chevron_left स्त्री पर्व अध्याय ८
वैशम्पाय़न उवाच:
विदुरस्य तु तद्वाक्यं निशम्य कुरुसत्तमः |
१ क
वैशम्पाय़न उवाच:
पुत्रशोकाभिसन्तप्तः पपात भुवि मूर्छितः ||
१ ख
वैशम्पाय़न उवाच:
तं तथा पतितं भूमौ निःसञ्ज्ञं प्रेक्ष्य वान्धवाः |
२ क
वैशम्पाय़न उवाच:
कृष्णद्वैपाय़नश्चैव क्षत्ता च विदुरस्तथा ||
२ ख
वैशम्पाय़न उवाच:
सञ्जय़ः सुहृदश्चान्ये द्वाःस्था ये चास्य संमताः |
३ क
वैशम्पाय़न उवाच:
जलेन सुखशीतेन तालवृन्तैश्च भारत ||
३ ख
वैशम्पाय़न उवाच:
पस्पृशुश्च करैर्गात्रं वीजमानाश्च यत्नतः |
४ क
वैशम्पाय़न उवाच:
अन्वासन्सुचिरं कालं धृतराष्ट्रं तथागतम् ||
४ ख
वैशम्पाय़न उवाच:
अथ दीर्घस्य कालस्य लव्धसञ्ज्ञो महीपतिः |
५ क
वैशम्पाय़न उवाच:
विललाप चिरं कालं पुत्राधिभिरभिप्लुतः ||
५ ख
वैशम्पाय़न उवाच:
धिगस्तु खलु मानुष्यं मानुष्ये च परिग्रहम् |
६ क
वैशम्पाय़न उवाच:
यतोमूलानि दुःखानि सम्भवन्ति मुहुर्मुहुः ||
६ ख
वैशम्पाय़न उवाच:
पुत्रनाशेऽर्थनाशे च ज्ञातिसम्वन्धिनामपि |
७ क
वैशम्पाय़न उवाच:
प्राप्यते सुमहद्दुःखं विषाग्निप्रतिमं विभो ||
७ ख
वैशम्पाय़न उवाच:
येन दह्यन्ति गात्राणि येन प्रज्ञा विनश्यति |
८ क
वैशम्पाय़न उवाच:
येनाभिभूतः पुरुषो मरणं वहु मन्यते ||
८ ख
वैशम्पाय़न उवाच:
तदिदं व्यसनं प्राप्तं मय़ा भाग्यविपर्ययात् |
९ क
वैशम्पाय़न उवाच:
तच्चैवाहं करिष्यामि अद्यैव द्विजसत्तम ||
९ ख
वैशम्पाय़न उवाच:
इत्युक्त्वा तु महात्मानं पितरं व्रह्मवित्तमम् |
१० क
वैशम्पाय़न उवाच:
धृतराष्ट्रोऽभवन्मूढः शोकं च परमं गतः |
१० ख
वैशम्पाय़न उवाच:
अभूच्च तूष्णीं राजासौ ध्याय़मानो महीपते ||
१० ग
वैशम्पाय़न उवाच:
तस्य तद्वचनं श्रुत्वा कृष्णद्वैपाय़नः प्रभुः |
११ क
वैशम्पाय़न उवाच:
पुत्रशोकाभिसन्तप्तं पुत्रं वचनमव्रवीत् ||
११ ख
वैशम्पाय़न उवाच:
धृतराष्ट्र महावाहो यत्त्वां वक्ष्यामि तच्छृणु |
१२ क
वैशम्पाय़न उवाच:
श्रुतवानसि मेधावी धर्मार्थकुशलस्तथा ||
१२ ख
वैशम्पाय़न उवाच:
न तेऽस्त्यविदितं किञ्चिद्वेदितव्यं परन्तप |
१३ क
वैशम्पाय़न उवाच:
अनित्यतां हि मर्त्यानां विजानासि न संशय़ः ||
१३ ख
वैशम्पाय़न उवाच:
अध्रुवे जीवलोके च स्थाने वाशाश्वते सति |
१४ क
वैशम्पाय़न उवाच:
जीविते मरणान्ते च कस्माच्छोचसि भारत ||
१४ ख
वैशम्पाय़न उवाच:
प्रत्यक्षं तव राजेन्द्र वैरस्यास्य समुद्भवः |
१५ क
वैशम्पाय़न उवाच:
पुत्रं ते कारणं कृत्वा कालय़ोगेन कारितः ||
१५ ख
वैशम्पाय़न उवाच:
अवश्यं भवितव्ये च कुरूणां वैशसे नृप |
१६ क
वैशम्पाय़न उवाच:
कस्माच्छोचसि ताञ्शूरान्गतान्परमिकां गतिम् ||
१६ ख
