chevron_left सभा पर्व अध्याय ८
नारद उवाच:
कथय़िष्ये सभां दिव्यां युधिष्ठिर निवोध ताम् |
१ क
नारद उवाच:
वैवस्वतस्य यामर्थे विश्वकर्मा चकार ह ||
१ ख
नारद उवाच:
तैजसी सा सभा राजन्वभूव शतय़ोजना |
२ क
नारद उवाच:
विस्ताराय़ामसम्पन्ना भूय़सी चापि पाण्डव ||
२ ख
नारद उवाच:
अर्कप्रकाशा भ्राजिष्णुः सर्वतः कामचारिणी |
३ क
नारद उवाच:
नैवातिशीता नात्युष्णा मनसश्च प्रहर्षिणी ||
३ ख
नारद उवाच:
न शोको न जरा तस्यां क्षुत्पिपासे न चाप्रिय़म् |
४ क
नारद उवाच:
न च दैन्यं क्लमो वापि प्रतिकूलं न चाप्युत ||
४ ख
नारद उवाच:
सर्वे कामाः स्थितास्तस्यां ये दिव्या ये च मानुषाः |
५ क
नारद उवाच:
रसवच्च प्रभूतं च भक्ष्यभोज्यमरिन्दम ||
५ ख
नारद उवाच:
पुण्यगन्धाः स्रजस्तत्र नित्यपुष्पफलद्रुमाः |
६ क
नारद उवाच:
रसवन्ति च तोय़ानि शीतान्युष्णानि चैव ह ||
६ ख
नारद उवाच:
तस्यां राजर्षय़ः पुण्यास्तथा व्रह्मर्षय़ोऽमलाः |
७ क
नारद उवाच:
यमं वैवस्वतं तात प्रहृष्टाः पर्युपासते ||
७ ख
नारद उवाच:
यय़ातिर्नहुषः पूरुर्मान्धाता सोमको नृगः |
८ क
नारद उवाच:
त्रसदस्युश्च तुरय़ः कृतवीर्यः श्रुतश्रवाः ||
८ ख
नारद उवाच:
अरिप्रणुत्सुसिंहश्च कृतवेगः कृतिर्निमिः |
९ क
नारद उवाच:
प्रतर्दनः शिविर्मत्स्यः पृथ्वक्षोऽथ वृहद्रथः ||
९ ख
नारद उवाच:
ऐडो मरुत्तः कुशिकः साङ्काश्यः साङ्कृतिर्भवः |
१० क
नारद उवाच:
चतुरश्वः सदश्वोर्मिः कार्तवीर्यश्च पार्थिवः ||
१० ख
नारद उवाच:
भरतस्तथा सुरथः सुनीथो नैषधो नलः |
११ क
नारद उवाच:
दिवोदासोऽथ सुमना अम्वरीषो भगीरथः ||
११ ख
नारद उवाच:
व्यश्वः सदश्वो वध्र्यश्वः पञ्चहस्तः पृथुश्रवाः |
१२ क
नारद उवाच:
रुषद्गुर्वृषसेनश्च क्षुपश्च सुमहावलः ||
१२ ख
नारद उवाच:
रुषदश्वो वसुमनाः पुरुकुत्सो ध्वजी रथी |
१३ क
नारद उवाच:
आर्ष्टिषेणो दिलीपश्च महात्मा चाप्युशीनरः ||
१३ ख
नारद उवाच:
औशीनरः पुण्डरीकः शर्यातिः शरभः शुचिः |
१४ क
नारद उवाच:
अङ्गोऽरिष्टश्च वेनश्च दुःषन्तः सञ्जय़ो जय़ः ||
१४ ख
नारद उवाच:
भाङ्गास्वरिः सुनीथश्च निषधोऽथ त्विषीरथः |
१५ क
नारद उवाच:
करन्धमो वाह्लिकश्च सुद्युम्नो वलवान्मधुः ||
१५ ख
नारद उवाच:
कपोतरोमा तृणकः सहदेवार्जुनौ तथा |
१६ क
नारद उवाच:
रामो दाशरथिश्चैव लक्ष्मणोऽथ प्रतर्दनः ||
१६ ख
नारद उवाच:
अलर्कः कक्षसेनश्च गय़ो गौराश्व एव च |
१७ क
नारद उवाच:
जामदग्न्योऽथ रामोऽत्र नाभागसगरौ तथा ||
१७ ख
नारद उवाच:
भूरिद्युम्नो महाश्वश्च पृथ्वश्वो जनकस्तथा |
१८ क
नारद उवाच:
वैन्यो राजा वारिषेणः पुरुजो जनमेजय़ः ||
१८ ख
नारद उवाच:
व्रह्मदत्तस्त्रिगर्तश्च राजोपरिचरस्तथा |
१९ क
नारद उवाच:
इन्द्रद्युम्नो भीमजानुर्गय़ः पृष्ठो नय़ोऽनघः ||
१९ ख
नारद उवाच:
