वैशम्पाय़न उवाच:
अथार्जुन उवाचेदमधिक्षिप्त इवाक्षमी |
१ क
वैशम्पाय़न उवाच:
अभिनीततरं वाक्यं दृढवादपराक्रमः ||
१ ख
वैशम्पाय़न उवाच:
दर्शय़न्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः |
२ क
वैशम्पाय़न उवाच:
स्मय़मानो महातेजाः सृक्किणी संलिहन्मुहुः ||
२ ख
वैशम्पाय़न उवाच:
अहो दुःखमहो कृच्छ्रमहो वैक्लव्यमुत्तमम् |
३ क
वैशम्पाय़न उवाच:
यत्कृत्वामानुषं कर्म त्यजेथाः श्रिय़मुत्तमाम् ||
३ ख
वैशम्पाय़न उवाच:
शत्रून्हत्वा महीं लव्ध्वा स्वधर्मेणोपपादिताम् |
४ क
वैशम्पाय़न उवाच:
हतामित्रः कथं सर्वं त्यजेथा वुद्धिलाघवात् ||
४ ख
वैशम्पाय़न उवाच:
क्लीवस्य हि कुतो राज्यं दीर्घसूत्रस्य वा पुनः |
५ क
वैशम्पाय़न उवाच:
किमर्थं च महीपालानवधीः क्रोधमूर्छितः ||
५ ख
वैशम्पाय़न उवाच:
यो ह्याजिजीविषेद्भैक्ष्यं कर्मणा नैव केनचित् |
६ क
वैशम्पाय़न उवाच:
समारम्भान्वुभूषेत हतस्वस्तिरकिञ्चनः |
६ ख
वैशम्पाय़न उवाच:
सर्वलोकेषु विख्यातो न पुत्रपशुसंहितः ||
६ ग
वैशम्पाय़न उवाच:
कापालीं नृप पापिष्ठां वृत्तिमास्थाय़ जीवतः |
७ क
वैशम्पाय़न उवाच:
सन्त्यज्य राज्यमृद्धं ते लोकोऽय़ं किं वदिष्यति ||
७ ख
वैशम्पाय़न उवाच:
सर्वारम्भान्समुत्सृज्य हतस्वस्तिरकिञ्चनः |
८ क
वैशम्पाय़न उवाच:
कस्मादाशंससे भैक्ष्यं चर्तुं प्राकृतवत्प्रभो ||
८ ख
वैशम्पाय़न उवाच:
अस्मिन्राजकुले जातो जित्वा कृत्स्नां वसुन्धराम् |
९ क
वैशम्पाय़न उवाच:
धर्मार्थावखिलौ हित्वा वनं मौढ्यात्प्रतिष्ठसे ||
९ ख
वैशम्पाय़न उवाच:
यदीमानि हवींषीह विमथिष्यन्त्यसाधवः |
१० क
वैशम्पाय़न उवाच:
भवता विप्रहीणानि प्राप्तं त्वामेव किल्विषम् ||
१० ख
वैशम्पाय़न उवाच:
आकिञ्चन्यमनाशास्यमिति वै नहुषोऽव्रवीत् |
११ क
वैशम्पाय़न उवाच:
कृत्या नृशंसा ह्यधने धिगस्त्वधनतामिह ||
११ ख
वैशम्पाय़न उवाच:
अश्वस्तनमृषीणां हि विद्यते वेद तद्भवान् |
१२ क
वैशम्पाय़न उवाच:
यं त्विमं धर्ममित्याहुर्धनादेष प्रवर्तते ||
१२ ख
वैशम्पाय़न उवाच:
धर्मं संहरते तस्य धनं हरति यस्य यः |
१३ क
वैशम्पाय़न उवाच:
ह्रिय़माणे धने राजन्वय़ं कस्य क्षमेमहि ||
१३ ख
वैशम्पाय़न उवाच:
अभिशस्तवत्प्रपश्यन्ति दरिद्रं पार्श्वतः स्थितम् |
१४ क
वैशम्पाय़न उवाच:
दारिद्र्यं पातकं लोके कस्तच्छंसितुमर्हति ||
१४ ख
वैशम्पाय़न उवाच:
पतितः शोच्यते राजन्निर्धनश्चापि शोच्यते |
१५ क
वैशम्पाय़न उवाच:
विशेषं नाधिगच्छामि पतितस्याधनस्य च ||
१५ ख
वैशम्पाय़न उवाच:
अर्थेभ्यो हि विवृद्धेभ्यः सम्भृतेभ्यस्ततस्ततः |
१६ क
वैशम्पाय़न उवाच:
क्रिय़ाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ||
१६ ख
वैशम्पाय़न उवाच:
अर्धाद्धर्मश्च कामश्च स्वर्गश्चैव नराधिप |
१७ क
वैशम्पाय़न उवाच:
प्राणय़ात्रा हि लोकस्य विनार्थं न प्रसिध्यति ||
१७ ख
वैशम्पाय़न उवाच:
अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः |
१८ क
वैशम्पाय़न उवाच:
व्युच्छिद्यन्ते क्रिय़ाः सर्वा ग्रीष्मे कुसरितो यथा ||
१८ ख
वैशम्पाय़न उवाच:
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य वान्धवाः |
१९ क
वैशम्पाय़न उवाच:
यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः ||
१९ ख
वैशम्पाय़न उवाच:
अधनेनार्थकामेन नार्थः शक्यो विवित्सता |
२० क
वैशम्पाय़न उवाच:
अर्थैरर्था निवध्यन्ते गजैरिव महागजाः ||
२० ख
वैशम्पाय़न उवाच:
धर्मः कामश्च स्वर्गश्च हर्षः क्रोधः श्रुतं दमः |
२१ क
वैशम्पाय़न उवाच:
अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ||
२१ ख
वैशम्पाय़न उवाच:
धनात्कुलं प्रभवति धनाद्धर्मः प्रवर्तते |
२२ क
वैशम्पाय़न उवाच:
नाधनस्यास्त्ययं लोको न परः पुरुषोत्तम ||
२२ ख
वैशम्पाय़न उवाच:
नाधनो धर्मकृत्यानि यथावदनुतिष्ठति |
२३ क
वैशम्पाय़न उवाच:
धनाद्धि धर्मः स्रवति शैलाद्गिरिनदी यथा ||
२३ ख
वैशम्पाय़न उवाच:
यः कृशाश्वः कृशगवः कृशभृत्यः कृशातिथिः |
२४ क
वैशम्पाय़न उवाच:
स वै राजन्कृशो नाम न शरीरकृशः कृशः ||
२४ ख
वैशम्पाय़न उवाच:
अवेक्षस्व यथान्याय़ं पश्य देवासुरं यथा |
२५ क
वैशम्पाय़न उवाच:
राजन्किमन्यज्ज्ञातीनां वधादृध्यन्ति देवताः ||
२५ ख
वैशम्पाय़न उवाच:
न चेद्धर्तव्यमन्यस्य कथं तद्धर्ममारभेत् |
२६ क
वैशम्पाय़न उवाच:
एतावानेव वेदेषु निश्चय़ः कविभिः कृतः ||
२६ ख
वैशम्पाय़न उवाच:
अध्येतव्या त्रय़ी विद्या भवितव्यं विपश्चिता |
२७ क
वैशम्पाय़न उवाच:
सर्वथा धनमाहार्यं यष्टव्यं चापि यत्नतः ||
२७ ख
वैशम्पाय़न उवाच:
द्रोहाद्देवैरवाप्तानि दिवि स्थानानि सर्वशः |
२८ क
वैशम्पाय़न उवाच:
इति देवा व्यवसिता वेदवादाश्च शाश्वताः ||
२८ ख
वैशम्पाय़न उवाच:
अधीय़न्ते तपस्यन्ति यजन्ते याजय़न्ति च |
२९ क
वैशम्पाय़न उवाच:
कृत्स्नं तदेव च श्रेय़ो यदप्याददतेऽन्यतः ||
२९ ख
वैशम्पाय़न उवाच:
न पश्यामोऽनपहृतं धनं किञ्चित्क्वचिद्वय़म् |
३० क
वैशम्पाय़न उवाच:
एवमेव हि राजानो जय़न्ति पृथिवीमिमाम् ||
३० ख
वैशम्पाय़न उवाच:
जित्वा ममत्वं व्रुवते पुत्रा इव पितुर्धने |
३१ क
वैशम्पाय़न उवाच:
राजर्षय़ो जितस्वर्गा धर्मो ह्येषां निगद्यते ||
३१ ख
वैशम्पाय़न उवाच:
यथैव पूर्णादुदधेः स्यन्दन्त्यापो दिशो दश |
३२ क
वैशम्पाय़न उवाच:
एवं राजकुलाद्वित्तं पृथिवीं प्रतितिष्ठति ||
३२ ख
वैशम्पाय़न उवाच:
आसीदिय़ं दिलीपस्य नृगस्य नहुषस्य च |
३३ क
वैशम्पाय़न उवाच:
अम्वरीषस्य मान्धातुः पृथिवी सा त्वय़ि स्थिता ||
३३ ख
वैशम्पाय़न उवाच:
स त्वां द्रव्यमय़ो यज्ञः सम्प्राप्तः सर्वदक्षिणः |
३४ क
वैशम्पाय़न उवाच:
तं चेन्न यजसे राजन्प्राप्तस्त्वं देवकिल्विषम् ||
३४ ख
वैशम्पाय़न उवाच:
येषां राजाश्वमेधेन यजते दक्षिणावता |
३५ क
वैशम्पाय़न उवाच:
उपेत्य तस्यावभृथं पूताः सर्वे भवन्ति ते ||
३५ ख
वैशम्पाय़न उवाच:
विश्वरूपो महादेवः सर्वमेधे महामखे |
३६ क
वैशम्पाय़न उवाच:
जुहाव सर्वभूतानि तथैवात्मानमात्मना ||
३६ ख
वैशम्पाय़न उवाच:
शाश्वतोऽय़ं भूतिपथो नास्यान्तमनुशुश्रुम |
३७ क
वैशम्पाय़न उवाच:
महान्दाशरथः पन्था मा राजन्कापथं गमः ||
३७ ख