वैशम्पाय़न उवाच:
जानता च महावाहो विदुरेण महात्मना |
१७ क
वैशम्पाय़न उवाच:
यतितं सर्वय़त्नेन शमं प्रति जनेश्वर ||
१७ ख
वैशम्पाय़न उवाच:
न च दैवकृतो मार्गः शक्यो भूतेन केनचित् |
१८ क
वैशम्पाय़न उवाच:
घटतापि चिरं कालं निय़न्तुमिति मे मतिः ||
१८ ख
वैशम्पाय़न उवाच:
देवतानां हि यत्कार्यं मय़ा प्रत्यक्षतः श्रुतम् |
१९ क
वैशम्पाय़न उवाच:
तत्तेऽहं सम्प्रवक्ष्यामि कथं स्थैर्यं भवेत्तव ||
१९ ख
वैशम्पाय़न उवाच:
पुराहं त्वरितो यातः सभामैन्द्रीं जितक्लमः |
२० क
वैशम्पाय़न उवाच:
अपश्यं तत्र च तदा समवेतान्दिवौकसः |
२० ख
वैशम्पाय़न उवाच:
नारदप्रमुखांश्चापि सर्वान्देवऋषींस्तथा ||
२० ग
वैशम्पाय़न उवाच:
तत्र चापि मय़ा दृष्टा पृथिवी पृथिवीपते |
२१ क
वैशम्पाय़न उवाच:
कार्यार्थमुपसम्प्राप्ता देवतानां समीपतः ||
२१ ख
वैशम्पाय़न उवाच:
उपगम्य तदा धात्री देवानाह समागतान् |
२२ क
वैशम्पाय़न उवाच:
यत्कार्यं मम युष्माभिर्व्रह्मणः सदने तदा |
२२ ख
वैशम्पाय़न उवाच:
प्रतिज्ञातं महाभागास्तच्छीघ्रं संविधीय़ताम् ||
२२ ग
वैशम्पाय़न उवाच:
तस्यास्तद्वचनं श्रुत्वा विष्णुर्लोकनमस्कृतः |
२३ क
वैशम्पाय़न उवाच:
उवाच प्रहसन्वाक्यं पृथिवीं देवसंसदि ||
२३ ख
वैशम्पाय़न उवाच:
धृतराष्ट्रस्य पुत्राणां यस्तु ज्येष्ठः शतस्य वै |
२४ क
वैशम्पाय़न उवाच:
दुर्योधन इति ख्यातः स ते कार्यं करिष्यति |
२४ ख
वैशम्पाय़न उवाच:
तं च प्राप्य महीपालं कृतकृत्या भविष्यसि ||
२४ ग
वैशम्पाय़न उवाच:
तस्यार्थे पृथिवीपालाः कुरुक्षेत्रे समागताः |
२५ क
वैशम्पाय़न उवाच:
अन्योन्यं घातय़िष्यन्ति दृढैः शस्त्रैः प्रहारिणः ||
२५ ख
वैशम्पाय़न उवाच:
ततस्ते भविता देवि भारस्य युधि नाशनम् |
२६ क
वैशम्पाय़न उवाच:
गच्छ शीघ्रं स्वकं स्थानं लोकान्धारय़ शोभने ||
२६ ख
वैशम्पाय़न उवाच:
स एष ते सुतो राजँल्लोकसंहारकारणात् |
२७ क
वैशम्पाय़न उवाच:
कलेरंशः समुत्पन्नो गान्धार्या जठरे नृप ||
२७ ख
वैशम्पाय़न उवाच:
अमर्षी चपलश्चापि क्रोधनो दुष्प्रसाधनः |
२८ क
वैशम्पाय़न उवाच:
दैवय़ोगात्समुत्पन्ना भ्रातरश्चास्य तादृशाः ||
२८ ख
वैशम्पाय़न उवाच:
शकुनिर्मातुलश्चैव कर्णश्च परमः सखा |
२९ क
वैशम्पाय़न उवाच:
समुत्पन्ना विनाशार्थं पृथिव्यां सहिता नृपाः |
२९ ख
वैशम्पाय़न उवाच:
एतमर्थं महावाहो नारदो वेद तत्त्वतः ||
२९ ग
वैशम्पाय़न उवाच:
आत्मापराधात्पुत्रास्ते विनष्टाः पृथिवीपते |
३० क
वैशम्पाय़न उवाच:
मा ताञ्शोचस्व राजेन्द्र न हि शोकेऽस्ति कारणम् ||
३० ख
वैशम्पाय़न उवाच:
न हि ते पाण्डवाः स्वल्पमपराध्यन्ति भारत |
३१ क
वैशम्पाय़न उवाच:
पुत्रास्तव दुरात्मानो यैरिय़ं घातिता मही ||
३१ ख
वैशम्पाय़न उवाच:
नारदेन च भद्रं ते पूर्वमेव न संशय़ः |
३२ क
वैशम्पाय़न उवाच:
युधिष्ठिरस्य समितौ राजसूय़े निवेदितम् ||
३२ ख
वैशम्पाय़न उवाच:
पाण्डवाः कौरवाश्चैव समासाद्य परस्परम् |
३३ क
वैशम्पाय़न उवाच:
न भविष्यन्ति कौन्तेय़ यत्ते कृत्यं तदाचर ||
३३ ख
वैशम्पाय़न उवाच:
नारदस्य वचः श्रुत्वा तदाशोचन्त पाण्डवाः |
३४ क
वैशम्पाय़न उवाच:
एतत्ते सर्वमाख्यातं देवगुह्यं सनातनम् ||
३४ ख
वैशम्पाय़न उवाच:
कथं ते शोकनाशः स्यात्प्राणेषु च दय़ा प्रभो |
३५ क
वैशम्पाय़न उवाच:
स्नेहश्च पाण्डुपुत्रेषु ज्ञात्वा दैवकृतं विधिम् ||
३५ ख
वैशम्पाय़न उवाच:
एष चार्थो महावाहो पूर्वमेव मय़ा श्रुतः |
३६ क
वैशम्पाय़न उवाच:
कथितो धर्मराजस्य राजसूय़े क्रतूत्तमे ||
३६ ख
वैशम्पाय़न उवाच:
यतितं धर्मपुत्रेण मय़ा गुह्ये निवेदिते |
३७ क
वैशम्पाय़न उवाच:
अविग्रहे कौरवाणां दैवं तु वलवत्तरम् ||
३७ ख
वैशम्पाय़न उवाच:
अनतिक्रमणीय़ो हि विधी राजन्कथञ्चन |
३८ क
वैशम्पाय़न उवाच:
कृतान्तस्य हि भूतेन स्थावरेण त्रसेन च ||
३८ ख
वैशम्पाय़न उवाच:
भवान्कर्मपरो यत्र वुद्धिश्रेष्ठश्च भारत |
३९ क
वैशम्पाय़न उवाच:
मुह्यते प्राणिनां ज्ञात्वा गतिं चागतिमेव च ||
३९ ख
वैशम्पाय़न उवाच:
त्वां तु शोकेन सन्तप्तं मुह्यमानं मुहुर्मुहुः |
४० क
वैशम्पाय़न उवाच:
ज्ञात्वा युधिष्ठिरो राजा प्राणानपि परित्यजेत् ||
४० ख
वैशम्पाय़न उवाच:
कृपालुर्नित्यशो वीरस्तिर्यग्योनिगतेष्वपि |
४१ क
वैशम्पाय़न उवाच:
स कथं त्वय़ि राजेन्द्र कृपां वै न करिष्यति ||
४१ ख
वैशम्पाय़न उवाच:
मम चैव निय़ोगेन विधेश्चाप्यनिवर्तनात् |
४२ क
वैशम्पाय़न उवाच:
पाण्डवानां च कारुण्यात्प्राणान्धारय़ भारत ||
४२ ख
वैशम्पाय़न उवाच:
एवं ते वर्तमानस्य लोके कीर्तिर्भविष्यति |
४३ क
वैशम्पाय़न उवाच:
धर्मश्च सुमहांस्तात तप्तं स्याच्च तपश्चिरात् ||
४३ ख
वैशम्पाय़न उवाच:
पुत्रशोकसमुत्पन्नं हुताशं ज्वलितं यथा |
४४ क
वैशम्पाय़न उवाच:
प्रज्ञाम्भसा महाराज निर्वापय़ सदा सदा ||
४४ ख
वैशम्पाय़न उवाच:
एतच्छ्रुत्वा तु वचनं व्यासस्यामिततेजसः |
४५ क
वैशम्पाय़न उवाच:
मुहूर्तं समनुध्याय़ धृतराष्ट्रोऽभ्यभाषत ||
४५ ख
वैशम्पाय़न उवाच:
महता शोकजालेन प्रणुन्नोऽस्मि द्विजोत्तम |
४६ क
वैशम्पाय़न उवाच:
नात्मानमववुध्यामि मुह्यमानो मुहुर्मुहुः ||
४६ ख
वैशम्पाय़न उवाच:
इदं तु वचनं श्रुत्वा तव दैवनिय़ोगजम् |
४७ क
वैशम्पाय़न उवाच:
धारय़िष्याम्यहं प्राणान्यतिष्ये च नशोचितुम् ||
४७ ख
वैशम्पाय़न उवाच:
एतच्छ्रुत्वा तु वचनं व्यासः सत्यवतीसुतः |
४८ क