पद्मोऽथ मुचुकुन्दश्च भूरिद्युम्नः प्रसेनजित् |
२० क
नारद उवाच:
अरिष्टनेमिः प्रद्युम्नः पृथगश्वोऽजकस्तथा ||
२० ख
नारद उवाच:
शतं मत्स्या नृपतय़ः शतं नीपाः शतं हय़ाः |
२१ क
नारद उवाच:
धृतराष्ट्राश्चैकशतमशीतिर्जनमेजय़ाः ||
२१ ख
नारद उवाच:
शतं च व्रह्मदत्तानामीरिणां वैरिणां शतम् |
२२ क
नारद उवाच:
शन्तनुश्चैव राजर्षिः पाण्डुश्चैव पिता तव ||
२२ ख
नारद उवाच:
उशद्गवः शतरथो देवराजो जय़द्रथः |
२३ क
नारद उवाच:
वृषादर्भिश्च राजर्षिर्धाम्ना सह समन्त्रिणा ||
२३ ख
नारद उवाच:
अथापरे सहस्राणि ये गताः शशविन्दवः |
२४ क
नारद उवाच:
इष्ट्वाश्वमेधैर्वहुभिर्महद्भिर्भूरिदक्षिणैः ||
२४ ख
नारद उवाच:
एते राजर्षय़ः पुण्याः कीर्तिमन्तो वहुश्रुताः |
२५ क
नारद उवाच:
तस्यां सभाय़ां राजर्षे वैवस्वतमुपासते ||
२५ ख
नारद उवाच:
अगस्त्योऽथ मतङ्गश्च कालो मृत्युस्तथैव च |
२६ क
नारद उवाच:
यज्वानश्चैव सिद्धाश्च ये च योगशरीरिणः ||
२६ ख
नारद उवाच:
अग्निष्वात्ताश्च पितरः फेनपाश्चोष्मपाश्च ये |
२७ क
नारद उवाच:
स्वधावन्तो वर्हिषदो मूर्तिमन्तस्तथापरे ||
२७ ख
नारद उवाच:
कालचक्रं च साक्षाच्च भगवान्हव्यवाहनः |
२८ क
नारद उवाच:
नरा दुष्कृतकर्माणो दक्षिणाय़नमृत्यवः ||
२८ ख
नारद उवाच:
कालस्य नय़ने युक्ता यमस्य पुरुषाश्च ये |
२९ क
नारद उवाच:
तस्यां शिंशपपालाशास्तथा काशकुशादय़ः |
२९ ख
नारद उवाच:
उपासते धर्मराजं मूर्तिमन्तो निरामय़ाः ||
२९ ग
नारद उवाच:
एते चान्ये च वहवः पितृराजसभासदः |
३० क
नारद उवाच:
अशक्याः परिसङ्ख्यातुं नामभिः कर्मभिस्तथा ||
३० ख
नारद उवाच:
असम्वाधा हि सा पार्थ रम्या कामगमा सभा |
३१ क
नारद उवाच:
दीर्घकालं तपस्तप्त्वा निर्मिता विश्वकर्मणा ||
३१ ख
नारद उवाच:
प्रभासन्ती ज्वलन्तीव तेजसा स्वेन भारत |
३२ क
नारद उवाच:
तामुग्रतपसो यान्ति सुव्रताः सत्यवादिनः ||
३२ ख
नारद उवाच:
शान्ताः संन्यासिनः सिद्धाः पूताः पुण्येन कर्मणा |
३३ क
नारद उवाच:
सर्वे भास्वरदेहाश्च सर्वे च विरजोम्वराः ||
३३ ख
नारद उवाच:
चित्राङ्गदाश्चित्रमाल्याः सर्वे ज्वलितकुण्डलाः |
३४ क
नारद उवाच:
सुकृतैः कर्मभिः पुण्यैः परिवर्हैर्विभूषिताः ||
३४ ख
नारद उवाच:
गन्धर्वाश्च महात्मानः शतशश्चाप्सरोगणाः |
३५ क
नारद उवाच:
वादित्रं नृत्तगीतं च हास्यं लास्यं च सर्वशः ||
३५ ख
नारद उवाच:
पुण्याश्च गन्धाः शव्दाश्च तस्यां पार्थ समन्ततः |
३६ क
नारद उवाच:
दिव्यानि माल्यानि च तामुपतिष्ठन्ति सर्वशः ||
३६ ख
नारद उवाच:
शतं शतसहस्राणि धर्मिणां तं प्रजेश्वरम् |
३७ क
नारद उवाच:
उपासते महात्मानं रूपय़ुक्ता मनस्विनः ||
३७ ख
नारद उवाच:
ईदृशी सा सभा राजन्पितृराज्ञो महात्मनः |
३८ क
नारद उवाच:
वरुणस्यापि वक्ष्यामि सभां पुष्करमालिनीम् ||
३८ ख