सञ्जय़ उवाच:
क्रोशन्तस्तात पुत्रेति दैवोपहतचेतसः ||
९६ ख
सञ्जय़ उवाच:
पलाय़तां दिशस्तेषां स्वानप्युत्सृज्य वान्धवान् |
९७ क
सञ्जय़ उवाच:
गोत्रनामभिरन्योन्यमाक्रन्दन्त ततो जनाः ||
९७ ख
सञ्जय़ उवाच:
हाहाकारं च कुर्वाणाः पृथिव्यां शेरते परे |
९८ क
सञ्जय़ उवाच:
तान्वुद्ध्वा रणमत्तोऽसौ द्रोणपुत्रो व्यपोथय़त् ||
९८ ख
सञ्जय़ उवाच:
तत्रापरे वध्यमाना मुहुर्मुहुरचेतसः |
९९ क
सञ्जय़ उवाच:
शिविरान्निष्पतन्ति स्म क्षत्रिय़ा भय़पीडिताः ||
९९ ख
सञ्जय़ उवाच:
तांस्तु निष्पततस्त्रस्ताञ्शिविराञ्जीवितैषिणः |
१०० क
सञ्जय़ उवाच:
कृतवर्मा कृपश्चैव द्वारदेशे निजघ्नतुः ||
१०० ख
सञ्जय़ उवाच:
विशस्त्रय़न्त्रकवचान्मुक्तकेशान्कृताञ्जलीन् |
१०१ क
सञ्जय़ उवाच:
वेपमानान्क्षितौ भीतान्नैव कांश्चिदमुञ्चताम् ||
१०१ ख
सञ्जय़ उवाच:
नामुच्यत तय़ोः कश्चिन्निष्क्रान्तः शिविराद्वहिः |
१०२ क
सञ्जय़ उवाच:
कृपस्य च महाराज हार्दिक्यस्य च दुर्मतेः ||
१०२ ख
सञ्जय़ उवाच:
भूय़श्चैव चिकीर्षन्तौ द्रोणपुत्रस्य तौ प्रिय़म् |
१०३ क
सञ्जय़ उवाच:
त्रिषु देशेषु ददतुः शिविरस्य हुताशनम् ||
१०३ ख
सञ्जय़ उवाच:
ततः प्रकाशे शिविरे खड्गेन पितृनन्दनः |
१०४ क
सञ्जय़ उवाच:
अश्वत्थामा महाराज व्यचरत्कृतहस्तवत् ||
१०४ ख
सञ्जय़ उवाच:
कांश्चिदापततो वीरानपरांश्च प्रधावतः |
१०५ क
सञ्जय़ उवाच:
व्ययोजय़त खड्गेन प्राणैर्द्विजवरो नरान् ||
१०५ ख
सञ्जय़ उवाच:
कांश्चिद्योधान्स खड्गेन मध्ये सञ्छिद्य वीर्यवान् |
१०६ क
सञ्जय़ उवाच:
अपातय़द्द्रोणसुतः संरव्धस्तिलकाण्डवत् ||
१०६ ख
सञ्जय़ उवाच:
विनदद्भिर्भृशाय़स्तैर्नराश्वद्विरदोत्तमैः |
१०७ क
सञ्जय़ उवाच:
पतितैरभवत्कीर्णा मेदिनी भरतर्षभ ||
१०७ ख
सञ्जय़ उवाच:
मानुषाणां सहस्रेषु हतेषु पतितेषु च |
१०८ क
सञ्जय़ उवाच:
उदतिष्ठन्कवन्धानि वहून्युत्थाय़ चापतन् ||
१०८ ख
सञ्जय़ उवाच:
साय़ुधान्साङ्गदान्वाहून्निचकर्त शिरांसि च |
१०९ क
सञ्जय़ उवाच:
हस्तिहस्तोपमानूरून्हस्तान्पादांश्च भारत ||
१०९ ख
सञ्जय़ उवाच:
पृष्ठच्छिन्नाञ्शिरश्छिन्नान्पार्श्वच्छिन्नांस्तथापरान् |
११० क
सञ्जय़ उवाच:
समासाद्याकरोद्द्रौणिः कांश्चिच्चापि पराङ्मुखान् ||
११० ख
सञ्जय़ उवाच:
मध्यकाय़ान्नरानन्यांश्चिच्छेदान्यांश्च कर्णतः |
१११ क
सञ्जय़ उवाच:
अंसदेशे निहत्यान्यान्काय़े प्रावेशय़च्छिरः ||
१११ ख
सञ्जय़ उवाच:
एवं विचरतस्तस्य निघ्नतः सुवहून्नरान् |
११२ क
सञ्जय़ उवाच:
तमसा रजनी घोरा वभौ दारुणदर्शना ||
११२ ख
सञ्जय़ उवाच:
किञ्चित्प्राणैश्च पुरुषैर्हतैश्चान्यैः सहस्रशः |
११३ क
सञ्जय़ उवाच:
वहुना च गजाश्वेन भूरभूद्भीमदर्शना ||
११३ ख
सञ्जय़ उवाच:
यक्षरक्षःसमाकीर्णे रथाश्वद्विपदारुणे |
११४ क
सञ्जय़ उवाच:
क्रुद्धेन द्रोणपुत्रेण सञ्छिन्नाः प्रापतन्भुवि ||
११४ ख
सञ्जय़ उवाच:
मातॄरन्ये पितॄनन्ये भ्रातॄनन्ये विचुक्रुशुः |
११५ क
सञ्जय़ उवाच:
केचिदूचुर्न तत्क्रुद्धैर्धार्तराष्ट्रैः कृतं रणे ||
११५ ख
सञ्जय़ उवाच:
यत्कृतं नः प्रसुप्तानां रक्षोभिः क्रूरकर्मभिः |
११६ क
सञ्जय़ उवाच:
असांनिध्याद्धि पार्थानामिदं नः कदनं कृतम् ||
११६ ख
सञ्जय़ उवाच:
न देवासुरगन्धर्वैर्न यक्षैर्न च राक्षसैः |
११७ क
सञ्जय़ उवाच:
शक्यो विजेतुं कौन्तेय़ो गोप्ता यस्य जनार्दनः ||
११७ ख
सञ्जय़ उवाच:
व्रह्मण्यः सत्यवाग्दान्तः सर्वभूतानुकम्पकः |
११८ क
सञ्जय़ उवाच:
न च सुप्तं प्रमत्तं वा न्यस्तशस्त्रं कृताञ्जलिम् |
११८ ख
सञ्जय़ उवाच:
धावन्तं मुक्तकेशं वा हन्ति पार्थो धनञ्जय़ः ||
११८ ग
सञ्जय़ उवाच:
तदिदं नः कृतं घोरं रक्षोभिः क्रूरकर्मभिः |
११९ क
सञ्जय़ उवाच:
इति लालप्यमानाः स्म शेरते वहवो जनाः ||
११९ ख
सञ्जय़ उवाच:
स्तनतां च मनुष्याणामपरेषां च कूजताम् |
१२० क
सञ्जय़ उवाच:
ततो मुहूर्तात्प्राशाम्यत्स शव्दस्तुमुलो महान् ||
१२० ख
सञ्जय़ उवाच:
शोणितव्यतिषिक्ताय़ां वसुधाय़ां च भूमिप |
१२१ क
सञ्जय़ उवाच:
तद्रजस्तुमुलं घोरं क्षणेनान्तरधीय़त ||
१२१ ख
सञ्जय़ उवाच:
संवेष्टमानानुद्विग्नान्निरुत्साहान्सहस्रशः |
१२२ क
सञ्जय़ उवाच:
न्यपातय़न्नरान्क्रुद्धः पशून्पशुपतिर्यथा ||
१२२ ख
सञ्जय़ उवाच:
अन्योन्यं सम्परिष्वज्य शय़ानान्द्रवतोऽपरान् |
१२३ क
सञ्जय़ उवाच:
संलीनान्युध्यमानांश्च सर्वान्द्रौणिरपोथय़त् ||
१२३ ख
सञ्जय़ उवाच:
दह्यमाना हुताशेन वध्यमानाश्च तेन ते |
१२४ क
सञ्जय़ उवाच:
परस्परं तदा योधा अनय़न्यमसादनम् ||
१२४ ख
सञ्जय़ उवाच:
तस्या रजन्यास्त्वर्धेन पाण्डवानां महद्वलम् |
१२५ क
सञ्जय़ उवाच:
गमय़ामास राजेन्द्र द्रौणिर्यमनिवेशनम् ||
१२५ ख
सञ्जय़ उवाच:
निशाचराणां सत्त्वानां स रात्रिर्हर्षवर्धिनी |
१२६ क
सञ्जय़ उवाच:
आसीन्नरगजाश्वानां रौद्री क्षय़करी भृशम् ||
१२६ ख
सञ्जय़ उवाच:
तत्रादृश्यन्त रक्षांसि पिशाचाश्च पृथग्विधाः |
१२७ क
सञ्जय़ उवाच:
खादन्तो नरमांसानि पिवन्तः शोणितानि च ||
१२७ ख
सञ्जय़ उवाच:
करालाः पिङ्गला रौद्राः शैलदन्ता रजस्वलाः |
१२८ क
सञ्जय़ उवाच:
जटिला दीर्घसक्थाश्च पञ्चपादा महोदराः ||
१२८ ख
सञ्जय़ उवाच:
पश्चादङ्गुलय़ो रूक्षा विरूपा भैरवस्वनाः |
