धृतराष्ट्र उवाच:
तथा प्रय़ाते शिविरं द्रोणपुत्रे महारथे |
१ क
धृतराष्ट्र उवाच:
कच्चित्कृपश्च भोजश्च भय़ार्तौ न न्यवर्तताम् ||
१ ख
धृतराष्ट्र उवाच:
कच्चिन्न वारितौ क्षुद्रै रक्षिभिर्नोपलक्षितौ |
२ क
धृतराष्ट्र उवाच:
असह्यमिति वा मत्वा न निवृत्तौ महारथौ ||
२ ख
धृतराष्ट्र उवाच:
कच्चित्प्रमथ्य शिविरं हत्वा सोमकपाण्डवान् |
३ क
धृतराष्ट्र उवाच:
दुर्योधनस्य पदवीं गतौ परमिकां रणे ||
३ ख
धृतराष्ट्र उवाच:
पाञ्चालैर्वा विनिहतौ कच्चिन्नास्वपतां क्षितौ |
४ क
धृतराष्ट्र उवाच:
कच्चित्ताभ्यां कृतं कर्म तन्ममाचक्ष्व सञ्जय़ ||
४ ख
सञ्जय़ उवाच:
तस्मिन्प्रय़ाते शिविरं द्रोणपुत्रे महात्मनि |
५ क
सञ्जय़ उवाच:
कृपश्च कृतवर्मा च शिविरद्वार्यतिष्ठताम् ||
५ ख
सञ्जय़ उवाच:
अश्वत्थामा तु तौ दृष्ट्वा यत्नवन्तौ महारथौ |
६ क
सञ्जय़ उवाच:
प्रहृष्टः शनकै राजन्निदं वचनमव्रवीत् ||
६ ख
सञ्जय़ उवाच:
यत्तौ भवन्तौ पर्याप्तौ सर्वक्षत्रस्य नाशने |
७ क
सञ्जय़ उवाच:
किं पुनर्योधशेषस्य प्रसुप्तस्य विशेषतः ||
७ ख
सञ्जय़ उवाच:
अहं प्रवेक्ष्ये शिविरं चरिष्यामि च कालवत् |
८ क
सञ्जय़ उवाच:
यथा न कश्चिदपि मे जीवन्मुच्येत मानवः ||
८ ख
सञ्जय़ उवाच:
इत्युक्त्वा प्राविशद्द्रौणिः पार्थानां शिविरं महत् |
९ क
सञ्जय़ उवाच:
अद्वारेणाभ्यवस्कन्द्य विहाय़ भय़मात्मनः ||
९ ख
सञ्जय़ उवाच:
स प्रविश्य महावाहुरुद्देशज्ञश्च तस्य ह |
१० क
सञ्जय़ उवाच:
धृष्टद्युम्नस्य निलय़ं शनकैरभ्युपागमत् ||
१० ख
सञ्जय़ उवाच:
ते तु कृत्वा महत्कर्म श्रान्ताश्च वलवद्रणे |
११ क
सञ्जय़ उवाच:
प्रसुप्ता वै सुविश्वस्ताः स्वसैन्यपरिवारिताः ||
११ ख
सञ्जय़ उवाच:
अथ प्रविश्य तद्वेश्म धृष्टद्युम्नस्य भारत |
१२ क
सञ्जय़ उवाच:
पाञ्चाल्यं शय़ने द्रौणिरपश्यत्सुप्तमन्तिकात् ||
१२ ख
सञ्जय़ उवाच:
क्षौमावदाते महति स्पर्ध्यास्तरणसंवृते |
१३ क
सञ्जय़ उवाच:
माल्यप्रवरसंय़ुक्ते धूपैश्चूर्णैश्च वासिते ||
१३ ख
सञ्जय़ उवाच:
तं शय़ानं महात्मानं विस्रव्धमकुतोभय़म् |
१४ क
सञ्जय़ उवाच:
प्रावोधय़त पादेन शय़नस्थं महीपते ||
१४ ख
सञ्जय़ उवाच:
स वुद्ध्वा चरणस्पर्शमुत्थाय़ रणदुर्मदः |
१५ क
सञ्जय़ उवाच:
अभ्यजानदमेय़ात्मा द्रोणपुत्रं महारथम् ||
१५ ख
सञ्जय़ उवाच:
तमुत्पतन्तं शय़नादश्वत्थामा महावलः |
१६ क
सञ्जय़ उवाच:
केशेष्वालम्व्य पाणिभ्यां निष्पिपेष महीतले ||
१६ ख
सञ्जय़ उवाच:
स वलात्तेन निष्पिष्टः साध्वसेन च भारत |
१७ क
सञ्जय़ उवाच:
निद्रय़ा चैव पाञ्चाल्यो नाशकच्चेष्टितुं तदा ||
१७ ख
सञ्जय़ उवाच:
तमाक्रम्य तदा राजन्कण्ठे चोरसि चोभय़ोः |
१८ क
सञ्जय़ उवाच:
नदन्तं विस्फुरन्तं च पशुमारममारय़त् ||
१८ ख
सञ्जय़ उवाच:
तुदन्नखैस्तु स द्रौणिं नातिव्यक्तमुदाहरत् |
१९ क
सञ्जय़ उवाच:
आचार्यपुत्र शस्त्रेण जहि मा मा चिरं कृथाः |
१९ ख
सञ्जय़ उवाच:
त्वत्कृते सुकृताँल्लोकान्गच्छेय़ं द्विपदां वर ||
१९ ग
सञ्जय़ उवाच:
तस्याव्यक्तां तु तां वाचं संश्रुत्य द्रौणिरव्रवीत् |
२० क
सञ्जय़ उवाच:
आचार्यघातिनां लोका न सन्ति कुलपांसन |
२० ख
सञ्जय़ उवाच:
तस्माच्छस्त्रेण निधनं न त्वमर्हसि दुर्मते ||
२० ग
सञ्जय़ उवाच:
एवं व्रुवाणस्तं वीरं सिंहो मत्तमिव द्विपम् |
२१ क
सञ्जय़ उवाच:
मर्मस्वभ्यवधीत्क्रुद्धः पादाष्ठीलैः सुदारुणैः ||
२१ ख
सञ्जय़ उवाच:
तस्य वीरस्य शव्देन मार्यमाणस्य वेश्मनि |
२२ क
सञ्जय़ उवाच:
अवुध्यन्त महाराज स्त्रिय़ो ये चास्य रक्षिणः ||
२२ ख
सञ्जय़ उवाच:
ते दृष्ट्वा वर्ष्मवन्तं तमतिमानुषविक्रमम् |
२३ क
सञ्जय़ उवाच:
भूतमेव व्यवस्यन्तो न स्म प्रव्याहरन्भय़ात् ||
२३ ख
सञ्जय़ उवाच:
तं तु तेनाभ्युपाय़ेन गमय़ित्वा यमक्षय़म् |
२४ क
सञ्जय़ उवाच:
अध्यतिष्ठत्स तेजस्वी रथं प्राप्य सुदर्शनम् ||
२४ ख
सञ्जय़ उवाच:
स तस्य भवनाद्राजन्निष्क्रम्यानादय़न्दिशः |
२५ क
सञ्जय़ उवाच:
रथेन शिविरं प्राय़ाज्जिघांसुर्द्विषतो वली ||
२५ ख
सञ्जय़ उवाच:
अपक्रान्ते ततस्तस्मिन्द्रोणपुत्रे महारथे |
२६ क
सञ्जय़ उवाच:
सह तै रक्षिभिः सर्वैः प्रणेदुर्योषितस्तदा ||
२६ ख
सञ्जय़ उवाच:
राजानं निहतं दृष्ट्वा भृशं शोकपराय़णाः |
२७ क
सञ्जय़ उवाच:
व्याक्रोशन्क्षत्रिय़ाः सर्वे धृष्टद्युम्नस्य भारत ||
२७ ख
सञ्जय़ उवाच:
तासां तु तेन शव्देन समीपे क्षत्रिय़र्षभाः |
२८ क
सञ्जय़ उवाच:
क्षिप्रं च समनह्यन्त किमेतदिति चाव्रुवन् ||
२८ ख
सञ्जय़ उवाच:
स्त्रिय़स्तु राजन्वित्रस्ता भारद्वाजं निरीक्ष्य तम् |
२९ क
सञ्जय़ उवाच:
अव्रुवन्दीनकण्ठेन क्षिप्रमाद्रवतेति वै ||
२९ ख
सञ्जय़ उवाच:
राक्षसो वा मनुष्यो वा नैनं जानीमहे वय़म् |
३० क
सञ्जय़ उवाच:
हत्वा पाञ्चालराजं यो रथमारुह्य तिष्ठति ||
३० ख
सञ्जय़ उवाच:
ततस्ते योधमुख्यास्तं सहसा पर्यवारय़न् |
३१ क
सञ्जय़ उवाच:
स तानापततः सर्वान्रुद्रास्त्रेण व्यपोथय़त् ||
३१ ख
सञ्जय़ उवाच:
धृष्टद्युम्नं च हत्वा स तांश्चैवास्य पदानुगान् |
३२ क
सञ्जय़ उवाच:
अपश्यच्छय़ने सुप्तमुत्तमौजसमन्तिके ||
३२ ख
सञ्जय़ उवाच:
तमप्याक्रम्य पादेन कण्ठे चोरसि चौजसा |
३३ क
सञ्जय़ उवाच:
तथैव मारय़ामास विनर्दन्तमरिन्दमम् ||
३३ ख
सञ्जय़ उवाच:
युधामन्युस्तु सम्प्राप्तो मत्त्वा तं रक्षसा हतम् |
३४ क
सञ्जय़ उवाच:
गदामुद्यम्य वेगेन हृदि द्रौणिमताडय़त् ||
३४ ख
सञ्जय़ उवाच:
तमभिद्रुत्य जग्राह क्षितौ चैनमपातय़त् |
३५ क
सञ्जय़ उवाच:
विस्फुरन्तं च पशुवत्तथैवैनममारय़त् ||
३५ ख
सञ्जय़ उवाच:
तथा स वीरो हत्वा तं ततोऽन्यान्समुपाद्रवत् |
३६ क
सञ्जय़ उवाच:
संसुप्तानेव राजेन्द्र तत्र तत्र महारथान् |
३६ ख
सञ्जय़ उवाच:
स्फुरतो वेपमानांश्च शमितेव पशून्मखे ||
३६ ग
सञ्जय़ उवाच:
ततो निस्त्रिंशमादाय़ जघानान्यान्पृथग्जनान् |
३७ क
सञ्जय़ उवाच:
भागशो विचरन्मार्गानसिय़ुद्धविशारदः ||
३७ ख
सञ्जय़ उवाच:
तथैव गुल्मे सम्प्रेक्ष्य शय़ानान्मध्यगौल्मिकान् |
३८ क
सञ्जय़ उवाच:
श्रान्तान्न्यस्ताय़ुधान्सर्वान्क्षणेनैव व्यपोथय़त् ||
३८ ख
सञ्जय़ उवाच:
योधानश्वान्द्विपांश्चैव प्राच्छिनत्स वरासिना |
३९ क
सञ्जय़ उवाच:
रुधिरोक्षितसर्वाङ्गः कालसृष्ट इवान्तकः ||
३९ ख
सञ्जय़ उवाच:
विस्फुरद्भिश्च तैर्द्रौणिर्निस्त्रिंशस्योद्यमेन च |
४० क
सञ्जय़ उवाच:
आक्षेपेण तथैवासेस्त्रिधा रक्तोक्षितोऽभवत् ||
४० ख
सञ्जय़ उवाच:
तस्य लोहितसिक्तस्य दीप्तखड्गस्य युध्यतः |
४१ क
सञ्जय़ उवाच:
अमानुष इवाकारो वभौ परमभीषणः ||
४१ ख
सञ्जय़ उवाच:
ये त्वजाग्रत कौरव्य तेऽपि शव्देन मोहिताः |
४२ क
सञ्जय़ उवाच:
निरीक्ष्यमाणा अन्योन्यं द्रौणिं दृष्ट्वा प्रविव्यथुः ||
४२ ख
सञ्जय़ उवाच:
तद्रूपं तस्य ते दृष्ट्वा क्षत्रिय़ाः शत्रुकर्शनाः |
४३ क
सञ्जय़ उवाच:
राक्षसं मन्यमानास्तं नय़नानि न्यमीलय़न् ||
४३ ख
सञ्जय़ उवाच:
स घोररूपो व्यचरत्कालवच्छिविरे ततः |
४४ क
सञ्जय़ उवाच:
अपश्यद्द्रौपदीपुत्रानवशिष्टांश्च सोमकान् ||
४४ ख
सञ्जय़ उवाच:
तेन शव्देन वित्रस्ता धनुर्हस्ता महारथाः |
४५ क
सञ्जय़ उवाच:
धृष्टद्युम्नं हतं श्रुत्वा द्रौपदेय़ा विशां पते |
४५ ख
सञ्जय़ उवाच:
अवाकिरञ्शरव्रातैर्भारद्वाजमभीतवत् ||
४५ ग
सञ्जय़ उवाच:
ततस्तेन निनादेन सम्प्रवुद्धाः प्रभद्रकाः |
४६ क
सञ्जय़ उवाच:
शिलीमुखैः शिखण्डी च द्रोणपुत्रं समार्दय़न् ||
४६ ख
सञ्जय़ उवाच:
भारद्वाजस्तु तान्दृष्ट्वा शरवर्षाणि वर्षतः |
४७ क
सञ्जय़ उवाच:
ननाद वलवन्नादं जिघांसुस्तान्सुदुर्जय़ान् ||
४७ ख
सञ्जय़ उवाच:
ततः परमसङ्क्रुद्धः पितुर्वधमनुस्मरन् |
४८ क
सञ्जय़ उवाच:
अवरुह्य रथोपस्थात्त्वरमाणोऽभिदुद्रुवे ||
४८ ख