chevron_left मौसल पर्व अध्याय ८
वैशम्पाय़न उवाच:
एवमुक्तः स वीभत्सुर्मातुलेन परन्तपः |
१ क
वैशम्पाय़न उवाच:
दुर्मना दीनमनसं वसुदेवमुवाच ह ||
१ ख
वैशम्पाय़न उवाच:
नाहं वृष्णिप्रवीरेण मधुभिश्चैव मातुल |
२ क
वैशम्पाय़न उवाच:
विहीनां पृथिवीं द्रष्टुं शक्तश्चिरमिह प्रभो ||
२ ख
वैशम्पाय़न उवाच:
राजा च भीमसेनश्च सहदेवश्च पाण्डवः |
३ क
वैशम्पाय़न उवाच:
नकुलो याज्ञसेनी च षडेकमनसो वय़म् ||
३ ख
वैशम्पाय़न उवाच:
राज्ञः सङ्क्रमणे चापि कालोऽय़ं वर्तते ध्रुवम् |
४ क
वैशम्पाय़न उवाच:
तमिमं विद्धि सम्प्राप्तं कालं कालविदां वर ||
४ ख
वैशम्पाय़न उवाच:
सर्वथा वृष्णिदारांस्तु वालवृद्धांस्तथैव च |
५ क
वैशम्पाय़न उवाच:
नय़िष्ये परिगृह्याहमिन्द्रप्रस्थमरिन्दम ||
५ ख
वैशम्पाय़न उवाच:
इत्युक्त्वा दारुकमिदं वाक्यमाह धनञ्जय़ः |
६ क
वैशम्पाय़न उवाच:
अमात्यान्वृष्णिवीराणां द्रष्टुमिच्छामि माचिरम् ||
६ ख
वैशम्पाय़न उवाच:
इत्येवमुक्त्वा वचनं सुधर्मां यादवीं सभाम् |
७ क
वैशम्पाय़न उवाच:
प्रविवेशार्जुनः शूरः शोचमानो महारथान् ||
७ ख
वैशम्पाय़न उवाच:
तमासनगतं तत्र सर्वाः प्रकृतय़स्तथा |
८ क
वैशम्पाय़न उवाच:
व्राह्मणा नैगमाश्चैव परिवार्योपतस्थिरे ||
८ ख
वैशम्पाय़न उवाच:
तान्दीनमनसः सर्वान्निभृतान्गतचेतसः |
९ क
वैशम्पाय़न उवाच:
उवाचेदं वचः पार्थः स्वय़ं दीनतरस्तदा ||
९ ख
वैशम्पाय़न उवाच:
शक्रप्रस्थमहं नेष्ये वृष्ण्यन्धकजनं स्वय़म् |
१० क
वैशम्पाय़न उवाच:
इदं तु नगरं सर्वं समुद्रः प्लावय़िष्यति ||
१० ख
वैशम्पाय़न उवाच:
सज्जीकुरुत यानानि रत्नानि विविधानि च |
११ क
वैशम्पाय़न उवाच:
वज्रोऽय़ं भवतां राजा शक्रप्रस्थे भविष्यति ||
११ ख
वैशम्पाय़न उवाच:
सप्तमे दिवसे चैव रवौ विमल उद्गते |
१२ क
वैशम्पाय़न उवाच:
वहिर्वत्स्यामहे सर्वे सज्जीभवत माचिरम् ||
१२ ख
वैशम्पाय़न उवाच:
इत्युक्तास्तेन ते पौराः पार्थेनाक्लिष्टकर्मणा |
१३ क
वैशम्पाय़न उवाच:
सज्जमाशु ततश्चक्रुः स्वसिद्ध्यर्थं समुत्सुकाः ||
१३ ख
वैशम्पाय़न उवाच:
तां रात्रिमवसत्पार्थः केशवस्य निवेशने |
१४ क
वैशम्पाय़न उवाच:
महता शोकमोहेन सहसाभिपरिप्लुतः ||
१४ ख
वैशम्पाय़न उवाच:
श्वोभूतेऽथ ततः शौरिर्वसुदेवः प्रतापवान् |
१५ क
वैशम्पाय़न उवाच:
युक्त्वात्मानं महातेजा जगाम गतिमुत्तमाम् ||
१५ ख
वैशम्पाय़न उवाच:
ततः शव्दो महानासीद्वसुदेवस्य वेश्मनि |
१६ क
वैशम्पाय़न उवाच:
दारुणः क्रोशतीनां च रुदतीनां च योषिताम् ||
१६ ख
वैशम्पाय़न उवाच:
प्रकीर्णमूर्धजाः सर्वा विमुक्ताभरणस्रजः |
१७ क
वैशम्पाय़न उवाच:
उरांसि पाणिभिर्घ्नन्त्यो व्यलपन्करुणं स्त्रिय़ः ||
१७ ख
वैशम्पाय़न उवाच:
तं देवकी च भद्रा च रोहिणी मदिरा तथा |
१८ क
वैशम्पाय़न उवाच:
अन्वारोढुं व्यवसिता भर्तारं योषितां वराः ||
१८ ख
वैशम्पाय़न उवाच:
ततः शौरिं नृय़ुक्तेन वहुमाल्येन भारत |
१९ क
वैशम्पाय़न उवाच:
यानेन महता पार्थो वहिर्निष्क्रामय़त्तदा ||
१९ ख
वैशम्पाय़न उवाच:
तमन्वय़ुस्तत्र तत्र दुःखशोकसमाहताः |
२० क
वैशम्पाय़न उवाच:
द्वारकावासिनः पौराः सर्व एव नरर्षभ ||
२० ख
वैशम्पाय़न उवाच:
तस्याश्वमेधिकं छत्रं दीप्यमानाश्च पावकाः |
२१ क
वैशम्पाय़न उवाच:
पुरस्तात्तस्य यानस्य याजकाश्च ततो यय़ुः ||
२१ ख
वैशम्पाय़न उवाच:
अनुजग्मुश्च तं वीरं देव्यस्ता वै स्वलङ्कृताः |
२२ क
वैशम्पाय़न उवाच:
स्त्रीसहस्रैः परिवृता वधूभिश्च सहस्रशः ||
२२ ख
वैशम्पाय़न उवाच:
यस्तु देशः प्रिय़स्तस्य जीवतोऽभून्महात्मनः |
२३ क
वैशम्पाय़न उवाच:
तत्रैनमुपसङ्कल्प्य पितृमेधं प्रचक्रिरे ||
२३ ख
वैशम्पाय़न उवाच:
तं चिताग्निगतं वीरं शूरपुत्रं वराङ्गनाः |
२४ क
वैशम्पाय़न उवाच:
ततोऽन्वारुरुहुः पत्न्यश्चतस्रः पतिलोकगाः ||
२४ ख
वैशम्पाय़न उवाच:
तं वै चतसृभिः स्त्रीभिरन्वितं पाण्डुनन्दनः |
२५ क
वैशम्पाय़न उवाच:
अदाहय़च्चन्दनैश्च गन्धैरुच्चावचैरपि ||
२५ ख
वैशम्पाय़न उवाच:
ततः प्रादुरभूच्छव्दः समिद्धस्य विभावसोः |
२६ क
वैशम्पाय़न उवाच:
सामगानां च निर्घोषो नराणां रुदतामपि ||
२६ ख
वैशम्पाय़न उवाच:
ततो वज्रप्रधानास्ते वृष्णिवीरकुमारकाः |
२७ क
वैशम्पाय़न उवाच:
सर्व एवोदकं चक्रुः स्त्रिय़श्चैव महात्मनः ||
२७ ख
वैशम्पाय़न उवाच:
अलुप्तधर्मस्तं धर्मं कारय़ित्वा स फल्गुनः |
२८ क
वैशम्पाय़न उवाच:
जगाम वृष्णय़ो यत्र विनष्टा भरतर्षभ ||
२८ ख
वैशम्पाय़न उवाच:
स तान्दृष्ट्वा निपतितान्कदने भृशदुःखितः |
२९ क
वैशम्पाय़न उवाच:
वभूवातीव कौरव्यः प्राप्तकालं चकार च ||
२९ ख
वैशम्पाय़न उवाच:
यथाप्रधानतश्चैव चक्रे सर्वाः क्रिय़ास्तदा |
३० क
वैशम्पाय़न उवाच:
ये हता व्रह्मशापेन मुसलैरेरकोद्भवैः ||
३० ख
वैशम्पाय़न उवाच:
ततः शरीरे रामस्य वासुदेवस्य चोभय़ोः |
३१ क
वैशम्पाय़न उवाच:
अन्विष्य दाहय़ामास पुरुषैराप्तकारिभिः ||
३१ ख
वैशम्पाय़न उवाच:
स तेषां विधिवत्कृत्वा प्रेतकार्याणि पाण्डवः |
३२ क
वैशम्पाय़न उवाच:
सप्तमे दिवसे प्राय़ाद्रथमारुह्य सत्वरः |
३२ ख
वैशम्पाय़न उवाच:
अश्वय़ुक्तै रथैश्चापि गोखरोष्ट्रय़ुतैरपि ||
३२ ग
वैशम्पाय़न उवाच:
स्त्रिय़स्ता वृष्णिवीराणां रुदत्यः शोककर्शिताः |
३३ क
वैशम्पाय़न उवाच:
