chevron_left आश्रमवासिक पर्व अध्याय ८
व्यास उवाच:
युधिष्ठिर महावाहो यदाह कुरुनन्दनः |
१ क
व्यास उवाच:
धृतराष्ट्रो महात्मा त्वां तत्कुरुष्वाविचारय़न् ||
१ ख
व्यास उवाच:
अय़ं हि वृद्धो नृपतिर्हतपुत्रो विशेषतः |
२ क
व्यास उवाच:
नेदं कृच्छ्रं चिरतरं सहेदिति मतिर्मम ||
२ ख
व्यास उवाच:
गान्धारी च महाभागा प्राज्ञा करुणवेदिनी |
३ क
व्यास उवाच:
पुत्रशोकं महाराज धैर्येणोद्वहते भृशम् ||
३ ख
व्यास उवाच:
अहमप्येतदेव त्वां व्रवीमि कुरु मे वचः |
४ क
व्यास उवाच:
अनुज्ञां लभतां राजा मा वृथेह मरिष्यति ||
४ ख
व्यास उवाच:
राजर्षीणां पुराणानामनुय़ातु गतिं नृपः |
५ क
व्यास उवाच:
राजर्षीणां हि सर्वेषामन्ते वनमुपाश्रय़ः ||
५ ख
वैशम्पाय़न उवाच:
इत्युक्तः स तदा राजा व्यासेनाद्भुतकर्मणा |
६ क
वैशम्पाय़न उवाच:
प्रत्युवाच महातेजा धर्मराजो युधिष्ठिरः ||
६ ख
वैशम्पाय़न उवाच:
भगवानेव नो मान्यो भगवानेव नो गुरुः |
७ क
वैशम्पाय़न उवाच:
भगवानस्य राज्यस्य कुलस्य च पराय़णम् ||
७ ख
वैशम्पाय़न उवाच:
अहं तु पुत्रो भगवान्पिता राजा गुरुश्च मे |
८ क
वैशम्पाय़न उवाच:
निदेशवर्ती च पितुः पुत्रो भवति धर्मतः ||
८ ख
वैशम्पाय़न उवाच:
इत्युक्तः स तु तं प्राह व्यासो धर्मभृतां वरः |
९ क
वैशम्पाय़न उवाच:
युधिष्ठिरं महातेजाः पुनरेव विशां पते ||
९ ख
वैशम्पाय़न उवाच:
एवमेतन्महावाहो यथा वदसि भारत |
१० क
वैशम्पाय़न उवाच:
राजाय़ं वृद्धतां प्राप्तः प्रमाणे परमे स्थितः ||
१० ख
वैशम्पाय़न उवाच:
सोऽय़ं मय़ाभ्यनुज्ञातस्त्वय़ा च पृथिवीपते |
११ क
वैशम्पाय़न उवाच:
करोतु स्वमभिप्राय़ं मास्य विघ्नकरो भव ||
११ ख
वैशम्पाय़न उवाच:
एष एव परो धर्मो राजर्षीणां युधिष्ठिर |
१२ क
वैशम्पाय़न उवाच:
समरे वा भवेन्मृत्युर्वने वा विधिपूर्वकम् ||
१२ ख
वैशम्पाय़न उवाच:
पित्रा तु तव राजेन्द्र पाण्डुना पृथिवीक्षिता |
१३ क
वैशम्पाय़न उवाच:
शिष्यभूतेन राजाय़ं गुरुवत्पर्युपासितः ||
१३ ख
वैशम्पाय़न उवाच:
क्रतुभिर्दक्षिणावद्भिरन्नपर्वतशोभितैः |
१४ क
वैशम्पाय़न उवाच:
महद्भिरिष्टं भोगाश्च भुक्ताः पुत्राश्च पालिताः ||
१४ ख
वैशम्पाय़न उवाच:
पुत्रसंस्थं च विपुलं राज्यं विप्रोषिते त्वय़ि |
१५ क
वैशम्पाय़न उवाच:
त्रय़ोदशसमा भुक्तं दत्तं च विविधं वसु ||
१५ ख
वैशम्पाय़न उवाच:
त्वय़ा चाय़ं नरव्याघ्र गुरुशुश्रूषय़ा नृपः |
१६ क
वैशम्पाय़न उवाच:
आराधितः सभृत्येन गान्धारी च यशस्विनी ||
१६ ख
वैशम्पाय़न उवाच:
अनुजानीहि पितरं समय़ोऽस्य तपोविधौ |
१७ क
वैशम्पाय़न उवाच:
न मन्युर्विद्यते चास्य सुसूक्ष्मोऽपि युधिष्ठिर ||
१७ ख
वैशम्पाय़न उवाच:
एतावदुक्त्वा वचनमनुज्ञाप्य च पार्थिवम् |
१८ क
वैशम्पाय़न उवाच:
तथास्त्विति च तेनोक्तः कौन्तेय़ेन यय़ौ वनम् ||
१८ ख
वैशम्पाय़न उवाच:
गते भगवति व्यासे राजा पाण्डुसुतस्ततः |
१९ क
वैशम्पाय़न उवाच:
प्रोवाच पितरं वृद्धं मन्दं मन्दमिवानतः ||
१९ ख
वैशम्पाय़न उवाच:
यदाह भगवान्व्यासो यच्चापि भवतो मतम् |
२० क
वैशम्पाय़न उवाच:
यदाह च महेष्वासः कृपो विदुर एव च ||
२० ख
वैशम्पाय़न उवाच:
युय़ुत्सुः सञ्जय़श्चैव तत्कर्तास्म्यहमञ्जसा |
२१ क
वैशम्पाय़न उवाच:
सर्वे ह्येतेऽनुमान्या मे कुलस्यास्य हितैषिणः ||
२१ ख
वैशम्पाय़न उवाच:
इदं तु याचे नृपते त्वामहं शिरसा नतः |
२२ क
वैशम्पाय़न उवाच:
क्रिय़तां तावदाहारस्ततो गच्छाश्रमं प्रति ||
२२ ख