
सञ्जय़ उवाच:
ततः प्रभृति तां कृत्यामपश्यन्द्रौणिमेव च ||
६७ ख
सञ्जय़ उवाच:
तांस्तु दैवहतान्पूर्वं पश्चाद्द्रौणिर्न्यपातय़त् |
६८ क
सञ्जय़ उवाच:
त्रासय़न्सर्वभूतानि विनदन्भैरवान्रवान् ||
६८ ख
सञ्जय़ उवाच:
तदनुस्मृत्य ते वीरा दर्शनं पौर्वकालिकम् |
६९ क
सञ्जय़ उवाच:
इदं तदित्यमन्यन्त दैवेनोपनिपीडिताः ||
६९ ख
सञ्जय़ उवाच:
ततस्तेन निनादेन प्रत्यवुध्यन्त धन्विनः |
७० क
सञ्जय़ उवाच:
शिविरे पाण्डवेय़ानां शतशोऽथ सहस्रशः ||
७० ख
सञ्जय़ उवाच:
सोऽच्छिनत्कस्यचित्पादौ जघनं चैव कस्यचित् |
७१ क
सञ्जय़ उवाच:
कांश्चिद्विभेद पार्श्वेषु कालसृष्ट इवान्तकः ||
७१ ख
सञ्जय़ उवाच:
अत्युग्रप्रतिपिष्टैश्च नदद्भिश्च भृशातुरैः |
७२ क
सञ्जय़ उवाच:
गजाश्वमथितैश्चान्यैर्मही कीर्णाभवत्प्रभो ||
७२ ख
सञ्जय़ उवाच:
क्रोशतां किमिदं कोऽय़ं किं शव्दः किं नु किं कृतम् |
७३ क
सञ्जय़ उवाच:
एवं तेषां तदा द्रौणिरन्तकः समपद्यत ||
७३ ख
सञ्जय़ उवाच:
अपेतशस्त्रसंनाहान्संरव्धान्पाण्डुसृञ्जय़ान् |
७४ क
सञ्जय़ उवाच:
प्राहिणोन्मृत्युलोकाय़ द्रौणिः प्रहरतां वरः ||
७४ ख
सञ्जय़ उवाच:
ततस्तच्छस्त्रवित्रस्ता उत्पतन्तो भय़ातुराः |
७५ क
सञ्जय़ उवाच:
निद्रान्धा नष्टसञ्ज्ञाश्च तत्र तत्र निलिल्यिरे ||
७५ ख
सञ्जय़ उवाच:
ऊरुस्तम्भगृहीताश्च कश्मलाभिहतौजसः |
७६ क
सञ्जय़ उवाच:
विनदन्तो भृशं त्रस्ताः संन्यपेषन्परस्परम् ||
७६ ख
सञ्जय़ उवाच:
ततो रथं पुनर्द्रौणिरास्थितो भीमनिस्वनम् |
७७ क
सञ्जय़ उवाच:
धनुष्पाणिः शरैरन्यान्प्रेषय़द्वै यमक्षय़म् ||
७७ ख
सञ्जय़ उवाच:
पुनरुत्पततः कांश्चिद्दूरादपि नरोत्तमान् |
७८ क
सञ्जय़ उवाच:
शूरान्सम्पततश्चान्यान्कालरात्र्यै न्यवेदय़त् ||
७८ ख
सञ्जय़ उवाच:
तथैव स्यन्दनाग्रेण प्रमथन्स विधावति |
७९ क
सञ्जय़ उवाच:
शरवर्षैश्च विविधैरवर्षच्छात्रवांस्ततः ||
७९ ख
सञ्जय़ उवाच:
पुनश्च सुविचित्रेण शतचन्द्रेण चर्मणा |
८० क
सञ्जय़ उवाच:
तेन चाकाशवर्णेन तदाचरत सोऽसिना ||
८० ख
सञ्जय़ उवाच:
तथा स शिविरं तेषां द्रौणिराहवदुर्मदः |
८१ क
सञ्जय़ उवाच:
व्यक्षोभय़त राजेन्द्र महाह्रदमिव द्विपः ||
८१ ख
सञ्जय़ उवाच:
उत्पेतुस्तेन शव्देन योधा राजन्विचेतसः |