अनुजग्मुर्महात्मानं पाण्डुपुत्रं धनञ्जय़म् ||
३३ ख
वैशम्पाय़न उवाच:
भृत्यास्त्वन्धकवृष्णीनां सादिनो रथिनश्च ये |
३४ क
वैशम्पाय़न उवाच:
वीरहीनं वृद्धवालं पौरजानपदास्तथा |
३४ ख
वैशम्पाय़न उवाच:
यय़ुस्ते परिवार्याथ कलत्रं पार्थशासनात् ||
३४ ग
वैशम्पाय़न उवाच:
कुञ्जरैश्च गजारोहा यय़ुः शैलनिभैस्तथा |
३५ क
वैशम्पाय़न उवाच:
सपादरक्षैः संय़ुक्ताः सोत्तराय़ुधिका यय़ुः ||
३५ ख
वैशम्पाय़न उवाच:
पुत्राश्चान्धकवृष्णीनां सर्वे पार्थमनुव्रताः |
३६ क
वैशम्पाय़न उवाच:
व्राह्मणाः क्षत्रिय़ा वैश्याः शूद्राश्चैव महाधनाः ||
३६ ख
वैशम्पाय़न उवाच:
दश षट्च सहस्राणि वासुदेवावरोधनम् |
३७ क
वैशम्पाय़न उवाच:
पुरस्कृत्य यय़ुर्वज्रं पौत्रं कृष्णस्य धीमतः ||
३७ ख
वैशम्पाय़न उवाच:
वहूनि च सहस्राणि प्रय़ुतान्यर्वुदानि च |
३८ क
वैशम्पाय़न उवाच:
भोजवृष्ण्यन्धकस्त्रीणां हतनाथानि निर्ययुः ||
३८ ख
वैशम्पाय़न उवाच:
तत्सागरसमप्रख्यं वृष्णिचक्रं महर्द्धिमत् |
३९ क
वैशम्पाय़न उवाच:
उवाह रथिनां श्रेष्ठः पार्थः परपुरञ्जय़ः ||
३९ ख
वैशम्पाय़न उवाच:
निर्याते तु जने तस्मिन्सागरो मकरालय़ः |
४० क
वैशम्पाय़न उवाच:
द्वारकां रत्नसम्पूर्णां जलेनाप्लावय़त्तदा ||
४० ख
वैशम्पाय़न उवाच:
तदद्भुतमभिप्रेक्ष्य द्वारकावासिनो जनाः |
४१ क
वैशम्पाय़न उवाच:
तूर्णात्तूर्णतरं जग्मुरहो दैवमिति व्रुवन् ||
४१ ख
वैशम्पाय़न उवाच:
काननेषु च रम्येषु पर्वतेषु नदीषु च |
४२ क
वैशम्पाय़न उवाच:
निवसन्नानय़ामास वृष्णिदारान्धनञ्जय़ः ||
४२ ख
वैशम्पाय़न उवाच:
स पञ्चनदमासाद्य धीमानतिसमृद्धिमत् |
४३ क
वैशम्पाय़न उवाच:
देशे गोपशुधान्याढ्ये निवासमकरोत्प्रभुः ||
४३ ख
वैशम्पाय़न उवाच:
ततो लोभः समभवद्दस्यूनां निहतेश्वराः |
४४ क
वैशम्पाय़न उवाच:
दृष्ट्वा स्त्रिय़ो नीय़मानाः पार्थेनैकेन भारत ||
४४ ख
वैशम्पाय़न उवाच:
ततस्ते पापकर्माणो लोभोपहतचेतसः |
४५ क
वैशम्पाय़न उवाच:
आभीरा मन्त्रय़ामासुः समेत्याशुभदर्शनाः ||
४५ ख
वैशम्पाय़न उवाच:
अय़मेकोऽर्जुनो योद्धा वृद्धवालं हतेश्वरम् |
४६ क
वैशम्पाय़न उवाच:
नय़त्यस्मानतिक्रम्य योधाश्चेमे हतौजसः ||
४६ ख
वैशम्पाय़न उवाच:
ततो यष्टिप्रहरणा दस्यवस्ते सहस्रशः |
४७ क
वैशम्पाय़न उवाच:
अभ्यधावन्त वृष्णीनां तं जनं लोप्त्रहारिणः ||
४७ ख
वैशम्पाय़न उवाच:
महता सिंहनादेन द्रावय़न्तः पृथग्जनम् |
४८ क
वैशम्पाय़न उवाच:
अभिपेतुर्धनार्थं ते कालपर्याय़चोदिताः ||
४८ ख
वैशम्पाय़न उवाच:
ततो निवृत्तः कौन्तेय़ः सहसा सपदानुगः |
४९ क
वैशम्पाय़न उवाच:
उवाच तान्महावाहुरर्जुनः प्रहसन्निव ||
४९ ख