वैशम्पाय़न उवाच:
निवर्तध्वमधर्मज्ञा यदि स्थ न मुमूर्षवः |
५० क
वैशम्पाय़न उवाच:
नेदानीं शरनिर्भिन्नाः शोचध्वं निहता मय़ा ||
५० ख
वैशम्पाय़न उवाच:
तथोक्तास्तेन वीरेण कदर्थीकृत्य तद्वचः |
५१ क
वैशम्पाय़न उवाच:
अभिपेतुर्जनं मूढा वार्यमाणाः पुनः पुनः ||
५१ ख
वैशम्पाय़न उवाच:
ततोऽर्जुनो धनुर्दिव्यं गाण्डीवमजरं महत् |
५२ क
वैशम्पाय़न उवाच:
आरोपय़ितुमारेभे यत्नादिव कथञ्चन ||
५२ ख
वैशम्पाय़न उवाच:
चकार सज्यं कृच्छ्रेण सम्भ्रमे तुमुले सति |
५३ क
वैशम्पाय़न उवाच:
चिन्तय़ामास चास्त्राणि न च सस्मार तान्यपि ||
५३ ख
वैशम्पाय़न उवाच:
वैकृत्यं तन्महद्दृष्ट्वा भुजवीर्ये तथा युधि |
५४ क
वैशम्पाय़न उवाच:
दिव्यानां च महास्त्राणां विनाशाद्व्रीडितोऽभवत् ||
५४ ख
वैशम्पाय़न उवाच:
वृष्णिय़ोधाश्च ते सर्वे गजाश्वरथय़ाय़िनः |
५५ क
वैशम्पाय़न उवाच:
न शेकुरावर्तय़ितुं ह्रिय़माणं च तं जनम् ||
५५ ख
वैशम्पाय़न उवाच:
कलत्रस्य वहुत्वात्तु सम्पतत्सु ततस्ततः |
५६ क
वैशम्पाय़न उवाच:
प्रय़त्नमकरोत्पार्थो जनस्य परिरक्षणे ||
५६ ख
वैशम्पाय़न उवाच:
मिषतां सर्वय़ोधानां ततस्ताः प्रमदोत्तमाः |
५७ क
वैशम्पाय़न उवाच:
समन्ततोऽवकृष्यन्त कामाच्चान्याः प्रवव्रजुः ||
५७ ख
वैशम्पाय़न उवाच:
ततो गाण्डीवनिर्मुक्तैः शरैः पार्थो धनञ्जय़ः |
५८ क
वैशम्पाय़न उवाच:
जघान दस्यून्सोद्वेगो वृष्णिभृत्यैः सह प्रभुः ||
५८ ख
वैशम्पाय़न उवाच:
क्षणेन तस्य ते राजन्क्षय़ं जग्मुरजिह्मगाः |
५९ क
वैशम्पाय़न उवाच:
अक्षय़ा हि पुरा भूत्वा क्षीणाः क्षतजभोजनाः ||
५९ ख
वैशम्पाय़न उवाच:
स शरक्षय़मासाद्य दुःखशोकसमाहतः |
६० क
वैशम्पाय़न उवाच:
धनुष्कोट्या तदा दस्यूनवधीत्पाकशासनिः ||
६० ख
वैशम्पाय़न उवाच:
प्रेक्षतस्त्वेव पार्थस्य वृष्ण्यन्धकवरस्त्रिय़ः |
६१ क
वैशम्पाय़न उवाच:
जग्मुरादाय़ ते म्लेच्छाः समन्ताज्जनमेजय़ ||
६१ ख
वैशम्पाय़न उवाच:
धनञ्जय़स्तु दैवं तन्मनसाचिन्तय़त्प्रभुः |
६२ क
वैशम्पाय़न उवाच:
दुःखशोकसमाविष्टो निःश्वासपरमोऽभवत् ||
६२ ख
वैशम्पाय़न उवाच:
अस्त्राणां च प्रणाशेन वाहुवीर्यस्य सङ्क्षय़ात् |
६३ क
वैशम्पाय़न उवाच:
धनुषश्चाविधेय़त्वाच्छराणां सङ्क्षय़ेण च ||
६३ ख
वैशम्पाय़न उवाच:
वभूव विमनाः पार्थो दैवमित्यनुचिन्तय़न् |
६४ क
वैशम्पाय़न उवाच:
न्यवर्तत ततो राजन्नेदमस्तीति चाव्रवीत् ||
६४ ख
वैशम्पाय़न उवाच:
ततः स शेषमादाय़ कलत्रस्य महामतिः |
६५ क
वैशम्पाय़न उवाच:
हृतभूय़िष्ठरत्नस्य कुरुक्षेत्रमवातरत् ||
६५ ख
वैशम्पाय़न उवाच:
एवं कलत्रमानीय़ वृष्णीनां हृतशेषितम् |
६६ क
वैशम्पाय़न उवाच:
न्यवेशय़त कौरव्यस्तत्र तत्र धनञ्जय़ः ||
६६ ख
वैशम्पाय़न उवाच:
हार्दिक्यतनय़ं पार्थो नगरं मार्तिकावतम् |
६७ क
वैशम्पाय़न उवाच:
भोजराजकलत्रं च हृतशेषं नरोत्तमः ||
६७ ख
वैशम्पाय़न उवाच:
ततो वृद्धांश्च वालांश्च स्त्रिय़श्चादाय़ पाण्डवः |
६८ क
वैशम्पाय़न उवाच:
वीरैर्विहीनान्सर्वांस्ताञ्शक्रप्रस्थे न्यवेशय़त् ||
६८ ख
वैशम्पाय़न उवाच:
यौय़ुधानिं सरस्वत्यां पुत्रं सात्यकिनः प्रिय़म् |
६९ क
वैशम्पाय़न उवाच:
न्यवेशय़त धर्मात्मा वृद्धवालपुरस्कृतम् ||
६९ ख
वैशम्पाय़न उवाच:
इन्द्रप्रस्थे ददौ राज्यं वज्राय़ परवीरहा |
७० क
वैशम्पाय़न उवाच:
वज्रेणाक्रूरदारास्तु वार्यमाणाः प्रवव्रजुः ||
७० ख
वैशम्पाय़न उवाच:
रुक्मिणी त्वथ गान्धारी शैव्या हैमवतीत्यपि |
७१ क
वैशम्पाय़न उवाच:
देवी जाम्ववती चैव विविशुर्जातवेदसम् ||
७१ ख
वैशम्पाय़न उवाच:
सत्यभामा तथैवान्या देव्यः कृष्णस्य संमताः |
७२ क
वैशम्पाय़न उवाच:
वनं प्रविविशू राजंस्तापस्ये कृतनिश्चय़ाः ||
७२ ख
वैशम्पाय़न उवाच:
द्वारकावासिनो ये तु पुरुषाः पार्थमन्वय़ुः |
७३ क
वैशम्पाय़न उवाच:
यथार्हं संविभज्यैनान्वज्रे पर्यददज्जय़ः ||
७३ ख
वैशम्पाय़न उवाच:
स तत्कृत्वा प्राप्तकालं वाष्पेणापिहितोऽर्जुनः |
७४ क
वैशम्पाय़न उवाच:
कृष्णद्वैपाय़नं राजन्ददर्शासीनमाश्रमे ||
७४ ख