१२९ क
सञ्जय़ उवाच:
घटजानवोऽतिह्रस्वाश्च नीलकण्ठा विभीषणाः ||
१२९ ख
सञ्जय़ उवाच:
सपुत्रदाराः सुक्रूरा दुर्दर्शनसुनिर्घृणाः |
१३० क
सञ्जय़ उवाच:
विविधानि च रूपाणि तत्रादृश्यन्त रक्षसाम् ||
१३० ख
सञ्जय़ उवाच:
पीत्वा च शोणितं हृष्टाः प्रानृत्यन्गणशोऽपरे |
१३१ क
सञ्जय़ उवाच:
इदं वरमिदं मेध्यमिदं स्वाद्विति चाव्रुवन् ||
१३१ ख
सञ्जय़ उवाच:
मेदोमज्जास्थिरक्तानां वसानां च भृशासिताः |
१३२ क
सञ्जय़ उवाच:
परमांसानि खादन्तः क्रव्यादा मांसजीविनः ||
१३२ ख
सञ्जय़ उवाच:
वसां चाप्यपरे पीत्वा पर्यधावन्विकुक्षिलाः |
१३३ क
सञ्जय़ उवाच:
नानावक्त्रास्तथा रौद्राः क्रव्यादाः पिशिताशिनः ||
१३३ ख
सञ्जय़ उवाच:
अय़ुतानि च तत्रासन्प्रय़ुतान्यर्वुदानि च |
१३४ क
सञ्जय़ उवाच:
रक्षसां घोररूपाणां महतां क्रूरकर्मणाम् ||
१३४ ख
सञ्जय़ उवाच:
मुदितानां वितृप्तानां तस्मिन्महति वैशसे |
१३५ क
सञ्जय़ उवाच:
समेतानि वहून्यासन्भूतानि च जनाधिप ||
१३५ ख
सञ्जय़ उवाच:
प्रत्यूषकाले शिविरात्प्रतिगन्तुमिय़ेष सः |
१३६ क
सञ्जय़ उवाच:
नृशोणितावसिक्तस्य द्रौणेरासीदसित्सरुः |
१३६ ख
सञ्जय़ उवाच:
पाणिना सह संश्लिष्ट एकीभूत इव प्रभो ||
१३६ ग
सञ्जय़ उवाच:
स निःशेषानरीन्कृत्वा विरराज जनक्षय़े |
१३७ क
सञ्जय़ उवाच:
युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः ||
१३७ ख
सञ्जय़ उवाच:
यथाप्रतिज्ञं तत्कर्म कृत्वा द्रौणाय़निः प्रभो |
१३८ क
सञ्जय़ उवाच:
दुर्गमां पदवीं कृत्वा पितुरासीद्गतज्वरः ||
१३८ ख
सञ्जय़ उवाच:
यथैव संसुप्तजने शिविरे प्राविशन्निशि |
१३९ क
सञ्जय़ उवाच:
तथैव हत्वा निःशव्दे निश्चक्राम नरर्षभः ||
१३९ ख
सञ्जय़ उवाच:
निष्क्रम्य शिविरात्तस्मात्ताभ्यां सङ्गम्य वीर्यवान् |
१४० क
सञ्जय़ उवाच:
आचख्यौ कर्म तत्सर्वं हृष्टः संहर्षय़न्विभो ||
१४० ख
सञ्जय़ उवाच:
तावप्याचख्यतुस्तस्मै प्रिय़ं प्रिय़करौ तदा |
१४१ क
सञ्जय़ उवाच:
पाञ्चालान्सृञ्जय़ांश्चैव विनिकृत्तान्सहस्रशः |
१४१ ख
सञ्जय़ उवाच:
प्रीत्या चोच्चैरुदक्रोशंस्तथैवास्फोटय़ंस्तलान् ||
१४१ ग
सञ्जय़ उवाच:
एवंविधा हि सा रात्रिः सोमकानां जनक्षय़े |
१४२ क
सञ्जय़ उवाच:
प्रसुप्तानां प्रमत्तानामासीत्सुभृशदारुणा ||
१४२ ख
सञ्जय़ उवाच:
असंशय़ं हि कालस्य पर्याय़ो दुरतिक्रमः |
१४३ क
सञ्जय़ उवाच:
तादृशा निहता यत्र कृत्वास्माकं जनक्षय़म् ||
१४३ ख
धृतराष्ट्र उवाच:
प्रागेव सुमहत्कर्म द्रौणिरेतन्महारथः |
१४४ क
धृतराष्ट्र उवाच:
नाकरोदीदृशं कस्मान्मत्पुत्रविजय़े धृतः ||
१४४ ख