८२ क
सञ्जय़ उवाच:
निद्रार्ताश्च भय़ार्ताश्च व्यधावन्त ततस्ततः ||
८२ ख
सञ्जय़ उवाच:
विस्वरं चुक्रुशुश्चान्ये वह्ववद्धं तथावदन् |
८३ क
सञ्जय़ उवाच:
न च स्म प्रतिपद्यन्ते शस्त्राणि वसनानि च ||
८३ ख
सञ्जय़ उवाच:
विमुक्तकेशाश्चाप्यन्ये नाभ्यजानन्परस्परम् |
८४ क
सञ्जय़ उवाच:
उत्पतन्तः परे भीताः केचित्तत्र तथाभ्रमन् |
८४ ख
सञ्जय़ उवाच:
पुरीषमसृजन्केचित्केचिन्मूत्रं प्रसुस्रुवुः ||
८४ ग
सञ्जय़ उवाच:
वन्धनानि च राजेन्द्र सञ्छिद्य तुरगा द्विपाः |
८५ क
सञ्जय़ उवाच:
समं पर्यपतंश्चान्ये कुर्वन्तो महदाकुलम् ||
८५ ख
सञ्जय़ उवाच:
तत्र केचिन्नरा भीता व्यलीय़न्त महीतले |
८६ क
सञ्जय़ उवाच:
तथैव तान्निपतितानपिंषन्गजवाजिनः ||
८६ ख
सञ्जय़ उवाच:
तस्मिंस्तथा वर्तमाने रक्षांसि पुरुषर्षभ |
८७ क
सञ्जय़ उवाच:
तृप्तानि व्यनदन्नुच्चैर्मुदा भरतसत्तम ||
८७ ख
सञ्जय़ उवाच:
स शव्दः प्रेरितो राजन्भूतसङ्घैर्मुदा युतैः |
८८ क
सञ्जय़ उवाच:
अपूरय़द्दिशः सर्वा दिवं चापि महास्वनः ||
८८ ख
सञ्जय़ उवाच:
तेषामार्तस्वरं श्रुत्वा वित्रस्ता गजवाजिनः |
८९ क
सञ्जय़ उवाच:
मुक्ताः पर्यपतन्राजन्मृद्नन्तः शिविरे जनम् ||
८९ ख
सञ्जय़ उवाच:
तैस्तत्र परिधावद्भिश्चरणोदीरितं रजः |
९० क
सञ्जय़ उवाच:
अकरोच्छिविरे तेषां रजन्यां द्विगुणं तमः ||
९० ख
सञ्जय़ उवाच:
तस्मिंस्तमसि सञ्जाते प्रमूढाः सर्वतो जनाः |
९१ क
सञ्जय़ उवाच:
नाजानन्पितरः पुत्रान्भ्रातॄन्भ्रातर एव च ||
९१ ख
सञ्जय़ उवाच:
गजा गजानतिक्रम्य निर्मनुष्या हय़ा हय़ान् |
९२ क
सञ्जय़ उवाच:
अताडय़ंस्तथाभञ्जंस्तथामृद्नंश्च भारत ||
९२ ख
सञ्जय़ उवाच:
ते भग्नाः प्रपतन्तश्च निघ्नन्तश्च परस्परम् |
९३ क
सञ्जय़ उवाच:
न्यपातय़न्त च परान्पातय़ित्वा तथापिषन् ||
९३ ख
सञ्जय़ उवाच:
विचेतसः सनिद्राश्च तमसा चावृता नराः |
९४ क
सञ्जय़ उवाच:
जघ्नुः स्वानेव तत्राथ कालेनाभिप्रचोदिताः ||
९४ ख
सञ्जय़ उवाच:
त्यक्त्वा द्वाराणि च द्वाःस्थास्तथा गुल्मांश्च गौल्मिकाः |
९५ क
सञ्जय़ उवाच:
प्राद्रवन्त यथाशक्ति कान्दिशीका विचेतसः ||
९५ ख
सञ्जय़ उवाच:
विप्रनष्टाश्च तेऽन्योन्यं नाजानन्त तदा विभो |
९६ क