धृतराष्ट्र उवाच:
अथ कस्माद्धते क्षत्रे कर्मेदं कृतवानसौ |
१४५ क
धृतराष्ट्र उवाच:
द्रोणपुत्रो महेष्वासस्तन्मे शंसितुमर्हसि ||
१४५ ख
सञ्जय़ उवाच:
तेषां नूनं भय़ान्नासौ कृतवान्कुरुनन्दन |
१४६ क
सञ्जय़ उवाच:
असांनिध्याद्धि पार्थानां केशवस्य च धीमतः ||
१४६ ख
सञ्जय़ उवाच:
सात्यकेश्चापि कर्मेदं द्रोणपुत्रेण साधितम् |
१४७ क
सञ्जय़ उवाच:
न हि तेषां समक्षं तान्हन्यादपि मरुत्पतिः ||
१४७ ख
सञ्जय़ उवाच:
एतदीदृशकं वृत्तं राजन्सुप्तजने विभो |
१४८ क
सञ्जय़ उवाच:
ततो जनक्षय़ं कृत्वा पाण्डवानां महात्ययम् |
१४८ ख
सञ्जय़ उवाच:
दिष्ट्या दिष्ट्येति चान्योन्यं समेत्योचुर्महारथाः ||
१४८ ग
सञ्जय़ उवाच:
पर्यष्वजत्ततो द्रौणिस्ताभ्यां च प्रतिनन्दितः |
१४९ क
सञ्जय़ उवाच:
इदं हर्षाच्च सुमहदाददे वाक्यमुत्तमम् ||
१४९ ख
सञ्जय़ उवाच:
पाञ्चाला निहताः सर्वे द्रौपदेय़ाश्च सर्वशः |
१५० क
सञ्जय़ उवाच:
सोमका मत्स्यशेषाश्च सर्वे विनिहता मय़ा ||
१५० ख
सञ्जय़ उवाच:
इदानीं कृतकृत्याः स्म याम तत्रैव माचिरम् |
१५१ क
सञ्जय़ उवाच:
यदि जीवति नो राजा तस्मै शंसामहे प्रिय़म् ||
१५१ ख